Vishnu Purana · Amsha 4 · Adhyaya 16

पराशर उवाच

इत्य् एष समासतस् ते कथितो यदोर् वंशः । तुर्वसोर् वंशम् अवधारय

ity eṣa samāsatas te kathito yador vaṃśaḥ | turvasor vaṃśam avadhāraya

4.16.1

तुर्वसोर् वह्निर् आत्मजो वह्नेर् गोभानुस् ततश् च त्रैशानुस् तस्माच् च करंधमः । तस्यापि मरुत्तः । सो ऽनपत्यो ऽभवत् । ततश् च पौरवं दुष्यन्तं पुत्रम् अकल्पयत् । एवं ययातिशापात् तद्वंशः पौरवम् वंशं समाश्रितवान्

turvasor vahnir ātmajo vahner gobhānus tataś ca traiśānus tasmāc ca karaṃdhamaḥ | tasyāpi maruttaḥ | so 'napatyo 'bhavat | tataś ca pauravaṃ duṣyantaṃ putram akalpayat | evaṃ yayātiśāpāt tadvaṃśaḥ pauravam vaṃśaṃ samāśritavān

4.16.2

Adhyaya 15Adhyaya 17