Canto 10, Chapter 35
श्रीशुक उवाच गोप्य: कृष्णे वनं याते तमनुद्रुतचेतस: । कृष्णलीला: प्रगायन्त्यो निन्युर्दु:खेन वासरान् ॥ १ ॥
śrī-śuka uvācagopyaḥ kṛṣṇe vanaṁ yātetam anudruta-cetasaḥkṛṣṇa-līlāḥ pragāyantyoninyur duḥkhena vāsarān
श्रीगोप्य ऊचु: वामबाहुकृतवामकपोलोवल्गितभ्रुरधरार्पितवेणुम् । कोमलाङ्गुलिभिराश्रितमार्गंगोप्य ईरयति यत्र मुकुन्द: ॥ २ ॥ व्योमयानवनिता: सह सिद्धै-र्विस्मितास्तदुपधार्य सलज्जा: । काममार्गणसमर्पितचित्ता:कश्मलं ययुरपस्मृतनीव्य: ॥ ३ ॥
śrī-gopya ūcuḥvāma-bāhu-kṛta-vāma-kapolovalgita-bhrur adharārpita-veṇumkomalāṅgulibhir āśrita-mārgaṁgopya īrayati yatra mukundaḥ
हन्त चित्रमबला: शृणुतेदंहारहास उरसि स्थिरविद्युत् । नन्दसूनुरयमार्तजनानांनर्मदो यर्हि कूजितवेणु: ॥ ४ ॥ वृन्दशो व्रजवृषा मृगगावोवेणुवाद्यहृतचेतस आरात् । दन्तदष्टकवला धृतकर्णानिद्रिता लिखितचित्रमिवासन् ॥ ५ ॥
hanta citram abalāḥ śṛṇutedaṁhāra-hāsa urasi sthira-vidyutnanda-sūnur ayam ārta-janānāṁnarma-do yarhi kūjita-veṇuḥ
बर्हिणस्तबकधातुपलाशै-र्बद्धमल्लपरिबर्हविडम्ब: । कर्हिचित् सबल आलि स गोपै-र्गा: समाह्वयति यत्र मुकुन्द: ॥ ६ ॥ तर्हि भग्नगतय: सरितो वैतत्पदाम्बुजरजोऽनिलनीतम् । स्पृहयतीर्वयमिवाबहुपुण्या:प्रेमवेपितभुजा: स्तिमिताप: ॥ ७ ॥
barhiṇa-stabaka-dhātu-palāśairbaddha-malla-paribarha-viḍambaḥkarhicit sa-bala āli sa gopairgāḥ samāhvayati yatra mukundaḥ
अनुचरै: समनुवर्णितवीर्यआदिपूरुष इवाचलभूति: । वनचरो गिरितटेषु चरन्ती-र्वेणुनाह्वयति गा: स यदा हि ॥ ८ ॥ वनलतास्तरव आत्मनि विष्णुंव्यञ्जयन्त्य इव पुष्पफलाढ्या: । प्रणतभारविटपा मधुधारा:प्रेमहृष्टतनवो ववृषु: स्म ॥ ९ ॥ दर्शनीयतिलको वनमाला-दिव्यगन्धतुलसीमधुमत्तै: । अलिकुलैरलघुगीतामभीष्ट-माद्रियन् यर्हि सन्धितवेणु: ॥ १० ॥ सरसि सारसहंसविहङ्गा-श्चारुगीताहृतचेतस एत्य । हरिमुपासत ते यतचित्ताहन्त मीलितदृशो धृतमौना: ॥ ११ ॥
anucaraiḥ samanuvarṇita-vīryaādi-pūruṣa ivācala-bhūtiḥvana-caro giri-taṭeṣu carantīrveṇunāhvayati gāḥ sa yadā hi
सहबल: स्रगवतंसविलास:सानुषु क्षितिभृतो व्रजदेव्य: । हर्षयन् यर्हि वेणुरवेणजातहर्ष उपरम्भति विश्वम् ॥ १२ ॥ महदतिक्रमणशङ्कितचेतामन्दमन्दमनुगर्जति मेघ: । सुहृदमभ्यवर्षत् सुमनोभि-श्छायया च विदधत् प्रतपत्रम् ॥ १३ ॥
saha-balaḥ srag-avataṁsa-vilāsaḥsānuṣu kṣiti-bhṛto vraja-devyaḥharṣayan yarhi veṇu-raveṇajāta-harṣa uparambhati viśvam
विविधगोपचरणेषु विदग्धोवेणुवाद्य उरुधा निजशिक्षा: । तव सुत: सति यदाधरबिम्बेदत्तवेणुरनयत् स्वरजाती: ॥ १४ ॥ सवनशस्तदुपधार्य सुरेशा:शक्रशर्वपरमेष्ठिपुरोगा: । कवय आनतकन्धरचित्ता:कश्मलं ययुरनिश्चिततत्त्वा: ॥ १५ ॥
vividha-gopa-caraṇeṣu vidagdhoveṇu-vādya urudhā nija-śikṣāḥtava sutaḥ sati yadādhara-bimbedatta-veṇur anayat svara-jātīḥ
निजपदाब्जदलैर्ध्वजवज्र-नीरजाङ्कुशविचित्रललामै: । व्रजभुव: शमयन् खुरतोदंवर्ष्मधुर्यगतिरीडितवेणु: ॥ १६ ॥ व्रजति तेन वयं सविलास-वीक्षणार्पितमनोभववेगा: । कुजगतिं गमिता न विदाम:कश्मलेन कवरं वसनं वा ॥ १७ ॥
nija-padābja-dalair dhvaja-vajranīrajāṅkuśa-vicitra-lalāmaiḥvraja-bhuvaḥ śamayan khura-todaṁvarṣma-dhurya-gatir īḍita-veṇuḥ
मणिधर: क्वचिदागणयन् गामालया दयितगन्धतुलस्या: । प्रणयिनोऽनुचरस्य कदांसेप्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥ क्वणितवेणुरववञ्चितचित्ता:कृष्णमन्वसत कृष्णगृहिण्य: । गुणगणार्णमनुगत्य हरिण्योगोपिका इव विमुक्तगृहाशा: ॥ १९ ॥
maṇi-dharaḥ kvacid āgaṇayan gāmālayā dayita-gandha-tulasyāḥpraṇayino ’nucarasya kadāṁseprakṣipan bhujam agāyata yatra
कुन्ददामकृतकौतुकवेषोगोपगोधनवृतो यमुनायाम् । नन्दसूनुरनघे तव वत्सोनर्मद: प्रणयिणां विजहार ॥ २० ॥ मन्दवायुरुपवात्यनुकूलंमानयन् मलयजस्पर्शेन । वन्दिनस्तमुपदेवगणा येवाद्यगीतबलिभि: परिवव्रु: ॥ २१ ॥
kunda-dāma-kṛta-kautuka-veṣogopa-godhana-vṛto yamunāyāmnanda-sūnur anaghe tava vatsonarma-daḥ praṇayiṇāṁ vijahāra
वत्सलो व्रजगवां यदगध्रोवन्द्यमानचरण: पथि वृद्धै: । कृत्स्नगोधनमुपोह्य दिनान्तेगीतवेणुरनुगेडितकीर्ति: ॥ २२ ॥ उत्सवं श्रमरुचापि दृशीना-मुन्नयन् खुररजश्छुरितस्रक् । दित्सयैति सुहृदासिष एषदेवकीजठरभूरुडुराज: ॥ २३ ॥
vatsalo vraja-gavāṁ yad aga-dhrovandyamāna-caraṇaḥ pathi vṛddhaiḥkṛtsna-go-dhanam upohya dināntegīta-veṇur anugeḍita-kīrtiḥ
मदविघूर्णितलोचन ईषत्-मानद: स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डंमण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥ यदुपतिर्द्विरदराजविहारोयामिनीपतिरिवैष दिनान्ते । मुदितवक्त्र उपयाति दुरन्तंमोचयन् व्रजगवां दिनतापम् ॥ २५ ॥
mada-vighūrṇita-locana īṣatmāna-daḥ sva-suhṛdāṁ vana-mālībadara-pāṇḍu-vadano mṛdu-gaṇḍaṁmaṇḍayan kanaka-kuṇḍala-lakṣmyā
श्रीशुक उवाच एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायती: । रेमिरेऽह:सु तच्चित्तास्तन्मनस्का महोदया: ॥ २६ ॥
śrī-śuka uvācaevaṁ vraja-striyo rājankṛṣṇa-līlānugāyatīḥremire ’haḥsu tac-cittāstan-manaskā mahodayāḥ