← Canto 10

Canto 10, Chapter 37

Shloka 1-2

श्रीशुक उवाच केशी तु कंसप्रहित: खुरैर्महींमहाहयो निर्जरयन् मनोजव: । सटावधूताभ्रविमानसङ्कुलंकुर्वन् नभो हेषितभीषिताखिल: ॥ १ ॥ तं त्रासयन्तं भगवान् स्वगोकुलंतद्धेषितैर्वालविघूर्णिताम्बुदम् । आत्मानमाजौ मृगयन्तमग्रणी-रुपाह्वयत् स व्यनदन्मृगेन्द्रवत् ॥ २ ॥

śrī-śuka uvācakeśī tu kaṁsa-prahitaḥ khurair mahīṁmahā-hayo nirjarayan mano-javaḥsaṭāvadhūtābhra-vimāna-saṅkulaṁkurvan nabho heṣita-bhīṣitākhilaḥ

Shloka 3

स तं निशाम्याभिमुखो मुखेन खंपिबन्निवाभ्यद्रवदत्यमर्षण: । जघान पद्‌भ्यामरविन्दलोचनंदुरासदश्चण्डजवो दुरत्यय: ॥ ३ ॥

sa taṁ niśāmyābhimukho makhena khaṁpibann ivābhyadravad aty-amarṣaṇaḥjaghāna padbhyām aravinda-locanaṁdurāsadaś caṇḍa-javo duratyayaḥ

Shloka 4

तद् वञ्चयित्वा तमधोक्षजो रुषाप्रगृह्य दोर्भ्यां परिविध्य पादयो: । सावज्ञमुत्सृज्य धनु:शतान्तरेयथोरगं तार्क्ष्यसुतो व्यवस्थित: ॥ ४ ॥

tad vañcayitvā tam adhokṣajo ruṣāpragṛhya dorbhyāṁ parividhya pādayoḥsāvajñam utsṛjya dhanuḥ-śatāntareyathoragaṁ tārkṣya-suto vyavasthitaḥ

Shloka 5

स: लब्धसंज्ञ: पुनरुत्थितो रुषाव्यादाय केशी तरसापतद्धरिम् । सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन्प्रवेशयामास यथोरगं बिले ॥ ५ ॥

saḥ labdha-saṁjñaḥ punar utthito ruṣāvyādāya keśī tarasāpatad dharimso ’py asya vaktre bhujam uttaraṁ smayanpraveśayām āsa yathoragaṁ bile

Shloka 6

दन्ता निपेतुर्भगवद्भ‍ुजस्पृश-स्ते केशिनस्तप्तमयस्पृशो यथा । बाहुश्च तद्देहगतो महात्मनोयथामय: संववृधे उपेक्षित: ॥ ६ ॥

dantā nipetur bhagavad-bhuja-spṛśaste keśinas tapta-maya-spṛśo yathābāhuś ca tad-deha-gato mahātmanoyathāmayaḥ saṁvavṛdhe upekṣitaḥ

Shloka 7

समेधमानेन स कृष्णबाहुनानिरुद्धवायुश्चरणांश्च विक्षिपन् । प्रस्विन्नगात्र: परिवृत्तलोचन:पपात लण्डं विसृजन् क्षितौ व्यसु: ॥ ७ ॥

samedhamānena sa kṛṣṇa-bāhunāniruddha-vāyuś caraṇāṁś ca vikṣipanprasvinna-gātraḥ parivṛtta-locanaḥpapāta laṇḍaṁ visṛjan kṣitau vyasuḥ

Shloka 8

तद्देहत: कर्कटिकाफलोपमाद्व्यसोरपाकृष्य भुजं महाभुज: । अविस्मितोऽयत्नहतारिक: सुरै:प्रसूनवर्षैर्वर्षद्‌भिरीडित: ॥ ८ ॥

tad-dehataḥ karkaṭikā-phalopamādvyasor apākṛṣya bhujaṁ mahā-bhujaḥavismito ’yatna-hatārikaḥ suraiḥprasūna-varṣair varṣadbhir īḍitaḥ

Shloka 9

देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप । कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ॥ ९ ॥

devarṣir upasaṅgamyabhāgavata-pravaro nṛpakṛṣṇam akliṣṭa-karmāṇaṁrahasy etad abhāṣata

Shloka 10-11

कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर । वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ १० ॥ त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् । गूढो गुहाशय: साक्षी महापुरुष ईश्वर: ॥ ११ ॥

kṛṣṇa kṛṣṇāprameyātmanyogeśa jagad-īśvaravāsudevākhilāvāsasātvatāṁ pravara prabho

Shloka 12

आत्मनात्माश्रय: पूर्वं मायया ससृजे गुणान् । तैरिदं सत्यसङ्कल्प: सृजस्यत्स्यवसीश्वर: ॥ १२ ॥

ātmanātmāśrayaḥ pūrvaṁmāyayā sasṛje guṇāntair idaṁ satya-saṅkalpaḥsṛjasy atsy avasīśvaraḥ

Shloka 13

स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् । अवतीर्णो विनाशाय साधुनां रक्षणाय च ॥ १३ ॥

sa tvaṁ bhūdhara-bhūtānāṁdaitya-pramatha-rakṣasāmavatīrṇo vināśāyasādhunāṁ rakṣaṇāya ca

Shloka 14

दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृति: । यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम् ॥ १४ ॥

diṣṭyā te nihato daityolīlayāyaṁ hayākṛtiḥyasya heṣita-santrastāstyajanty animiṣā divam

Shloka 15-20

चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् । कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १५ ॥ तस्यानु शङ्खयवनमुराणां नरकस्य च । पारिजातापहरणमिन्द्रस्य च पराजयम् ॥ १६ ॥ उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् । नृगस्य मोक्षणं शापाद्‌द्वारकायां जगत्पते ॥ १७ ॥ स्यमन्तकस्य च मणेरादानं सह भार्यया । मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामत: ॥ १८ ॥ पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश्च दीपनम् । दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ १९ ॥ यानि चान्यानि वीर्याणि द्वारकामावसन्भवान् । कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २० ॥

cāṇūraṁ muṣṭikaṁ caivamallān anyāṁś ca hastinamkaṁsaṁ ca nihataṁ drakṣyeparaśvo ’hani te vibho

Shloka 21

अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै । अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथे: ॥ २१ ॥

atha te kāla-rūpasyakṣapayiṣṇor amuṣya vaiakṣauhiṇīnāṁ nidhanaṁdrakṣyāmy arjuna-sāratheḥ

Shloka 22

विशुद्धविज्ञानघनं स्वसंस्थयासमाप्तसर्वार्थममोघवाञ्छितम् । स्वतेजसा नित्यनिवृत्तमाया-गुणप्रवाहं भगवन्तमीमहि ॥ २२ ॥

viśuddha-vijñāna-ghanaṁ sva-saṁsthayāsamāpta-sarvārtham amogha-vāñchitamsva-tejasā nitya-nivṛtta-māyā-guṇa-pravāhaṁ bhagavantam īmahi

Shloka 23

त्वामीश्वरं स्वाश्रयमात्ममाययाविनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थमद्यात्तमनुष्यविग्रहंनतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ २३ ॥

tvām īśvaraṁ svāśrayam ātma-māyayāvinirmitāśeṣa-viśeṣa-kalpanamkrīḍārtham adyātta-manuṣya-vigrahaṁnato ’smi dhuryaṁ yadu-vṛṣṇi-sātvatām

Shloka 24

श्रीशुक उवाच एवं यदुपतिं कृष्णं भागवतप्रवरो मुनि: । प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सव: ॥ २४ ॥

śrī-śuka uvācaevaṁ yadu-patiṁ kṛṣṇaṁbhāgavata-pravaro muniḥpraṇipatyābhyanujñātoyayau tad-darśanotsavaḥ

Shloka 25

भगवानपि गोविन्दो हत्वा केशिनमाहवे । पशूनपालयत् पालै: प्रीतैर्व्रजसुखावह: ॥ २५ ॥

bhagavān api govindohatvā keśinam āhavepaśūn apālayat pālaiḥprītair vraja-sukhāvahaḥ

Shloka 26

एकदा ते पशून्पालाश्चारयन्तोऽद्रिसानुषु । चक्रुर्निलायनक्रीडाश्चोरपालापदेशत: ॥ २६ ॥

ekadā te paśūn pālāś’cārayanto ’dri-sānuṣucakrur nilāyana-krīḍāścora-pālāpadeśataḥ

Shloka 27

तत्रासन् कतिचिच्चोरा: पालाश्च कतिचिन्नृप । मेषायिताश्च तत्रैके विजह्रुरकुतोभया: ॥ २७ ॥

tatrāsan katicic corāḥpālāś ca katicin nṛpameṣāyitāś ca tatraikevijahrur akuto-bhayāḥ

Shloka 28

मयपुत्रो महामायो व्योमो गोपालवेषधृक् । मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥ २८ ॥

maya-putro mahā-māyovyomo gopāla-veṣa-dhṛkmeṣāyitān apovāhaprāyaś corāyito bahūn

Shloka 29

गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुर: । शिलया पिदधे द्वारं चतु:पञ्चावशेषिता: ॥ २९ ॥

giri-daryāṁ vinikṣipyanītaṁ nītaṁ mahāsuraḥśilayā pidadhe dvāraṁcatuḥ-pañcāvaśeṣitāḥ

Shloka 30

तस्य तत् कर्म विज्ञाय कृष्ण: शरणद: सताम् । गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ॥ ३० ॥

tasya tat karma vijñāyakṛṣṇaḥ śaraṇa-daḥ satāmgopān nayantaṁ jagrāhavṛkaṁ harir ivaujasā

Shloka 31

स निजं रूपमास्थाय गिरीन्द्रसद‍ृशं बली । इच्छन्विमोक्तुमात्मानं नाशक्नोद्ग्रहणातुर: ॥ ३१ ॥

sa nijaṁ rūpam āsthāyagirīndra-sadṛśaṁ balīicchan vimoktum ātmānaṁnāśaknod grahaṇāturaḥ

Shloka 32

तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले । पश्यतां दिवि देवानां पशुमारममारयत् ॥ ३२ ॥

taṁ nigṛhyācyuto dorbhyāṁpātayitvā mahī-talepaśyatāṁ divi devānāṁpaśu-māram amārayat

Shloka 33

गुहापिधानं निर्भिद्य गोपान्नि:सार्य कृच्छ्रत: । स्तूयमान: सुरैर्गोपै: प्रविवेश स्वगोकुलम् ॥ ३३ ॥

guhā-pidhānaṁ nirbhidyagopān niḥsārya kṛcchrataḥstūyamānaḥ surair gopaiḥpraviveśa sva-gokulam

← PrevNext →