Canto 10, Chapter 39
श्रीशुक उवाच सुखोपविष्ट: पर्यङ्के रामकृष्णोरुमानित: । लेभे मनोरथान्सर्वान्पथि यन् स चकार ह ॥ १ ॥
śrī-śuka uvācasukhopaviṣṭaḥ paryaṅkerama-kṛṣṇoru-mānitaḥlebhe manorathān sarvānpathi yān sa cakāra ha
किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने । तथापि तत्परा राजन्न हि वाञ्छन्ति किञ्चन ॥ २ ॥
kim alabhyaṁ bhagavatiprasanne śrī-niketanetathāpi tat-parā rājanna hi vāñchanti kiñcana
सायन्तनाशनं कृत्वा भगवान् देवकीसुत: । सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ॥ ३ ॥
sāyantanāśanaṁ kṛtvābhagavān devakī-sutaḥsuhṛtsu vṛttaṁ kaṁsasyapapracchānyac cikīrṣitam
श्रीभगवानुवाचतात सौम्यागत: कच्च्त्स्विगतं भद्रमस्तु व: । अपि स्वज्ञातिबन्धूनामनमीवमनामयम् ॥ ४ ॥
śrī-bhagavān uvācatāta saumyāgataḥ kaccitsv-āgataṁ bhadram astu vaḥapi sva-jñāti-bandhūnāmanamīvam anāmayam
किं नु न: कुशलं पृच्छे एधमाने कुलामये । कंसे मातुलनाम्नाङ्ग स्वानां नस्तत्प्रजासु च ॥ ५ ॥
kiṁ nu naḥ kuśalaṁ pṛccheedhamāne kulāmayekaṁse mātula-nāmnāṅgasvānāṁ nas tat-prajāsu ca
अहो अस्मदभूद् भूरि पित्रोर्वृजिनमार्ययो: । यद्धेतो: पुत्रमरणं यद्धेतोर्बन्धनं तयो: ॥ ६ ॥
aho asmad abhūd bhūripitror vṛjinam āryayoḥyad-dhetoḥ putra-maraṇaṁyad-dhetor bandhanaṁ tayoḥ
दिष्ट्याद्य दर्शनं स्वानां मह्यं व: सौम्य काङ्क्षितम् । सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ ७ ॥
diṣṭyādya darśanaṁ svānāṁmahyaṁ vaḥ saumya kāṅkṣitamsañjātaṁ varṇyatāṁ tātatavāgamana-kāraṇam
श्रीशुक उवाच पृष्टो भगवता सर्वं वर्णयामास माधव: । वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥
śrī-śuka uvācapṛṣṭo bhagavatā sarvaṁvarṇayām āsa mādhavaḥvairānubandhaṁ yaduṣuvasudeva-vadhodyamam
यत्सन्देशो यदर्थं वा दूत: सम्प्रेषित: स्वयम् । यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभे: ॥ ९ ॥
yat-sandeśo yad-arthaṁ vādūtaḥ sampreṣitaḥ svayamyad uktaṁ nāradenāsyasva-janmānakadundubheḥ
श्रुत्वाक्रूरवच: कृष्णो बलश्च परवीरहा । प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतु: ॥ १० ॥
śrutvākrūra-vacaḥ kṛṣṇobalaś ca para-vīra-hāprahasya nandaṁ pitaraṁrājñā diṣṭaṁ vijajñatuḥ
गोपान् समादिशत्सोऽपि गृह्यतां सर्वगोरस: । उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ ११ ॥ यास्याम: श्वो मधुपुरीं दास्यामो नृपते रसान् । द्रक्ष्याम: सुमहत्पर्व यान्ति जानपदा: किल । एवमाघोषयत् क्षत्रा नन्दगोप: स्वगोकुले ॥ १२ ॥
gopān samādiśat so ’pigṛhyatāṁ sarva-go-rasaḥupāyanāni gṛhṇīdhvaṁyujyantāṁ śakaṭāni ca
गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम् । रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥ १३ ॥
gopyas tās tad upaśrutyababhūvur vyathitā bhṛśamrāma-kṛṣṇau purīṁ netumakrūraṁ vrajam āgatam
काश्चित्तत्कृतहृत्तापश्वासम्लानमुखश्रिय: । स्रंसद्दुकूलवलयकेशग्रन्थ्यश्च काश्चन ॥ १४ ॥
kāścit tat-kṛta-hṛt-tāpaśvāsa-mlāna-mukha-śriyaḥsraṁsad-dukūla-valayakeśa-granthyaś ca kāścana
अन्याश्च तदनुध्याननिवृत्ताशेषवृत्तय: । नाभ्यजानन्निमं लोकमात्मलोकं गता इव ॥ १५ ॥
anyāś ca tad-anudhyānanivṛttāśeṣa-vṛttayaḥnābhyajānann imaṁ lokamātma-lokaṁ gatā iva
स्मरन्त्यश्चापरा: शौरेरनुरागस्मितेरिता: । हृदिस्पृशश्चित्रपदा गिर: सम्मुमुहु: स्त्रिय: ॥ १६ ॥
smarantyaś cāparāḥ śaureranurāga-smiteritāḥhṛdi-spṛśaś citra-padāgiraḥ sammumuhuḥ striyaḥ
गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् । शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥ १७ ॥ चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातरा: । समेता: सङ्घश: प्रोचुरश्रुमुख्योऽच्युताशया: ॥ १८ ॥
gatiṁ su-lalitāṁ ceṣṭāṁsnigdha-hāsāvalokanamśokāpahāni narmāṇiproddāma-caritāni ca
श्रीगोप्य ऊचु: अहो विधातस्तव न क्वचिद् दयासंयोज्य मैत्र्या प्रणयेन देहिन: । तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकंविक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १९ ॥
śrī-gopya ūcuḥaho vidhātas tava na kvacid dayāsaṁyojya maitryā praṇayena dehinaḥtāṁś cākṛtārthān viyunaṅkṣy apārthakaṁvikrīḍitaṁ te ’rbhaka-ceṣṭitaṁ yathā
यस्त्वं प्रदर्श्यासितकुन्तलावृतंमुकुन्दवक्त्रं सुकपोलमुन्नसम् । शोकापनोदस्मितलेशसुन्दरंकरोषि पारोक्ष्यमसाधु ते कृतम् ॥ २० ॥
yas tvaṁ pradarśyāsita-kuntalāvṛtaṁmukunda-vaktraṁ su-kapolam un-nasamśokāpanoda-smita-leśa-sundaraṁkaroṣi pārokṣyam asādhu te kṛtam
क्रूरस्त्वमक्रूरसमाख्यया स्म न-श्चक्षुर्हि दत्तं हरसे बताज्ञवत् । येनैकदेशेऽखिलसर्गसौष्ठवंत्वदीयमद्राक्ष्म वयं मधुद्विष: ॥ २१ ॥
krūras tvam akrūra-samākhyayā sma naścakṣur hi dattaṁ harase batājña-vatyenaika-deśe ’khila-sarga-sauṣṭhavaṁtvadīyam adrākṣma vayaṁ madhu-dviṣaḥ
न नन्दसूनु: क्षणभङ्गसौहृद:समीक्षते न: स्वकृतातुरा बत । विहाय गेहान् स्वजनान् सुतान्पतीं-स्तद्दास्यमद्धोपगता नवप्रिय: ॥ २२ ॥
na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥsamīkṣate naḥ sva-kṛtāturā batavihāya gehān sva-janān sutān patīṁstad-dāsyam addhopagatā nava-priyaḥ
सुखं प्रभाता रजनीयमाशिष:सत्या बभूवु: पुरयोषितां ध्रुवम् । या: संप्रविष्टस्य मुखं व्रजस्पते:पास्यन्त्यपाङ्गोत्कलितस्मितासवम् ॥ २३ ॥
sukhaṁ prabhātā rajanīyam āśiṣaḥsatyā babhūvuḥ pura-yoṣitāṁ dhruvamyāḥ saṁpraviṣṭasya mukhaṁ vrajas-pateḥpāsyanty apāṅgotkalita-smitāsavam
तासां मुकुन्दो मधुमञ्जुभाषितै-र्गृहीतचित्त: परवान् मनस्व्यपि । कथं पुनर्न: प्रतियास्यतेऽबलाग्राम्या: सलज्जस्मितविभ्रमैर्भ्रमन् ॥ २४ ॥
tāsāṁ mukundo madhu-mañju-bhāṣitairgṛhīta-cittaḥ para-vān manasvy apikathaṁ punar naḥ pratiyāsyate ’balāgrāmyāḥ salajja-smita-vibhramair bhraman
अद्य ध्रुवं तत्र दृशो भविष्यतेदाशार्हभोजान्धकवृष्णिसात्वताम् । महोत्सव: श्रीरमणं गुणास्पदंद्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ २५ ॥
adya dhruvaṁ tatra dṛśo bhaviṣyatedāśārha-bhojāndhaka-vṛṣṇi-sātvatāmmahotsavaḥ śrī-ramaṇaṁ guṇāspadaṁdrakṣyanti ye cādhvani devakī-sutam
मैतद्विधस्याकरुणस्य नाम भू-दक्रूर इत्येतदतीव दारुण: । योऽसावनाश्वास्य सुदु:खितं जनंप्रियात्प्रियं नेष्यति पारमध्वन: ॥ २६ ॥
maitad-vidhasyākaruṇasya nāma bhūdakrūra ity etad atīva dāruṇaḥyo ’sāv anāśvāsya su-duḥkhitam janaṁpriyāt priyaṁ neṣyati pāram adhvanaḥ
अनार्द्रधीरेष समास्थितो रथंतमन्वमी च त्वरयन्ति दुर्मदा: । गोपा अनोभि: स्थविरैरुपेक्षितंदैवं च नोऽद्य प्रतिकूलमीहते ॥ २७ ॥
anārdra-dhīr eṣa samāsthito rathaṁtam anv amī ca tvarayanti durmadāḥgopā anobhiḥ sthavirair upekṣitaṁdaivaṁ ca no ’dya pratikūlam īhate
निवारयाम: समुपेत्य माधवंकिं नोऽकरिष्यन् कुलवृद्धबान्धवा: । मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद्दैवेन विध्वंसितदीनचेतसाम् ॥ २८ ॥
nivārayāmaḥ samupetya mādhavaṁkiṁ no ’kariṣyan kula-vṛddha-bāndhavāḥmukunda-saṅgān nimiṣārdha-dustyajāddaivena vidhvaṁsita-dīna-cetasām
यस्यानुरागललितस्मितवल्गुमन्त्र-लीलावलोकपरिरम्भणरासगोष्ठाम् । नीता: स्म न: क्षणमिव क्षणदा विना तंगोप्य: कथं न्वतितरेम तमो दुरन्तम् ॥ २९ ॥
yasyānurāga-lalita-smita-valgu-mantralīlāvaloka-parirambhaṇa-rāsa-goṣṭhāmnītāḥ sma naḥ kṣaṇam iva kṣaṇadā vinā taṁgopyaḥ kathaṁ nv atitarema tamo durantam
योऽह्न: क्षये व्रजमनन्तसख: परीतोगोपैर्विशन् खुररजश्छुरितालकस्रक् । वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेनचित्तं क्षिणोत्यमुमृते नु कथं भवेम ॥ ३० ॥
yo ’hnaḥ kṣaye vrajam ananta-sakhaḥ parītogopair viśan khura-rajaś-churitālaka-srakveṇuṁ kvaṇan smita-katākṣa-nirīkṣaṇenacittaṁ kṣiṇoty amum ṛte nu kathaṁ bhavema
श्रीशुक उवाच एवं ब्रुवाणा विरहातुरा भृशंव्रजस्त्रिय: कृष्णविषक्तमानसा: । विसृज्य लज्जां रुरुदु: स्म सुस्वरंगोविन्द दामोदर माधवेति ॥ ३१ ॥
śrī-śuka uvācaevaṁ bruvāṇā virahāturā bhṛśaṁvraja-striyaḥ kṛṣṇa-viṣakta-mānasāḥvisṛjya lajjāṁ ruruduḥ sma su-svaraṁgovinda dāmodara mādhaveti
स्त्रीणामेवं रुदन्तीनामुदिते सवितर्यथ । अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ॥ ३२ ॥
strīṇām evaṁ rudantīnāmudite savitary athaakrūraś codayām āsakṛta-maitrādiko ratham
गोपास्तमन्वसज्जन्त नन्दाद्या: शकटैस्तत: । आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥ ३३ ॥
gopās tam anvasajjantanandādyāḥ śakaṭais tataḥādāyopāyanaṁ bhūrikumbhān go-rasa-sambhṛtān
गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिता: । प्रत्यादेशं भगवत: काङ्क्षन्त्यश्चावतस्थिरे ॥ ३४ ॥
gopyaś ca dayitaṁ kṛṣṇamanuvrajyānurañjitāḥpratyādeśaṁ bhagavataḥkāṅkṣantyaś cāvatasthire
तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तम: । सान्त्वयामास सप्रेमैरायास्य इति दौत्यकै: ॥ ३५ ॥
tās tathā tapyatīr vīkṣyasva-prasthāṇe yadūttamaḥsāntvayām asa sa-premairāyāsya iti dautyakaiḥ
यावदालक्ष्यते केतुर्यावद् रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिता: ॥ ३६ ॥
yāvad ālakṣyate keturyāvad reṇū rathasya caanuprasthāpitātmānolekhyānīvopalakṣitāḥ
ता निराशा निववृतुर्गोविन्दविनिवर्तने । विशोका अहनी निन्युर्गायन्त्य: प्रियचेष्टितम् ॥ ३७ ॥
tā nirāśā nivavṛturgovinda-vinivartaneviśokā ahanī ninyurgāyantyaḥ priya-ceṣṭitam
भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप । रथेन वायुवेगेन कालिन्दीमघनाशिनीम् ॥ ३८ ॥
bhagavān api samprāptorāmākrūra-yuto nṛparathena vāyu-vegenakālindīm agha-nāśinīm
तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् । वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ॥ ३९ ॥
tatropaspṛśya pānīyaṁpītvā mṛṣṭaṁ maṇi-prabhamvṛkṣa-ṣaṇḍam upavrajyasa-rāmo ratham āviśat
अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि । कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत् ॥ ४० ॥
akrūras tāv upāmantryaniveśya ca rathoparikālindyā hradam āgatyasnānaṁ vidhi-vad ācarat
निमज्ज्य तस्मिन्सलिले जपन्ब्रह्म सनातनम् । तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥ ४१ ॥
nimajjya tasmin salilejapan brahma sanātanamtāv eva dadṛśe ’krūrorāma-kṛṣṇau samanvitau
तौ रथस्थौ कथमिह सुतावानकदुन्दुभे: । तर्हि स्वित्स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट स: ॥ ४२ ॥ तत्रापि च यथापूर्वमासीनौ पुनरेव स: । न्यमज्जद् दर्शनं यन्मे मृषा किं सलिले तयो: ॥ ४३ ॥
tau ratha-sthau katham ihasutāv ānakadundubheḥtarhi svit syandane na staity unmajjya vyacaṣṭa saḥ
भूयस्तत्रापि सोऽद्राक्षीत्स्तूयमानमहीश्वरम् । सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरै: ॥ ४४ ॥ सहस्रशिरसं देवं सहस्रफणमौलिनम् । नीलाम्बरं विसश्वेतं शृङ्गै: श्वेतमिव स्थितम् ॥ ४५ ॥
bhūyas tatrāpi so ’drākṣītstūyamānam ahīśvaramsiddha-cāraṇa-gandharvairasurair nata-kandharaiḥ
तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम् । पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥ ४६ ॥ चारुप्रसन्नवदनं चारुहासनिरीक्षणम् । सुभ्रून्नसं चारुकर्णं सुकपोलारुणाधरम् ॥ ४७ ॥ प्रलम्बपीवरभुजं तुङ्गांसोर:स्थलश्रियम् । कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥ ४८ ॥
tasyotsaṅge ghana-śyāmaṁpīta-kauśeya-vāsasampuruṣaṁ catur-bhujaṁ śāntampadma-patrāruṇekṣaṇam
बृहत्कटितटश्रोणिकरभोरुद्वयान्वितम् । चारुजानुयुगं चारुजङ्घायुगलसंयुतम् ॥ ४९ ॥ तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतम् । नवाङ्गुल्यङ्गुष्ठदलैर्विलसत् पादपङ्कजम् ॥ ५० ॥
bṛhat-kati-tata-śroṇikarabhoru-dvayānvitamcāru-jānu-yugaṁ cārujaṅghā-yugala-saṁyutam
सुमहार्हमणिव्रातकिरीटकटकाङ्गदै: । कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलै: ॥ ५१ ॥ भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ५२ ॥
su-mahārha-maṇi-vrātakirīṭa-kaṭakāṅgadaiḥkaṭi-sūtra-brahma-sūtrahāra-nūpura-kuṇḍalaiḥ
सुनन्दनन्दप्रमुखै: पर्षदै: सनकादिभि: । सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च द्विजोत्तमै: ॥ ५३ ॥ प्रह्रादनारदवसुप्रमुखैर्भागवतोत्तमै: । स्तूयमानं पृथग्भावैर्वचोभिरमलात्मभि: ॥ ५४ ॥ श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥
sunanda-nanda-pramukhaiḥparṣadaiḥ sanakādibhiḥsureśair brahma-rudrādyairnavabhiś ca dvijottamaiḥ
विलोक्य सुभृशं प्रीतो भक्त्या परमया युत: । हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचन: ॥ ५६ ॥ गिरा गद्गदयास्तौषीत् सत्त्वमालम्ब्य सात्वत: । प्रणम्य मूर्ध्नावहित: कृताञ्जलिपुट: शनै: ॥ ५७ ॥
vilokya su-bhṛśaṁ prītobhaktyā paramayā yutaḥhṛṣyat-tanūruho bhāva-pariklinnātma-locanaḥ