← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 9
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजोपयोगिवज्रनाभमण्डलनिरूपणं नामाष्टमो ऽध्यायः श्रीगरुडमहापुराणम्- ९ हरिरुवाच । समये (या) दीक्षितः शिष्यो बद्धनेत्रस्तु वाससा । अष्टाहुतिशतं तस्य मूलमन्त्रेण होमयेत्
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjopayogivajranābhamaṇḍalanirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 9 hariruvāca / samaye (yā) dīkṣitaḥ śiṣyo baddhanetrastu vāsasā / aṣṭāhutiśataṃ tasya mūlamantreṇa homayet
1.9.1
द्विगुणं पुत्रके होमं त्रिगुणं साधके मतम् । निर्वाणदेशिके रुद्र ! चतुर्गुणमुदाहृतम्
dviguṇaṃ putrake homaṃ triguṇaṃ sādhake matam / nirvāṇadeśike rudra ! caturguṇamudāhṛtam
1.9.2
गुरुविष्णुद्विजस्त्रीणां हन्ता बध्यस्त्व(श्च)दीक्षितैः । अथ दीक्षां प्रवक्ष्यामि धर्माधर्मक्षयङ्करीम्
guruviṣṇudvijastrīṇāṃ hantā badhyastva(śca)dīkṣitaiḥ / atha dīkṣāṃ pravakṣyāmi dharmādharmakṣayaṅkarīm
1.9.3
उपवेश्य बहिः शिष्यान्धारणं तेषु कारयेत् । वायव्या कलया रुद्र शोष्यमाणान्विचिन्तयेत्
upaveśya bahiḥ śiṣyāndhāraṇaṃ teṣu kārayet / vāyavyā kalayā rudra śoṣyamāṇānvicintayet
1.9.4
आग्रेय्या दह्यमानांश्च प्लावितानम्भसा पुनः । तेजस्तेजासि तं जीवमेकीकृत्य समाक्षिपेत्
āgreyyā dahyamānāṃśca plāvitānambhasā punaḥ / tejastejāsi taṃ jīvamekīkṛtya samākṣipet
1.9.5
प्राणवं चिन्तयेव्द्योम्नि शरीरे ऽन्यत्तु कारणम् । एकैकं यो जयेत्तत्र क्षेत्रज्ञं देहकारणात्
prāṇavaṃ cintayevdyomni śarīre 'nyattu kāraṇam / ekaikaṃ yo jayettatra kṣetrajñaṃ dehakāraṇāt
1.9.6
उत्पाद्य योजयेत्पश्चादेकैकं वृषभध्वज । मण्डलादिष्वशक्तस्तु कल्पयित्वार्ऽचयेद्धरिम्
utpādya yojayetpaścādekaikaṃ vṛṣabhadhvaja / maṇḍalādiṣvaśaktastu kalpayitvār'cayeddharim
1.9.7
चतुर्द्वारं भवेत्तच्च ब्रह्मतीर्थादनुक्रमात् । हस्तं पद्मं समाख्यातं पत्राण्यङ्गुलयः स्मृताः
caturdvāraṃ bhavettacca brahmatīrthādanukramāt / hastaṃ padmaṃ samākhyātaṃ patrāṇyaṅgulayaḥ smṛtāḥ
1.9.8
कर्णिका तलहस्तन्तु नखान्यस्य तु केसराः । तत्रार्चयेद्धरिं ध्यात्वा सूर्यन्द्वग्नयन्तरेव च
karṇikā talahastantu nakhānyasya tu kesarāḥ / tatrārcayeddhariṃ dhyātvā sūryandvagnayantareva ca
1.9.9
तं हस्तं पातयेन्मूर्ध्नि शिष्यस्य तु समाहितः । हस्ते विष्णुः स्थितो यस्माद्विष्णुहस्तस्ततस्त्वयम् । नश्यन्ति स्पर्शनात्तस्य पातकान्यखिलानि च
taṃ hastaṃ pātayenmūrdhni śiṣyasya tu samāhitaḥ / haste viṣṇuḥ sthito yasmādviṣṇuhastastatastvayam / naśyanti sparśanāttasya pātakānyakhilāni ca
1.9.10
गुरुः शिष्यं समभ्यर्च्य नेत्रे बद्धे तु वाससा । देवस्य प्रमुखं कृत्वा पुष्पमेवार्पयेत्ततः । पुष्पं निपतितं यत्र मूर्ध्नो देवस्य शार्ङ्गिणः
guruḥ śiṣyaṃ samabhyarcya netre baddhe tu vāsasā / devasya pramukhaṃ kṛtvā puṣpamevārpayettataḥ / puṣpaṃ nipatitaṃ yatra mūrdhno devasya śārṅgiṇaḥ
1.9.11
तन्नाम कारयेत्तस्य स्त्रीणां नामाङ्कितं स्वयम् । शूद्राणां दाससंयुक्तं कारयेत्तु विचक्षणः
tannāma kārayettasya strīṇāṃ nāmāṅkitaṃ svayam / śūdrāṇāṃ dāsasaṃyuktaṃ kārayettu vicakṣaṇaḥ
1.9.12