Canto 1, Chapter 16
सूत उवाच तत: परीक्षिद् द्विजवर्यशिक्षयामहीं महाभागवत: शशास ह । यथा हि सूत्यामभिजातकोविदा:समादिशन् विप्र महद्गुणस्तथा ॥ १ ॥
sūta uvācatataḥ parīkṣid dvija-varya-śikṣayāmahīṁ mahā-bhāgavataḥ śaśāsa hayathā hi sūtyām abhijāta-kovidāḥsamādiśan vipra mahad-guṇas tathā
स उत्तरस्य तनयामुपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्यामुत्पादयत् सुतान् ॥ २ ॥
sa uttarasya tanayāmupayema irāvatīmjanamejayādīṁś caturastasyām utpādayat sutān
आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् । शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचरा: ॥ ३ ॥
ājahārāśva-medhāṁs trīngaṅgāyāṁ bhūri-dakṣiṇānśāradvataṁ guruṁ kṛtvādevā yatrākṣi-gocarāḥ
निजग्राहौजसा वीर: कलिं दिग्विजये क्वचित् । नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ ४ ॥
nijagrāhaujasā vīraḥkaliṁ digvijaye kvacitnṛpa-liṅga-dharaṁ śūdraṁghnantaṁ go-mithunaṁ padā
शौनक उवाच कस्य हेतोर्निजग्राह कलिं दिग्विजये नृप: । नृदेवचिह्नधृक्शूद्रकोऽसौ गां य: पदाहनत् । तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ ५ ॥
śaunaka uvācakasya hetor nijagrāhakaliṁ digvijaye nṛpaḥnṛdeva-cihna-dhṛk śūdra-ko ’sau gāṁ yaḥ padāhanattat kathyatāṁ mahā-bhāgayadi kṛṣṇa-kathāśrayam
अथवास्य पदाम्भोजमकरन्दलिहां सताम् । किमन्यैरसदालापैरायुषो यदसद्व्यय: ॥ ६ ॥
athavāsya padāmbhoja-makaranda-lihāṁ satāmkim anyair asad-ālāpairāyuṣo yad asad-vyayaḥ
क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् । इहोपहूतो भगवान्मृत्यु: शामित्रकर्मणि ॥ ७ ॥
kṣudrāyuṣāṁ nṛṇām aṅgamartyānām ṛtam icchatāmihopahūto bhagavānmṛtyuḥ śāmitra-karmaṇi
न कश्चिन्म्रियते तावद् यावदास्त इहान्तक: । एतदर्थं हि भगवानाहूत: परमर्षिभि: । अहो नृलोके पीयेत हरिलीलामृतं वच: ॥ ८ ॥
na kaścin mriyate tāvadyāvad āsta ihāntakaḥetad-arthaṁ hi bhagavānāhūtaḥ paramarṣibhiḥaho nṛ-loke pīyetahari-līlāmṛtaṁ vacaḥ
मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभि: ॥ ९ ॥
mandasya manda-prajñasyavayo mandāyuṣaś ca vainidrayā hriyate naktaṁdivā ca vyartha-karmabhiḥ
सूत उवाच यदा परीक्षित् कुरुजाङ्गलेऽवसत्कलिं प्रविष्टं निजचक्रवर्तिते । निशम्य वार्तामनतिप्रियां तत:शरासनं संयुगशौण्डिराददे ॥ १० ॥
sūta uvācayadā parīkṣit kuru-jāṅgale ’vasatkaliṁ praviṣṭaṁ nija-cakravartiteniśamya vārtām anatipriyāṁ tataḥśarāsanaṁ saṁyuga-śauṇḍir ādade
स्वलङ्कृतं श्यामतुरङ्गयोजितंरथं मृगेन्द्रध्वजमाश्रित: पुरात् । वृतो रथाश्वद्विपपत्तियुक्तयास्वसेनया दिग्विजयाय निर्गत: ॥ ११ ॥
svalaṅkṛtaṁ śyāma-turaṅga-yojitaṁrathaṁ mṛgendra-dhvajam āśritaḥ purātvṛto rathāśva-dvipapatti-yuktayāsva-senayā digvijayāya nirgataḥ
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १२ ॥
bhadrāśvaṁ ketumālaṁ cabhārataṁ cottarān kurūnkimpuruṣādīni varṣāṇivijitya jagṛhe balim
तत्र तत्रोपशृण्वान: स्वपूर्वेषां महात्मनाम् । प्रगीयमाणं च यश: कृष्णमाहात्म्यसूचकम् ॥ १३ ॥ आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजस: । स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ १४ ॥ तेभ्य: परमसन्तुष्ट: प्रीत्युज्जृम्भितलोचन: । महाधनानि वासांसि ददौ हारान् महामना: ॥ १५ ॥
tatra tatropaśṛṇvānaḥsva-pūrveṣāṁ mahātmanāmpragīyamāṇaṁ ca yaśaḥkṛṣṇa-māhātmya-sūcakam
सारथ्यपारषदसेवनसख्यदौत्य-वीरासनानुगमनस्तवनप्रणामान् । स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णो-र्भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १६ ॥
sārathya-pāraṣada-sevana-sakhya-dautya-vīrāsanānugamana-stavana-praṇāmānsnigdheṣu pāṇḍuṣu jagat-praṇatiṁ ca viṣṇorbhaktiṁ karoti nṛ-patiś caraṇāravinde
तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् । नातिदूरे किलाश्चर्यं यदासीत् तन्निबोध मे ॥ १७ ॥
tasyaivaṁ vartamānasyapūrveṣāṁ vṛttim anvahamnātidūre kilāścaryaṁyad āsīt tan nibodha me
धर्म: पदैकेन चरन् विच्छायामुपलभ्य गाम् । पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥ १८ ॥
dharmaḥ padaikena caranvicchāyām upalabhya gāmpṛcchati smāśru-vadanāṁvivatsām iva mātaram
धर्म उवाच कच्चिद्भद्रेऽनामयमात्मनस्तेविच्छायासि म्लायतेषन्मुखेन । आलक्षये भवतीमन्तराधिंदूरे बन्धुं शोचसि कञ्चनाम्ब ॥ १९ ॥
dharma uvācakaccid bhadre ’nāmayam ātmanas tevicchāyāsi mlāyateṣan mukhenaālakṣaye bhavatīm antarādhiṁdūre bandhuṁ śocasi kañcanāmba
पादैर्न्यूनं शोचसि मैकपाद-मात्मानं वा वृषलैर्भोक्ष्यमाणम् । आहो सुरादीन् हृतयज्ञभागान्प्रजा उत स्विन्मघवत्यवर्षति ॥ २० ॥
pādair nyūnaṁ śocasi maika-pādamātmānaṁ vā vṛṣalair bhokṣyamāṇamāho surādīn hṛta-yajña-bhāgānprajā uta svin maghavaty avarṣati
अरक्ष्यमाणा: स्त्रिय उर्वि बालान्शोचस्यथो पुरुषादैरिवार्तान् । वाचं देवीं ब्रह्मकुले कुकर्म-ण्यब्रह्मण्ये राजकुले कुलाग्रयान् ॥ २१ ॥
arakṣyamāṇāḥ striya urvi bālānśocasy atho puruṣādair ivārtānvācaṁ devīṁ brahma-kule kukarmaṇyabrahmaṇye rāja-kule kulāgryān
किं क्षत्रबन्धून् कलिनोपसृष्टान्राष्ट्राणि वा तैरवरोपितानि । इतस्ततो वाशनपानवास:स्नानव्यवायोन्मुखजीवलोकम् ॥ २२ ॥
kiṁ kṣatra-bandhūn kalinopasṛṣṭānrāṣṭrāṇi vā tair avaropitāniitas tato vāśana-pāna-vāsaḥ-snāna-vyavāyonmukha-jīva-lokam
यद्वाम्ब ते भूरिभरावतारकृतावतारस्य हरेर्धरित्रि । अन्तर्हितस्य स्मरती विसृष्टाकर्माणि निर्वाणविलम्बितानि ॥ २३ ॥
yadvāmba te bhūri-bharāvatāra-kṛtāvatārasya harer dharitriantarhitasya smaratī visṛṣṭākarmāṇi nirvāṇa-vilambitāni
इदं ममाचक्ष्व तवाधिमूलंवसुन्धरे येन विकर्शितासि । कालेन वा ते बलिनां बलीयसा सुरार्चितंकिं हृतमम्ब सौभगम् ॥ २४ ॥
idaṁ mamācakṣva tavādhi-mūlaṁvasundhare yena vikarśitāsikālena vā te balināṁ balīyasāsurārcitaṁ kiṁ hṛtam amba saubhagam
dharaṇy uvācabhavān hi veda tat sarvaṁyan māṁ dharmānupṛcchasicaturbhir vartase yenapādair loka-sukhāvahaiḥ
सत्यं शौचं दया क्षान्तिस्त्याग: सन्तोष आर्जवम् । शमो दमस्तप: साम्यं तितिक्षोपरति: श्रुतम् ॥ २६ ॥ ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृति: । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ २७ ॥ प्रागल्भ्यं प्रश्रय: शीलं सह ओजो बलं भग: । गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृति: ॥ २८ ॥ एते चान्ये च भगवन्नित्या यत्र महागुणा: । प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ २९ ॥ तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् । शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ ३० ॥
satyaṁ śaucaṁ dayā kṣāntistyāgaḥ santoṣa ārjavamśamo damas tapaḥ sāmyaṁtitikṣoparatiḥ śrutam
आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् । देवान् पितृनृषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ ३१ ॥
ātmānaṁ cānuśocāmibhavantaṁ cāmarottamamdevān pitṝn ṛṣīn sādhūnsarvān varṇāṁs tathāśramān
ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष-कामास्तप: समचरन् भगवत्प्रपन्ना: । सा श्री: स्ववासमरविन्दवनं विहाययत्पादसौभगमलं भजतेऽनुरक्ता ॥ ३२ ॥ तस्याहमब्जकुलिशाङ्कुशकेतुकेतै:श्रीमत्पदैर्भगवत: समलङ्कृताङ्गी । त्रीनत्यरोच उपलभ्य ततो विभूतिंलोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ ३३ ॥
brahmādayo bahu-tithaṁ yad-apāṅga-mokṣa-kāmās tapaḥ samacaran bhagavat-prapannāḥsā śrīḥ sva-vāsam aravinda-vanaṁ vihāyayat-pāda-saubhagam alaṁ bhajate ’nuraktā
यो वै ममातिभरमासुरवंशराज्ञा-मक्षौहिणीशतमपानुददात्मतन्त्र: । त्वां दु:स्थमूनपदमात्मनि पौरुषेणसम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥ ३४ ॥
yo vai mamātibharam āsura-vaṁśa-rājñāmakṣauhiṇī-śatam apānudad ātma-tantraḥtvāṁ duḥstham ūna-padam ātmani pauruṣeṇasampādayan yaduṣu ramyam abibhrad aṅgam
का वा सहेत विरहंपुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पै: । स्थैर्यं समानमहरन्मधुमानिनीनांरोमोत्सवो मम यदङ्घ्रिविटङ्किताया: ॥ ३५ ॥
kā vā saheta virahaṁ puruṣottamasyapremāvaloka-rucira-smita-valgu-jalpaiḥsthairyaṁ samānam aharan madhu-māninīnāṁromotsavo mama yad-aṅghri-viṭaṅkitāyāḥ
तयोरेवं कथयतो: पृथिवीधर्मयोस्तदा । परीक्षिन्नाम राजर्षि: प्राप्त: प्राचीं सरस्वतीम् ॥ ३६ ॥
tayor evaṁ kathayatoḥpṛthivī-dharmayos tadāparīkṣin nāma rājarṣiḥprāptaḥ prācīṁ sarasvatīm