Canto 10, Chapter 10
श्रीराजोवाचकथ्यतां भगवन्नेतत्तयो: शापस्य कारणम् । यत्तद् विगर्हितं कर्म येन वा देवर्षेस्तम: ॥ १ ॥
śrī-rājovācakathyatāṁ bhagavann etattayoḥ śāpasya kāraṇamyat tad vigarhitaṁ karmayena vā devarṣes tamaḥ
श्रीशुक उवाच रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २ ॥ वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ । स्त्रीजनैरनुगायद्भिश्चेरतु: पुष्पिते वने ॥ ३ ॥
śrī-śuka uvācarudrasyānucarau bhūtvāsudṛptau dhanadātmajaukailāsopavane ramyemandākinyāṁ madotkaṭau
अन्त: प्रविश्य गङ्गायामम्भोजवनराजिनि । चिक्रीडतुर्युवतिभिर्गजाविव करेणुभि: ॥ ४ ॥
antaḥ praviśya gaṅgāyāmambhoja-vana-rājinicikrīḍatur yuvatibhirgajāv iva kareṇubhiḥ
यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव । अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥ ५ ॥
yadṛcchayā ca devarṣirbhagavāṁs tatra kauravaapaśyan nārado devaukṣībāṇau samabudhyata
तं दृष्ट्वा व्रीडिता देव्यो विवस्त्रा: शापशङ्किता: । वासांसि पर्यधु: शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥
taṁ dṛṣṭvā vrīḍitā devyovivastrāḥ śāpa-śaṅkitāḥvāsāṁsi paryadhuḥ śīghraṁvivastrau naiva guhyakau
तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ । तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ॥ ७ ॥
tau dṛṣṭvā madirā-mattauśrī-madāndhau surātmajautayor anugrahārthāyaśāpaṁ dāsyann idaṁ jagau
श्रीनारद उवाच न ह्यन्यो जुषतो जोष्यान्बुद्धिभ्रंशो रजोगुण: । श्रीमदादाभिजात्यादिर्यत्र स्त्री द्यूतमासव: ॥ ८ ॥
śrī-nārada uvācana hy anyo juṣato joṣyānbuddhi-bhraṁśo rajo-guṇaḥśrī-madād ābhijātyādiryatra strī dyūtam āsavaḥ
हन्यन्ते पशवो यत्र निर्दयैरजितात्मभि: । मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ॥ ९ ॥
hanyante paśavo yatranirdayair ajitātmabhiḥmanyamānair imaṁ dehamajarāmṛtyu naśvaram
देवसंज्ञितमप्यन्ते कृमिविड्भस्मसंज्ञितम् । भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यत: ॥ १० ॥
deva-saṁjñitam apy antekṛmi-viḍ-bhasma-saṁjñitambhūta-dhruk tat-kṛte svārthaṁkiṁ veda nirayo yataḥ
देह: किमन्नदातु: स्वं निषेक्तुर्मातुरेव च । मातु: पितुर्वा बलिन: क्रेतुरग्ने: शुनोऽपि वा ॥ ११ ॥
dehaḥ kim anna-dātuḥ svaṁniṣektur mātur eva camātuḥ pitur vā balinaḥkretur agneḥ śuno ’pi vā
एवं साधारणं देहमव्यक्तप्रभवाप्ययम् । को विद्वानात्मसात्कृत्वा हन्ति जन्तूनृतेऽसत: ॥ १२ ॥
evaṁ sādhāraṇaṁ dehamavyakta-prabhavāpyayamko vidvān ātmasāt kṛtvāhanti jantūn ṛte ’sataḥ
असत: श्रीमदान्धस्य दारिद्रयं परमञ्जनम् । आत्मौपम्येन भूतानि दरिद्र: परमीक्षते ॥ १३ ॥
asataḥ śrī-madāndhasyadāridryaṁ param añjanamātmaupamyena bhūtānidaridraḥ param īkṣate
यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् । जीवसाम्यं गतो लिङ्गैर्न तथाविद्धकण्टक: ॥ १४ ॥
yathā kaṇṭaka-viddhāṅgojantor necchati tāṁ vyathāmjīva-sāmyaṁ gato liṅgairna tathāviddha-kaṇṭakaḥ
दरिद्रो निरहंस्तम्भो मुक्त: सर्वमदैरिह । कृच्छ्रं यदृच्छयाप्नोति तद्धि तस्य परं तप: ॥ १५ ॥
daridro nirahaṁ-stambhomuktaḥ sarva-madair ihakṛcchraṁ yadṛcchayāpnotitad dhi tasya paraṁ tapaḥ
नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिण: । इन्द्रियाण्यनुशुष्यन्ति हिंसापि विनिवर्तते ॥ १६ ॥
nityaṁ kṣut-kṣāma-dehasyadaridrasyānna-kāṅkṣiṇaḥindriyāṇy anuśuṣyantihiṁsāpi vinivartate
दरिद्रस्यैव युज्यन्ते साधव: समदर्शिन: । सद्भि: क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥ १७ ॥
daridrasyaiva yujyantesādhavaḥ sama-darśinaḥsadbhiḥ kṣiṇoti taṁ tarṣaṁtata ārād viśuddhyati
साधूनां समचित्तानां मुकुन्दचरणैषिणाम् । उपेक्ष्यै: किं धनस्तम्भैरसद्भिरसदाश्रयै: ॥ १८ ॥
sādhūnāṁ sama-cittānāṁmukunda-caraṇaiṣiṇāmupekṣyaiḥ kiṁ dhana-stambhairasadbhir asad-āśrayaiḥ
तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयो: । तमोमदं हरिष्यामि स्त्रैणयोरजितात्मनो: ॥ १९ ॥
tad ahaṁ mattayor mādhvyāvāruṇyā śrī-madāndhayoḥtamo-madaṁ hariṣyāmistraiṇayor ajitātmanoḥ
यदिमौ लोकपालस्य पुत्रौ भूत्वा तम:प्लुतौ । न विवाससमात्मानं विजानीत: सुदुर्मदौ ॥ २० ॥ अतोऽर्हत: स्थावरतां स्यातां नैवं यथा पुन: । स्मृति: स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥ वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते । वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यत: ॥ २२ ॥
yad imau loka-pālasyaputrau bhūtvā tamaḥ-plutauna vivāsasam ātmānaṁvijānītaḥ sudurmadau
श्रीशुक उवाच एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम् । नलकूवरमणिग्रीवावासतुर्यमलार्जुनौ ॥ २३ ॥
śrī-śuka uvācaevam uktvā sa devarṣirgato nārāyaṇāśramamnalakūvara-maṇigrīvāvāsatur yamalārjunau
ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरि: । जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २४ ॥
ṛṣer bhāgavata-mukhyasyasatyaṁ kartuṁ vaco hariḥjagāma śanakais tatrayatrāstāṁ yamalārjunau
देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ । तत्तथा साधयिष्यामि यद् गीतं तन्महात्मना ॥ २५ ॥
devarṣir me priyatamoyad imau dhanadātmajautat tathā sādhayiṣyāmiyad gītaṁ tan mahātmanā
इत्यन्तरेणार्जुनयो: कृष्णस्तु यमयोर्ययौ । आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् ॥ २६ ॥
ity antareṇārjunayoḥkṛṣṇas tu yamayor yayauātma-nirveśa-mātreṇatiryag-gatam ulūkhalam
बालेन निष्कर्षयतान्वगुलूखलं तद्दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ । निष्पेततु: परमविक्रमितातिवेप-स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७ ॥
bālena niṣkarṣayatānvag ulūkhalaṁ taddāmodareṇa tarasotkalitāṅghri-bandhauniṣpetatuḥ parama-vikramitātivepa-skandha-pravāla-viṭapau kṛta-caṇḍa-śabdau
तत्र श्रिया परमया ककुभ: स्फुरन्तौसिद्धावुपेत्य कुजयोरिव जातवेदा: । कृष्णं प्रणम्यशिरसाखिललोकनाथंबद्धाञ्जली विरजसाविदमूचतु: स्म ॥ २८ ॥
tatra śriyā paramayā kakubhaḥ sphurantausiddhāv upetya kujayor iva jāta-vedāḥkṛṣṇaṁ praṇamya śirasākhila-loka-nāthaṁbaddhāñjalī virajasāv idam ūcatuḥ sma
कृष्ण कृष्ण महायोगिंस्त्वमाद्य: पुरुष: पर: । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणाविदु: ॥ २९ ॥
kṛṣṇa kṛṣṇa mahā-yogiṁstvam ādyaḥ puruṣaḥ paraḥvyaktāvyaktam idaṁ viśvaṁrūpaṁ te brāhmaṇā viduḥ
त्वमेक: सर्वभूतानां देहास्वात्मेन्द्रियेश्वर: । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वर: ॥ ३० ॥ त्वं महान् प्रकृति: सूक्ष्मा रज:सत्त्वतमोमयी । त्वमेव पुरुषोऽध्यक्ष: सर्वक्षेत्रविकारवित् ॥ ३१ ॥
tvam ekaḥ sarva-bhūtānāṁdehāsv-ātmendriyeśvaraḥtvam eva kālo bhagavānviṣṇur avyaya īśvaraḥ
गृह्यमाणैस्त्वमग्राह्यो विकारै: प्राकृतैर्गुणै: । को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृत: ॥ ३२ ॥
gṛhyamāṇais tvam agrāhyovikāraiḥ prākṛtair guṇaiḥko nv ihārhati vijñātuṁprāk siddhaṁ guṇa-saṁvṛtaḥ
तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्मद्योतगुणैश्छन्नमहिम्ने ब्रह्मणे नम: ॥ ३३ ॥
tasmai tubhyaṁ bhagavatevāsudevāya vedhaseātma-dyota-guṇaiś channa-mahimne brahmaṇe namaḥ
यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिण: । तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतै: ॥ ३४ ॥ स भवान्सर्वलोकस्य भवाय विभवाय च । अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५ ॥
yasyāvatārā jñāyanteśarīreṣv aśarīriṇaḥtais tair atulyātiśayairvīryair dehiṣv asaṅgataiḥ
नम: परमकल्याण नम: परममङ्गल । वासुदेवाय शान्ताय यदूनां पतये नम: ॥ ३६ ॥
namaḥ parama-kalyāṇanamaḥ parama-maṅgalavāsudevāya śāntāyayadūnāṁ pataye namaḥ
अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ । दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७ ॥
anujānīhi nau bhūmaṁstavānucara-kiṅkaraudarśanaṁ nau bhagavataṛṣer āsīd anugrahāt
वाणी गुणानुकथने श्रवणौ कथायांहस्तौ च कर्मसु मनस्तव पादयोर्न: । स्मृत्यां शिरस्तव निवासजगत्प्रणामेदृष्टि: सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८ ॥
vāṇī guṇānukathane śravaṇau kathāyāṁhastau ca karmasu manas tava pādayor naḥsmṛtyāṁ śiras tava nivāsa-jagat-praṇāmedṛṣṭiḥ satāṁ darśane ’stu bhavat-tanūnām
श्रीशुक उवाच इत्थं सङ्कीर्तितस्ताभ्यां भगवान्गोकुलेश्वर: । दाम्ना चोलूखले बद्ध: प्रहसन्नाह गुह्यकौ ॥ ३९ ॥
śrī-śuka uvācaitthaṁ saṅkīrtitas tābhyāṁbhagavān gokuleśvaraḥdāmnā colūkhale baddhaḥprahasann āha guhyakau
श्रीभगवानुवाचज्ञातं मम पुरैवैतदृषिणा करुणात्मना । यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रह: कृत: ॥ ४० ॥
śrī-bhagavān uvācajñātaṁ mama puraivaitadṛṣiṇā karuṇātmanāyac chrī-madāndhayor vāgbhirvibhraṁśo ’nugrahaḥ kṛtaḥ
साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् । दर्शनान्नो भवेद् बन्ध: पुंसोऽक्ष्णो: सवितुर्यथा ॥ ४१ ॥
sādhūnāṁ sama-cittānāṁsutarāṁ mat-kṛtātmanāmdarśanān no bhaved bandhaḥpuṁso ’kṣṇoḥ savitur yathā
तद्गच्छतं मत्परमौ नलकूवर सादनम् । सञ्जातो मयि भावो वामीप्सित: परमोऽभव: ॥ ४२ ॥
tad gacchataṁ mat-paramaunalakūvara sādanamsañjāto mayi bhāvo vāmīpsitaḥ paramo ’bhavaḥ
श्रीशुक उवाच इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुन: पुन: । बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३ ॥
śrī-śuka uvācaity uktau tau parikramyapraṇamya ca punaḥ punaḥbaddholūkhalam āmantryajagmatur diśam uttarām