← Canto 10

Canto 10, Chapter 3

Shloka 1-5

श्रीशुक उवाच अथ सर्वगुणोपेत: काल: परमशोभन: । यर्ह्येवाजनजन्मक्षन शान्तर्क्षग्रहतारकम् ॥ १ ॥ दिश: प्रसेदुर्गगनं निर्मलोडुगणोदयम् । मही मङ्गलभूयिष्ठपुरग्रामव्रजाकरा ॥ २ ॥ नद्य: प्रसन्नसलिला ह्रदा जलरुहश्रिय: । द्विजालिकुलसन्नादस्तवका वनराजय: ॥ ३ ॥ ववौ वायु: सुखस्पर्श: पुण्यगन्धवह: शुचि: । अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४ ॥ मनांस्यासन् प्रसन्नानि साधूनामसुरद्रुहाम् । जायमानेऽजने तस्मिन् नेदुर्दुन्दुभय: समम् ॥ ५ ॥

śrī-śuka uvācaatha sarva-guṇopetaḥkālaḥ parama-śobhanaḥyarhy evājana-janmarkṣaṁśāntarkṣa-graha-tārakam

Shloka 6

जगु: किन्नरगन्धर्वास्तुष्टुवु: सिद्धचारणा: । विद्याधर्यश्च ननृतुरप्सरोभि: समं मुदा ॥ ६ ॥

jaguḥ kinnara-gandharvāstuṣṭuvuḥ siddha-cāraṇāḥvidyādharyaś ca nanṛturapsarobhiḥ samaṁ mudā

Shloka 7-8

मुमुचुर्मुनयो देवा: सुमनांसि मुदान्विता: । मन्दं मन्दं जलधरा जगर्जुरनुसागरम् ॥ ७ ॥ निशीथे तमउद्भ‍ूते जायमाने जनार्दने । देवक्यां देवरूपिण्यां विष्णु: सर्वगुहाशय: । आविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कल: ॥ ८ ॥

mumucur munayo devāḥsumanāṁsi mudānvitāḥmandaṁ mandaṁ jaladharājagarjur anusāgaram

Shloka 9-10

तमद्भ‍ुतं बालकमम्बुजेक्षणंचतुर्भुजं शङ्खगदाद्युदायुधम् । श्रीवत्सलक्ष्मं गलशोभिकौस्तुभंपीताम्बरं सान्द्रपयोदसौभगम् ॥ ९ ॥ महार्हवैदूर्यकिरीटकुण्डल-त्विषा परिष्वक्तसहस्रकुन्तलम् । उद्दामकाञ्‍च्यङ्गदकङ्कणादिभि-र्विरोचमानं वसुदेव ऐक्षत ॥ १० ॥

tam adbhutaṁ bālakam ambujekṣaṇaṁcatur-bhujaṁ śaṅkha-gadādy-udāyudhamśrīvatsa-lakṣmaṁ gala-śobhi-kaustubhaṁpītāmbaraṁ sāndra-payoda-saubhagam

Shloka 11

स विस्मयोत्फुल्लविलोचनो हरिंसुतं विलोक्यानकदुन्दुभिस्तदा । कृष्णावतारोत्सवसम्भ्रमोऽस्पृशन्मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ ११ ॥

sa vismayotphulla-vilocano hariṁsutaṁ vilokyānakadundubhis tadākṛṣṇāvatārotsava-sambhramo ’spṛśanmudā dvijebhyo ’yutam āpluto gavām

Shloka 12

अथैनमस्तौदवधार्य पूरुषंपरं नताङ्ग: कृतधी: कृताञ्जलि: । स्वरोचिषा भारत सूतिकागृहंविरोचयन्तं गतभी: प्रभाववित् ॥ १२ ॥

athainam astaud avadhārya pūruṣaṁparaṁ natāṅgaḥ kṛta-dhīḥ kṛtāñjaliḥsva-rociṣā bhārata sūtikā-gṛhaṁvirocayantaṁ gata-bhīḥ prabhāva-vit

Shloka 13

श्रीवसुदेव उवाच विदितोऽसि भवान् साक्षात्पुरुष: प्रकृते: पर: । केवलानुभवानन्दस्वरूप: सर्वबुद्धिद‍ृक् ॥ १३ ॥

śrī-vasudeva uvācavidito ’si bhavān sākṣātpuruṣaḥ prakṛteḥ paraḥkevalānubhavānanda-svarūpaḥ sarva-buddhi-dṛk

Shloka 14

स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् । तदनु त्वं ह्यप्रविष्ट: प्रविष्ट इव भाव्यसे ॥ १४ ॥

sa eva svaprakṛtyedaṁsṛṣṭvāgre tri-guṇātmakamtad anu tvaṁ hy apraviṣṭaḥpraviṣṭa iva bhāvyase

Shloka 15-17

यथेमेऽविकृता भावास्तथा ते विकृतै: सह । नानावीर्या: पृथग्भूता विराजं जनयन्ति हि ॥ १५ ॥ सन्निपत्य समुत्पाद्य द‍ृश्यन्तेऽनुगता इव । प्रागेव विद्यमानत्वान्न तेषामिह सम्भव: ॥ १६ ॥ एवं भवान् बुद्ध्यनुमेयलक्षणै-र्ग्राह्यैर्गुणै: सन्नपि तद्गुणाग्रह: । अनावृतत्वाद् बहिरन्तरं न तेसर्वस्य सर्वात्मन आत्मवस्तुन: ॥ १७ ॥

yatheme ’vikṛtā bhāvāstathā te vikṛtaiḥ sahanānā-vīryāḥ pṛthag-bhūtāvirājaṁ janayanti hi

Shloka 18

य आत्मनो द‍ृश्यगुणेषु सन्नितिव्यवस्यते स्वव्यतिरेकतोऽबुध: । विनानुवादं न च तन्मनीषितंसम्यग् यतस्त्यक्तमुपाददत् पुमान् ॥ १८ ॥

ya ātmano dṛśya-guṇeṣu sann itivyavasyate sva-vyatirekato ’budhaḥvinānuvādaṁ na ca tan manīṣitaṁsamyag yatas tyaktam upādadat pumān

Shloka 19

त्वत्तोऽस्य जन्मस्थितिसंयमान् विभोवदन्त्यनीहादगुणादविक्रियात् । त्वयीश्वरे ब्रह्मणि नो विरुध्यतेत्वदाश्रयत्वादुपचर्यते गुणै: ॥ १९ ॥

tvatto ’sya janma-sthiti-saṁyamān vibhovadanty anīhād aguṇād avikriyāttvayīśvare brahmaṇi no virudhyatetvad-āśrayatvād upacaryate guṇaiḥ

Shloka 20

स त्वं त्रिलोकस्थितये स्वमाययाबिभर्षि शुक्लं खलु वर्णमात्मन: । सर्गाय रक्तं रजसोपबृंहितंकृष्णं च वणन तमसा जनात्यये ॥ २० ॥

sa tvaṁ tri-loka-sthitaye sva-māyayābibharṣi śuklaṁ khalu varṇam ātmanaḥsargāya raktaṁ rajasopabṛṁhitaṁkṛṣṇaṁ ca varṇaṁ tamasā janātyaye

Shloka 21

त्वमस्य लोकस्य विभो रिरक्षिषु-र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर । राजन्यसंज्ञासुरकोटियूथपै-र्निर्व्यूह्यमाना निहनिष्यसे चमू: ॥ २१ ॥

tvam asya lokasya vibho rirakṣiṣurgṛhe ’vatīrṇo ’si mamākhileśvararājanya-saṁjñāsura-koṭi-yūthapairnirvyūhyamānā nihaniṣyase camūḥ

Shloka 22

अयं त्वसभ्यस्तव जन्म नौ गृहेश्रुत्वाग्रजांस्ते न्यवधीत् सुरेश्वर । स तेऽवतारं पुरुषै: समर्पितंश्रुत्वाधुनैवाभिसरत्युदायुध: ॥ २२ ॥

ayaṁ tv asabhyas tava janma nau gṛheśrutvāgrajāṁs te nyavadhīt sureśvarasa te ’vatāraṁ puruṣaiḥ samarpitaṁśrutvādhunaivābhisaraty udāyudhaḥ

Shloka 23

श्रीशुक उवाच अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम् । देवकी तमुपाधावत् कंसाद् भीता सुविस्मिता ॥ २३ ॥

śrī-śuka uvācaathainam ātmajaṁ vīkṣyamahā-puruṣa-lakṣaṇamdevakī tam upādhāvatkaṁsād bhītā suvismitā

Shloka 24

श्रीदेवक्युवाचरूपं यत् तत् प्राहुरव्यक्तमाद्यंब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहंस त्वं साक्षाद् विष्णुरध्यात्मदीप: ॥ २४ ॥

śrī-devaky uvācarūpaṁ yat tat prāhur avyaktam ādyaṁbrahma jyotir nirguṇaṁ nirvikāramsattā-mātraṁ nirviśeṣaṁ nirīhaṁsa tvaṁ sākṣād viṣṇur adhyātma-dīpaḥ

Shloka 25

नष्टे लोके द्विपरार्धावसानेमहाभूतेष्वादिभूतं गतेषु । व्यक्तेऽव्यक्तं कालवेगेन यातेभवानेक: शिष्यतेऽशेषसंज्ञ: ॥ २५ ॥

naṣṭe loke dvi-parārdhāvasānemahā-bhūteṣv ādi-bhūtaṁ gateṣuvyakte ’vyaktaṁ kāla-vegena yātebhavān ekaḥ śiṣyate ’śeṣa-saṁjñaḥ

Shloka 26

योऽयं कालस्तस्य तेऽव्यक्तबन्धोचेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिर्वत्सरान्तो महीयां-स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६ ॥

yo ’yaṁ kālas tasya te ’vyakta-bandhoceṣṭām āhuś ceṣṭate yena viśvamnimeṣādir vatsarānto mahīyāṁstaṁ tveśānaṁ kṣema-dhāma prapadye

Shloka 27

मर्त्यो मृत्युव्यालभीत: पलायन्‌लोकान् सर्वान्निर्भयं नाध्यगच्छत् । त्वत्पादाब्जं प्राप्य यद‍ृच्छयाद्यसुस्थ: शेते मृत्युरस्मादपैति ॥ २७ ॥

martyo mṛtyu-vyāla-bhītaḥ palāyanlokān sarvān nirbhayaṁ nādhyagacchattvat pādābjaṁ prāpya yadṛcchayādyasusthaḥ śete mṛtyur asmād apaiti

Shloka 28

स त्वं घोरादुग्रसेनात्मजान्न-स्त्राहि त्रस्तान् भृत्यवित्रासहासि । रूपं चेदं पौरुषं ध्यानधिष्ण्यंमा प्रत्यक्षं मांसद‍ृशां कृषीष्ठा: ॥ २८ ॥

sa tvaṁ ghorād ugrasenātmajān nastrāhi trastān bhṛtya-vitrāsa-hāsirūpaṁ cedaṁ pauruṣaṁ dhyāna-dhiṣṇyaṁmā pratyakṣaṁ māṁsa-dṛśāṁ kṛṣīṣṭhāḥ

Shloka 29

जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन । समुद्विजे भवद्धेतो: कंसादहमधीरधी: ॥ २९ ॥

janma te mayy asau pāpomā vidyān madhusūdanasamudvije bhavad-dhetoḥkaṁsād aham adhīra-dhīḥ

Shloka 30

उपसंहर विश्वात्मन्नदो रूपमलौकिकम् । शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३० ॥

upasaṁhara viśvātmannado rūpam alaukikamśaṅkha-cakra-gadā-padma-śriyā juṣṭaṁ catur-bhujam

Shloka 31

विश्वं यदेतत् स्वतनौ निशान्तेयथावकाशं पुरुष: परो भवान् । बिभर्ति सोऽयं मम गर्भगोऽभू-दहो नृलोकस्य विडम्बनं हि तत् ॥ ३१ ॥

viśvaṁ yad etat sva-tanau niśānteyathāvakāśaṁ puruṣaḥ paro bhavānbibharti so ’yaṁ mama garbhago ’bhūdaho nṛ-lokasya viḍambanaṁ hi tat

Shloka 32

श्रीभगवानुवाचत्वमेव पूर्वसर्गेऽभू: पृश्न‍ि: स्वायम्भुवे सति । तदायं सुतपा नाम प्रजापतिरकल्मष: ॥ ३२ ॥

śrī-bhagavān uvācatvam eva pūrva-sarge ’bhūḥpṛśniḥ svāyambhuve satitadāyaṁ sutapā nāmaprajāpatir akalmaṣaḥ

Shloka 33

युवां वै ब्रह्मणादिष्टौ प्रजासर्गे यदा तत:। सन्नियम्येन्द्रियग्रामं तेपाथे परमं तप: ॥ ३३ ॥

yuvāṁ vai brahmaṇādiṣṭauprajā-sarge yadā tataḥsanniyamyendriya-grāmaṁtepāthe paramaṁ tapaḥ

Shloka 34-35

वर्षवातातपहिमघर्मकालगुणाननु । सहमानौ श्वासरोधविनिर्धूतमनोमलौ ॥ ३४ ॥ शीर्णपर्णानिलाहारावुपशान्तेन चेतसा । मत्त: कामानभीप्सन्तौ मदाराधनमीहतु: ॥ ३५ ॥

varṣa-vātātapa-hima-gharma-kāla-guṇān anusahamānau śvāsa-rodha-vinirdhūta-mano-malau

Shloka 36

एवं वां तप्यतोस्तीव्रं तप: परमदुष्करम् । दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनो: ॥ ३६ ॥

evaṁ vāṁ tapyatos tīvraṁtapaḥ parama-duṣkaramdivya-varṣa-sahasrāṇidvādaśeyur mad-ātmanoḥ

Shloka 37-38

तदा वां परितुष्टोऽहममुना वपुषानघे । तपसा श्रद्धया नित्यं भक्त्या च हृदि भावित: ॥ ३७ ॥ प्रादुरासं वरदराड् युवयो: कामदित्सया । व्रियतां वर इत्युक्ते माद‍ृशो वां वृत: सुत: ॥ ३८ ॥

tadā vāṁ parituṣṭo ’hamamunā vapuṣānaghetapasā śraddhayā nityaṁbhaktyā ca hṛdi bhāvitaḥ

Shloka 39

अजुष्टग्राम्यविषयावनपत्यौ च दम्पती । न वव्राथेऽपवगन मे मोहितौ देवमायया ॥ ३९ ॥

ajuṣṭa-grāmya-viṣayāvanapatyau ca dam-patīna vavrāthe ’pavargaṁ memohitau deva-māyayā

Shloka 40

गते मयि युवां लब्ध्वा वरं मत्सद‍ृशं सुतम् । ग्राम्यान् भोगानभुञ्जाथां युवां प्राप्तमनोरथौ ॥ ४० ॥

gate mayi yuvāṁ labdhvāvaraṁ mat-sadṛśaṁ sutamgrāmyān bhogān abhuñjāthāṁyuvāṁ prāpta-manorathau

Shloka 41

अद‍ृष्ट्वान्यतमं लोके शीलौदार्यगुणै: समम् । अहं सुतो वामभवं पृश्न‍िगर्भ इति श्रुत: ॥ ४१ ॥

adṛṣṭvānyatamaṁ lokeśīlaudārya-guṇaiḥ samamahaṁ suto vām abhavaṁpṛśnigarbha iti śrutaḥ

Shloka 42

तयोवान पुनरेवाहमदित्यामास कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच्च वामन: ॥ ४२ ॥

tayor vāṁ punar evāhamadityām āsa kaśyapātupendra iti vikhyātovāmanatvāc ca vāmanaḥ

Shloka 43

तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् । जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥ ४३ ॥

tṛtīye ’smin bhave ’haṁ vaitenaiva vapuṣātha vāmjāto bhūyas tayor evasatyaṁ me vyāhṛtaṁ sati

Shloka 44

एतद् वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे । नान्यथा मद्भ‍वं ज्ञानं मर्त्यलिङ्गेन जायते ॥ ४४ ॥

etad vāṁ darśitaṁ rūpaṁprāg-janma-smaraṇāya menānyathā mad-bhavaṁ jñānaṁmartya-liṅgena jāyate

Shloka 45

युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् । चिन्तयन्तौ कृतस्‍नेहौ यास्येथे मद्गतिं पराम् ॥ ४५ ॥

yuvāṁ māṁ putra-bhāvenabrahma-bhāvena cāsakṛtcintayantau kṛta-snehauyāsyethe mad-gatiṁ parām

Shloka 46

श्रीशुक उवाच इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया । पित्रो: सम्पश्यतो: सद्यो बभूव प्राकृत: शिशु: ॥ ४६ ॥

śrī-śuka uvācaity uktvāsīd dharis tūṣṇīṁbhagavān ātma-māyayāpitroḥ sampaśyatoḥ sadyobabhūva prākṛtaḥ śiśuḥ

Shloka 47

ततश्च शौरिर्भगवत्प्रचोदित:सुतं समादाय स सूतिकागृहात् । यदा बहिर्गन्तुमियेष तर्ह्यजाया योगमायाजनि नन्दजायया ॥ ४७ ॥

tataś ca śaurir bhagavat-pracoditaḥsutaṁ samādāya sa sūtikā-gṛhātyadā bahir gantum iyeṣa tarhy ajāyā yoga-māyājani nanda-jāyayā

Shloka 48-49

तया हृतप्रत्ययसर्ववृत्तिषुद्वा:स्थेषु पौरेष्वपि शायितेष्वथ । द्वारश्च सर्वा: पिहिता दुरत्ययाबृहत्कपाटायसकीलश‍ृङ्खलै: ॥ ४८ ॥ ता: कृष्णवाहे वसुदेव आगतेस्वयं व्यवर्यन्त यथा तमो रवे: । ववर्ष पर्जन्य उपांशुगर्जित:शेषोऽन्वगाद् वारि निवारयन्‌ फणै: ॥ ४९ ॥

tayā hṛta-pratyaya-sarva-vṛttiṣudvāḥ-stheṣu paureṣv api śāyiteṣv athadvāraś ca sarvāḥ pihitā duratyayābṛhat-kapāṭāyasa-kīla-śṛṅkhalaiḥ

Shloka 50

मघोनि वर्षत्यसकृद् यमानुजागम्भीरतोयौघजवोर्मिफेनिला । भयानकावर्तशताकुला नदीमागन ददौ सिन्धुरिव श्रिय: पते: ॥ ५० ॥

maghoni varṣaty asakṛd yamānujāgambhīra-toyaugha-javormi-phenilābhayānakāvarta-śatākulā nadīmārgaṁ dadau sindhur iva śriyaḥ pateḥ

Shloka 51

नन्दव्रजं शौरिरुपेत्य तत्र तान्गोपान् प्रसुप्तानुपलभ्य निद्रया । सुतं यशोदाशयने निधाय त-त्सुतामुपादाय पुनर्गृहानगात् ॥ ५१ ॥

nanda-vrajaṁ śaurir upetya tatra tāngopān prasuptān upalabhya nidrayāsutaṁ yaśodā-śayane nidhāya tat-sutām upādāya punar gṛhān agāt

Shloka 52

देवक्या: शयने न्यस्य वसुदेवोऽथ दारिकाम् । प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृत: ॥ ५२ ॥

devakyāḥ śayane nyasyavasudevo ’tha dārikāmpratimucya pador lohamāste pūrvavad āvṛtaḥ

Shloka 53

यशोदा नन्दपत्नी च जातं परमबुध्यत । न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृति: ॥ ५३ ॥

yaśodā nanda-patnī cajātaṁ param abudhyatana tal-liṅgaṁ pariśrāntānidrayāpagata-smṛtiḥ

← PrevNext →