← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 42
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वश्यादिसाधिकमन्त्रनिरूपणं नामैकचत्वारिंशो ऽध्यायः श्रीगरुडमहापुराणम्- ४२ हरिरुवाच । पवित्रारोपणं वक्ष्ये सिवस्याशिवनाशनम् । आचार्यः साधकः कुर्यात्पुत्रकः समयी हर
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaśyādisādhikamantranirūpaṇaṃ nāmaikacatvāriṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 42 hariruvāca / pavitrāropaṇaṃ vakṣye sivasyāśivanāśanam / ācāryaḥ sādhakaḥ kuryātputrakaḥ samayī hara
1.42.1
संवत्सरकृतां पूजां विघ्नेशो हरते ऽन्यथा । आषाढे श्रावणे माघे कुर्याद्भाद्रपदे ऽपि वा
saṃvatsarakṛtāṃ pūjāṃ vighneśo harate 'nyathā / āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi vā
1.42.2
सौवर्णरौप्यताम्रं च सूत्रं कार्पासिकं क्रमात् । ज्ञेयं कुजादौ संग्राह्यं कन्यया कर्तितं च यत्
sauvarṇaraupyatāmraṃ ca sūtraṃ kārpāsikaṃ kramāt / jñeyaṃ kujādau saṃgrāhyaṃ kanyayā kartitaṃ ca yat
1.42.3
त्रिगुणं त्रिगुणीकृत्य ततः कुर्यात्पवित्रकम् । ग्रन्थयो वामदेवेन सत्येन क्षालयेच्छिव
triguṇaṃ triguṇīkṛtya tataḥ kuryātpavitrakam / granthayo vāmadevena satyena kṣālayecchiva
1.42.4
अघोरेण तु संशोध्य बद्धस्तत्पुरुषाद्भवेत् । धूपयेदीशमन्त्रेण तन्तुदेवा इति (मे) स्मृताः
aghoreṇa tu saṃśodhya baddhastatpuruṣādbhavet / dhūpayedīśamantreṇa tantudevā iti (me) smṛtāḥ
1.42.5
ॐ कारश्चन्द्रमा वह्निर्ब्रह्ना नागः शिखिध्वजः । रविर्विष्णुः शिवः प्रोक्तः क्रमात्तन्तुषु देवताः
oṃ kāraścandramā vahnirbrahnā nāgaḥ śikhidhvajaḥ / ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ
1.42.6
अष्टोत्तरशतं कुर्यात्पञ्चाशत्पञ्चविंशतिम् । रुद्रो ऽत्तमादि विज्ञेयं मानं च ग्रन्थयो दश
aṣṭottaraśataṃ kuryātpañcāśatpañcaviṃśatim / rudro 'ttamādi vijñeyaṃ mānaṃ ca granthayo daśa
1.42.7
चतुरङ्गुलान्तराः स्युर्ग्रन्थिनामानि च क्रमात् । प्रकृतिः पौरुषी वीरा चतुर्थो चापराजिता
caturaṅgulāntarāḥ syurgranthināmāni ca kramāt / prakṛtiḥ pauruṣī vīrā caturtho cāparājitā
1.42.8
जया च विजया रुद्रा अजिता च सदाशिवा । मनोन्मनी सर्वमुखी द्व्यङ्गुलाङ्गुलतो ऽथवा
jayā ca vijayā rudrā ajitā ca sadāśivā / manonmanī sarvamukhī dvyaṅgulāṅgulato 'thavā
1.42.9
रञ्जयेत्कुङ्कुमाद्यैस्तु कुर्याद्रन्धैः पवित्रकम् । सप्तम्यां वा त्रयोदश्यां शुक्लपक्षे तथेतरे
rañjayetkuṅkumādyaistu kuryādrandhaiḥ pavitrakam / saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare
1.42.10
क्षीरादिभिश्च संस्नाप्य लिङ्गं गन्धादिभिर्यजेत् । दद्याद्रन्धपवित्रं तु आत्मने ब्रह्मणे हर
kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet / dadyādrandhapavitraṃ tu ātmane brahmaṇe hara
1.42.11
पुष्पं गन्धयुतं दद्यान्मूलेनेशानगोचरे । पूर्वे च दण्डकाष्ठं तु उत्तरे चामलकीफलम्
puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare / pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam
1.42.12
मृत्तिकां पश्चिमे दद्याद्दक्षिणे भस्म भूतयः । नैरृतेह्यगुरुं दद्याच्छिखामन्त्रेण मन्त्रवित्
mṛttikāṃ paścime dadyāddakṣiṇe bhasma bhūtayaḥ / nairṛtehyaguruṃ dadyācchikhāmantreṇa mantravit
1.42.13
वायव्यां सर्षपं दद्यात्कवचेन वृषध्वज । गृहं संवेष्ट्य सूत्रेण दद्याद्रन्धपवित्रकम्
vāyavyāṃ sarṣapaṃ dadyātkavacena vṛṣadhvaja / gṛhaṃ saṃveṣṭya sūtreṇa dadyādrandhapavitrakam
1.42.14
होमं कृत्वा ग्नेय दत्त्वा दद्याद्भूतबलिं तथा । आमन्त्रितो ऽसि देवेश गणैः सार्धं महेश्वर
homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā / āmantrito 'si deveśa gaṇaiḥ sārdhaṃ maheśvara
1.42.15
प्रातस्त्वां पूजयिष्यामि अत्र सन्निहितो भव । निमन्त्र्यानेन तिष्ठेत्तु कुर्वन् गीतादिकं निशि
prātastvāṃ pūjayiṣyāmi atra sannihito bhava / nimantryānena tiṣṭhettu kurvan gītādikaṃ niśi
1.42.16
मन्त्रितानि पवित्राणि स्थापयेद्देवपार्श्वतः । स्नात्वादित्यं चतुर्दश्यां प्राग्रुद्रं च प्रपूजयेत्
mantritāni pavitrāṇi sthāpayeddevapārśvataḥ / snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet
1.42.17
ललाटस्थं विश्वरूपं ध्यात्वात्मानं प्रपूजयेत् । अस्त्रेण प्रोक्षितान्येवं हृदयेनार्चितान्यथ
lalāṭasthaṃ viśvarūpaṃ dhyātvātmānaṃ prapūjayet / astreṇa prokṣitānyevaṃ hṛdayenārcitānyatha
1.42.18
संहितामन्त्रितान्येव धूपितानि समर्पयेत् । शिवतत्त्वात्मकं चादौ विद्यातत्त्वात्मकं ततः
saṃhitāmantritānyeva dhūpitāni samarpayet / śivatattvātmakaṃ cādau vidyātattvātmakaṃ tataḥ
1.42.19
आत्मतत्त्वात्मकं पश्चाद्देवकाख्यं ततोर्ऽचयेत् । ॐ हौं हौं शिवतत्त्वाय नमः । ॐ हीं(हीः) विद्यातत्त्वाय नमः
ātmatattvātmakaṃ paścāddevakākhyaṃ tator'cayet / oṃ hauṃ hauṃ śivatattvāya namaḥ / oṃ hīṃ(hīḥ) vidyātattvāya namaḥ
1.42.20
ॐ हां (हौः) आत्मतत्त्वाय नमः । ॐ हां हीं हूं क्षैं सर्वतत्त्वाय नमः । कालात्मना त्वया देव यद्दृष्टं मामके विधौ
oṃ hāṃ (hauḥ) ātmatattvāya namaḥ / oṃ hāṃ hīṃ hūṃ kṣaiṃ sarvatattvāya namaḥ / kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau
1.42.21
कृतं क्लिष्टं समुत्सृष्टं हुतं गुप्त च यत्कृतम् । सर्वात्मनात्मना शम्भो पवित्रेण त्वदिच्छया
kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ gupta ca yatkṛtam / sarvātmanātmanā śambho pavitreṇa tvadicchayā
1.42.22
पूरयपूरय मखव्रतं तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ॐ हां हीं हूं हैं हौं शिवाय नमः
pūrayapūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ
1.42.23
पूर्वैरनेन यो दद्यात्पवित्राणां चतुष्टयम् । दत्त्वा वह्नेः (वरे) पवित्रं च गुरवे दक्षिणां दिशेत्
pūrvairanena yo dadyātpavitrāṇāṃ catuṣṭayam / dattvā vahneḥ (vare) pavitraṃ ca gurave dakṣiṇāṃ diśet
1.42.24
बलिं दत्त्वा द्विजान् भोज्य चण्डं प्राच्यै विसर्जयेत्
baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet
1.42.25