Preta Khanda (Dharma Khanda)

प्रेतखण्ड — Adhyaya 44

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे शुद्धिनिरूपणं नाम त्रिचत्वारिंशो ऽध्यायः श्रीगरुडमहापुराणम्- ४४ श्रीविष्णुरुवाच । स्वेच्छया तार्क्ष्य मरणं शृङ्गिदंष्ट्रिसरीसृपः । चाण्डालाद्यात्मघातैश्च विषाद्यैस्ताडनैस्तथा

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde śuddhinirūpaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 44 śrīviṣṇuruvāca / svecchayā tārkṣya maraṇaṃ śṛṅgidaṃṣṭrisarīsṛpaḥ / cāṇḍālādyātmaghātaiśca viṣādyaistāḍanaistathā

2.44.1

जलाग्निपातवातैश्च निराहारादिभिस्तथा । येषामेव भवेन्मृत्युः प्रोक्तास्ते पापकर्मिणः

jalāgnipātavātaiśca nirāhārādibhistathā / yeṣāmeva bhavenmṛtyuḥ proktāste pāpakarmiṇaḥ

2.44.2

पाषड्यनाश्रमाश्चैव महापातकिनस्तथा । स्त्रियश्च व्यभिचारिण्य आरूढपतितास्तथा

pāṣaḍyanāśramāścaiva mahāpātakinastathā / striyaśca vyabhicāriṇya ārūḍhapatitāstathā

2.44.3

न तेषां स्यान्नव श्राद्धं न संस्कारः सपिण्डनम् । श्राद्धानि षोडशोक्तानि न भवन्ति च तान्यपि

na teṣāṃ syānnava śrāddhaṃ na saṃskāraḥ sapiṇḍanam / śrāddhāni ṣoḍaśoktāni na bhavanti ca tānyapi

2.44.4

वेतनं यत् क्षिपेदप्सु गृह्याग्निश्च चतुष्पथे । पात्राणिनिर्दहेदग्नौ साग्निके पापकर्मणि

vetanaṃ yat kṣipedapsu gṛhyāgniśca catuṣpathe / pātrāṇinirdahedagnau sāgnike pāpakarmaṇi

2.44.5

पूर्णे संवत्सरे तेषामित्थं कार्यं दयालुभिः । एकादशीं समासाद्य शुक्लपक्षे च काश्यप

pūrṇe saṃvatsare teṣāmitthaṃ kāryaṃ dayālubhiḥ / ekādaśīṃ samāsādya śuklapakṣe ca kāśyapa

2.44.6

विष्णुं यमं च सम्पूज्य गन्धपुष्पाक्षतादिभिः । दश पिण्डान् घृताक्तांश्च दर्भेषु मधुसंयुतान्

viṣṇuṃ yamaṃ ca sampūjya gandhapuṣpākṣatādibhiḥ / daśa piṇḍān ghṛtāktāṃśca darbheṣu madhusaṃyutān

2.44.7

यज्ञोपवीति सतिलान् ध्यायन् विष्णुं यमं तथा । दक्षिणाभिमुखस्तूष्णीमेकैकं निर्वपेत् तुतान्

yajñopavīti satilān dhyāyan viṣṇuṃ yamaṃ tathā / dakṣiṇābhimukhastūṣṇīmekaikaṃ nirvapet tutān

2.44.8

उद्धृत्य मिश्रितान् पश्चात् तीर्थे ऽभ्मः सु विनिः क्षिपेत् । क्षिपन् संकीर्तयेन्नाम गोत्रं च मृतकस्य च

uddhṛtya miśritān paścāt tīrthe 'bhmaḥ su viniḥ kṣipet / kṣipan saṃkīrtayennāma gotraṃ ca mṛtakasya ca

2.44.9

पुनरप्यर्चयेद्विष्णुं यमं कुसुमचन्दनैः । धूपदीपैः सनैवेद्यैर्भक्ष्यभोज्यसमन्वितैः

punarapyarcayedviṣṇuṃ yamaṃ kusumacandanaiḥ / dhūpadīpaiḥ sanaivedyairbhakṣyabhojyasamanvitaiḥ

2.44.10

तस्मिन्नुपवसेदह्नि विप्रांश्चेव निमन्त्रयेत् । कुलविद्यातपोयुक्तान् साधुशीलसमन्वितान्

tasminnupavasedahni viprāṃśceva nimantrayet / kulavidyātapoyuktān sādhuśīlasamanvitān

2.44.11

नव सप्ताथवा पञ्च स्वसामर्थ्यानुसारतः । अपरे ऽहनि मध्याह्ने यमं विष्णुं तथार्चयेत्

nava saptāthavā pañca svasāmarthyānusārataḥ / apare 'hani madhyāhne yamaṃ viṣṇuṃ tathārcayet

2.44.12

उदङ्मुखांस्तथा विप्रांस्तान् सम्यगुपवेशयेत् । आवाहनार्घदानादौ विष्णुं यमसमन्वितम्

udaṅmukhāṃstathā viprāṃstān samyagupaveśayet / āvāhanārghadānādau viṣṇuṃ yamasamanvitam

2.44.13

यज्ञोपवीती कुर्वीत प्रेतनाम प्रकीर्तयेत् । प्रेतं यमं च विष्णुं च स्मरन् श्राद्धं समापयेत्

yajñopavītī kurvīta pretanāma prakīrtayet / pretaṃ yamaṃ ca viṣṇuṃ ca smaran śrāddhaṃ samāpayet

2.44.14

अन्येभ्यश्चापि सर्वेभ्यः पिण्डदानार्थमुद्धरेत् । पृथग्वा दश पिण्डांश्च पञ्च दद्यात् क्रमेण तु

anyebhyaścāpi sarvebhyaḥ piṇḍadānārthamuddharet / pṛthagvā daśa piṇḍāṃśca pañca dadyāt krameṇa tu

2.44.15

प्रथमं विष्णवे दद्याद्ब्रह्मणे च शिवाय च । सभृत्याय शिवायाथ प्रेतायापि च पञ्चमम्

prathamaṃ viṣṇave dadyādbrahmaṇe ca śivāya ca / sabhṛtyāya śivāyātha pretāyāpi ca pañcamam

2.44.16

नाम गोत्रं स्मरेत् तस्य विष्णुशब्दं प्रकीर्तयेत् । नमस्कारशिरस्कन्तु पञ्चमं पिण्डमुद्धरेत्

nāma gotraṃ smaret tasya viṣṇuśabdaṃ prakīrtayet / namaskāraśiraskantu pañcamaṃ piṇḍamuddharet

2.44.17

गोभूमिपिण्डदानाद्यैः शक्त्या प्रेतं स्मरंश्च तम् । तिलैस्तिलांस्तु विप्राणां दर्भयुक्तेषु पाणिषु

gobhūmipiṇḍadānādyaiḥ śaktyā pretaṃ smaraṃśca tam / tilaistilāṃstu viprāṇāṃ darbhayukteṣu pāṇiṣu

2.44.18

दद्यादन्नं द्विजानां च ताम्बूलं दक्षिणां तथा । एवं शिष्टतमं विप्रं हरिण्येन प्रपूजयेत्

dadyādannaṃ dvijānāṃ ca tāmbūlaṃ dakṣiṇāṃ tathā / evaṃ śiṣṭatamaṃ vipraṃ hariṇyena prapūjayet

2.44.19

नाम गोत्रं स्मरन् दद्याद्विष्णुप्रीतोस्त्विति ब्रुवन् । अनुव्रज्य द्विजान् पश्चात् त्यक्ताम्भो दक्षिणामुखः

nāma gotraṃ smaran dadyādviṣṇuprītostviti bruvan / anuvrajya dvijān paścāt tyaktāmbho dakṣiṇāmukhaḥ

2.44.20

कीर्तयन्नामगोत्रे तु भुवि प्रीतोस्त्विति क्षिपेत् । मित्रबन्धुजनैः सार्धं शेषं भुञ्जीत वाग्यतः । प्रतिसंवत्सरादि स्यादेकोद्दिष्टविधानतः

kīrtayannāmagotre tu bhuvi prītostviti kṣipet / mitrabandhujanaiḥ sārdhaṃ śeṣaṃ bhuñjīta vāgyataḥ / pratisaṃvatsarādi syādekoddiṣṭavidhānataḥ

2.44.21

एवं कृते गमिष्यन्ति स्वर्लोकं पापकर्मिणः । सपिण्डीकरणादौ तु कृते चैवाप्नुवन्तिते

evaṃ kṛte gamiṣyanti svarlokaṃ pāpakarmiṇaḥ / sapiṇḍīkaraṇādau tu kṛte caivāpnuvantite

2.44.22

अथ कश्चित् प्रमादेन म्रियते ह्युदकादिभिः । संसारप्रमुखस्तस्य सर्वं कुर्याद्यथाविधि

atha kaścit pramādena mriyate hyudakādibhiḥ / saṃsārapramukhastasya sarvaṃ kuryādyathāvidhi

2.44.23

प्रमादादिच्छया मर्त्यो न गच्छेत्सर्पसंमुखः । पक्षयोरुभयोर्नागं पञ्चमीषु प्रपूजयेत्

pramādādicchayā martyo na gacchetsarpasaṃmukhaḥ / pakṣayorubhayornāgaṃ pañcamīṣu prapūjayet

2.44.24

कुर्यात् पिष्टमयीं लेखां नागानामाकृतिं भुवि । अर्चयेत् तां सितैः पुष्पैः सुगन्धैश्चन्दनेनच

kuryāt piṣṭamayīṃ lekhāṃ nāgānāmākṛtiṃ bhuvi / arcayet tāṃ sitaiḥ puṣpaiḥ sugandhaiścandanenaca

2.44.25

प्रदद्याद्धूपदीपन्तु तण्डुलांश्च सितान् क्षिपेत् । आमपिष्टं तथैवान्नं क्षीरञ्च विनिवेदयेत्

pradadyāddhūpadīpantu taṇḍulāṃśca sitān kṣipet / āmapiṣṭaṃ tathaivānnaṃ kṣīrañca vinivedayet

2.44.26

उपस्थाय वदेदेवं मुञ्चन् मुद्रांशुकानि च । मधुरं तद्दिने ऽश्रीयाद्देवश्राद्धं समापयेत्

upasthāya vadedevaṃ muñcan mudrāṃśukāni ca / madhuraṃ taddine 'śrīyāddevaśrāddhaṃ samāpayet

2.44.27

सौवर्णं शक्तितो नागं ततो दद्याद्द्विजोत्तमे । धेनुं दत्त्वा ततो ब्रूयात् प्रीयतां नागराडिति

sauvarṇaṃ śaktito nāgaṃ tato dadyāddvijottame / dhenuṃ dattvā tato brūyāt prīyatāṃ nāgarāḍiti

2.44.28

यथाविभव्यं कुर्वीत कर्माण्यन्यानि पूर्ववत् । स्वशाखोक्तविधानेन इत्थं कुर्याद्यथातथम् । प्रेतत्वान्मोचयेत् तांस्तु स्वर्गमार्गं नयेत् च

yathāvibhavyaṃ kurvīta karmāṇyanyāni pūrvavat / svaśākhoktavidhānena itthaṃ kuryādyathātatham / pretatvānmocayet tāṃstu svargamārgaṃ nayet ca

2.44.29

2.432.45