Canto 10, Chapter 50
श्रीशुक उवाच अस्ति: प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ । मृते भर्तरि दु:खार्ते ईयतु: स्म पितुर्गृहान् ॥ १ ॥
śrī-śuka uvācaastiḥ prāptiś ca kaṁsasyamahiṣyau bharatarṣabhamṛte bhartari duḥkhārteīyatuḥ sma pitur gṛhān
पित्रे मगधराजाय जरासन्धाय दु:खिते । वेदयां चक्रतु: सर्वमात्मवैधव्यकारणम् ॥ २ ॥
pitre magadha-rājāyajarāsandhāya duḥkhitevedayāṁ cakratuḥ sarvamātma-vaidhavya-kāraṇam
स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप । अयादवीं महीं कर्तुं चक्रे परममुद्यमम् ॥ ३ ॥
sa tad apriyam ākarṇyaśokāmarṣa-yuto nṛpaayādavīṁ mahīṁ kartuṁcakre paramam udyamam
अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृत: । यदुराजधानीं मथुरां न्यरुधत् सर्वतोदिशम् ॥ ४ ॥
akṣauhiṇībhir viṁśatyātisṛbhiś cāpi saṁvṛtaḥyadu-rājadhānīṁ mathurāṁnyarudhat sarvato diśam
निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम् । स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम् ॥ ५ ॥ चिन्तयामास भगवान् हरि: कारणमानुष: । तद्देशकालानुगुणं स्वावतारप्रयोजनम् ॥ ६ ॥
nirīkṣya tad-balaṁ kṛṣṇaudvelam iva sāgaramsva-puraṁ tena saṁruddhaṁsva-janaṁ ca bhayākulam
हनिष्यामि बलं ह्येतद्भुवि भारं समाहितम् । मागधेन समानीतं वश्यानां सर्वभूभुजाम् ॥ ७ ॥ अक्षौहिणीभि: सङ्ख्यातं भटाश्वरथकुञ्जरै: । मागधस्तु न हन्तव्यो भूय: कर्ता बलोद्यमम् ॥ ८ ॥
haniṣyāmi balaṁ hy etadbhuvi bhāraṁ samāhitammāgadhena samānītaṁvaśyānāṁ sarva-bhūbhujām
एतदर्थोऽवतारोऽयं भूभारहरणाय मे । संरक्षणाय साधूनां कृतोऽन्येषां वधाय च ॥ ९ ॥
etad-artho ’vatāro ’yaṁbhū-bhāra-haraṇāya mesaṁrakṣaṇāya sādhūnāṁkṛto ’nyeṣāṁ vadhāya ca
अन्योऽपि धर्मरक्षायै देह: संभ्रियते मया । विरामायाप्यधर्मस्य काले प्रभवत: क्वचित् ॥ १० ॥
anyo ’pi dharma-rakṣāyaidehaḥ saṁbhriyate mayāvirāmāyāpy adharmasyakāle prabhavataḥ kvacit
एवं ध्यायति गोविन्द आकाशात् सूर्यवर्चसौ । रथावुपस्थितौ सद्य: ससूतौ सपरिच्छदौ ॥ ११ ॥
evaṁ dhyāyati govindaākāśāt sūrya-varcasaurathāv upasthitau sadyaḥsa-sūtau sa-paricchadau
आयुधानि च दिव्यानि पुराणानि यदृच्छया । दृष्ट्वा तानि हृषीकेश: सङ्कर्षणमथाब्रवीत् ॥ १२ ॥
āyudhāni ca divyānipurāṇāni yadṛcchayādṛṣṭvā tāni hṛṣīkeśaḥsaṅkarṣaṇam athābravīt
पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो । एष ते रथ आयातो दयितान्यायुधानि च ॥ १३ ॥ एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत् । त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु ॥ १४ ॥
paśyārya vyasanaṁ prāptaṁyadūnāṁ tvāvatāṁ prabhoeṣa te ratha āyātodayitāny āyudhāni ca
एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् । निर्जग्मतु: स्वायुधाढ्यौ बलेनाल्पीयसा वृतौ ॥ १५ ॥
evaṁ sammantrya dāśārhaudaṁśitau rathinau purātnirjagmatuḥ svāyudhāḍhyaubalenālpīyasā vṛtau
शङ्खं दध्मौ विनिर्गत्य हरिर्दारुकसारथि: । ततोऽभूत् परसैन्यानां हृदि वित्रासवेपथु: ॥ १६ ॥
śaṅkhaṁ dadhmau vinirgatyaharir dāruka-sārathiḥtato ’bhūt para-sainyānāṁhṛdi vitrāsa-vepathuḥ
तावाह मागधो वीक्ष्य हे कृष्ण पुरुषाधम । न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया । गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन् ॥ १७ ॥
tāv āha māgadho vīkṣyahe kṛṣṇa puruṣādhamana tvayā yoddhum icchāmibālenaikena lajjayāguptena hi tvayā mandana yotsye yāhi bandhu-han
तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह । हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि ॥ १८ ॥
tava rāma yadi śraddhāyudhyasva dhairyam udvahahitvā vā mac-charaiś chinnaṁdehaṁ svar yāhi māṁ jahi
श्रीभगवानुवाचन वै शूरा विकत्थन्ते दर्शयन्त्येव पौरुषम् । न गृह्णीमो वचो राजन्नातुरस्य मुमूर्षत: ॥ १९ ॥
śrī-bhagavān uvācana vai śūrā vikatthantedarśayanty eva pauruṣamna gṛhṇīmo vaco rājannāturasya mumūrṣataḥ
श्रीशुक उवाच जरासुतस्तावभिसृत्य माधवौमहाबलौघेन बलीयसावृणोत् । ससैन्ययानध्वजवाजिसारथीसूर्यानलौ वायुरिवाभ्ररेणुभि: ॥ २० ॥
śrī-śuka uvācajarā-sutas tāv abhisṛtya mādhavaumahā-balaughena balīyasāvṛnotsa-sainya-yāna-dhvaja-vāji-sārathīsūryānalau vāyur ivābhra-reṇubhiḥ
सुपर्णतालध्वजचिह्नितौ रथा-वलक्षयन्त्यो हरिरामयोर्मृधे । स्त्रिय: पुराट्टालकहर्म्यगोपुरंसमाश्रिता: सम्मुमुहु: शुचार्दिता: ॥ २१ ॥
suparṇa-tāla-dhvaja-cihitnau rathāvalakṣayantyo hari-rāmayor mṛdhestriyaḥ purāṭṭālaka-harmya-gopuraṁsamāśritāḥ sammumuhuḥ śucārditaḥ
हरि: परानीकपयोमुचां मुहु:शिलीमुखात्युल्बणवर्षपीडितम् । स्वसैन्यमालोक्य सुरासुरार्चितंव्यस्फूर्जयच्छार्ङ्गशरासनोत्तमम् ॥ २२ ॥
hariḥ parānīka-payomucāṁ muhuḥśilīmukhāty-ulbaṇa-varṣa-pīḍitamsva-sainyam ālokya surāsurārcitaṁvyasphūrjayac chārṅga-śarāsanottamam
गृह्णन् निशङ्गादथ सन्दधच्छरान्विकृष्य मुञ्चन् शितबाणपूगान् । निघ्नन् रथान् कुञ्जरवाजिपत्तीन्निरन्तरं यद्वदलातचक्रम् ॥ २३ ॥
gṛhṇan niśaṅgād atha sandadhac charānvikṛṣya muñcan śita-bāṇa-pūgānnighnan rathān kuñjara-vāji-pattīnnirantaraṁ yadvad alāta-cakram
निर्भिन्नकुम्भा: करिणो निपेतु-रनेकशोऽश्वा: शरवृक्णकन्धरा: । रथा हताश्वध्वजसूतनायका:पदायतश्छिन्नभुजोरुकन्धरा: ॥ २४ ॥
nirbhinna-kumbhāḥ kariṇo nipeturanekaśo ’śvāḥ śara-vṛkṇa-kandharāḥrathā hatāśva-dhvaja-sūta-nāyakāḥpadāyataś chinna-bhujoru-kandharāḥ
सञ्छिद्यमानद्विपदेभवाजिना-मङ्गप्रसूता: शतशोऽसृगापगा: । भुजाहय: पूरुषशीर्षकच्छपाहतद्विपद्वीपहयग्रहाकुला: ॥ २५ ॥ करोरुमीना नरकेशशैवलाधनुस्तरङ्गायुधगुल्मसङ्कुला: । अच्छूरिकावर्तभयानका महा-मणिप्रवेकाभरणाश्मशर्करा: ॥ २६ ॥ प्रवर्तिता भीरुभयावहा मृधेमनस्विनां हर्षकरी: परस्परम् । विनिघ्नतारीन् मुषलेन दुर्मदान्सङ्कर्षणेनापरिमेयतेजसा ॥ २७ ॥ बलं तदङ्गार्णवदुर्गभैरवंदुरन्तपारं मगधेन्द्रपालितम् । क्षयं प्रणीतं वसुदेवपुत्रयो-र्विक्रीडितं तज्जगदीशयो: परम् ॥ २८ ॥
sañchidyamāna-dvipadebha-vājināmaṅga-prasūtāḥ śataśo ’sṛg-āpagāḥbhujāhayaḥ pūruṣa-śīrṣa-kacchapāhata-dvipa-dvīpa-haya grahākulāḥ
स्थित्युद्भवान्तं भुवनत्रयस्य य:समीहितेऽनन्तगुण: स्वलीलया । न तस्य चित्रं परपक्षनिग्रह-स्तथापि मर्त्यानुविधस्य वर्ण्यते ॥ २९ ॥
sthity-udbhavāntaṁ bhuvana-trayasya yaḥsamīhite ’nanta-guṇaḥ sva-līlayāna tasya citraṁ para-pakṣa-nigrahastathāpi martyānuvidhasya varṇyate
जग्राह विरथं रामो जरासन्धं महाबलम् । हतानीकावशिष्टासुं सिंह: सिंहमिवौजसा ॥ ३० ॥
jagrāha virathaṁ rāmojarāsandhaṁ mahā-balamhatānīkāvaśiṣṭāsuṁsiṁhaḥ siṁham ivaujasā
बध्यमानं हतारातिं पाशैर्वारुणमानुषै: । वारयामास गोविन्दस्तेन कार्यचिकीर्षया ॥ ३१ ॥
badhyamānaṁ hatārātiṁpāśair vāruṇa-mānuṣaiḥvārayām āsa govindastena kārya-cikīrṣayā
स मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मत: । तपसे कृतसङ्कल्पो वारित: पथि राजभि: ॥ ३२ ॥ वाक्यै: पवित्रार्थपदैर्नयनै: प्राकृतैरपि । स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभव: ॥ ३३ ॥
sā mukto loka-nāthābhyāṁvrīḍito vīra-sammataḥtapase kṛta-saṅkalpovāritaḥ pathi rājabhiḥ
हतेषु सर्वानीकेषु नृपो बार्हद्रथस्तदा । उपेक्षितो भगवता मगधान् दुर्मना ययौ ॥ ३४ ॥
hateṣu sarvānīkeṣunṛpo bārhadrathas tadāupekṣito bhagavatāmagadhān durmanā yayau
मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णव: । विकीर्यमाण: कुसुमैस्त्रीदशैरनुमोदित: ॥ ३५ ॥ माथुरैरुपसङ्गम्य विज्वरैर्मुदितात्मभि: । उपगीयमानविजय: सूतमागधवन्दिभि: ॥ ३६ ॥
mukundo ’py akṣata-balonistīrṇāri-balārṇavaḥvikīryamāṇaḥ kusumaistrīdaśair anumoditaḥ
शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकश: । वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ ॥ ३७ ॥ सिक्तमार्गां हृष्टजनां पताकाभिरभ्यलङ्कृताम् । निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम् ॥ ३८ ॥
śaṅkha-dundubhayo nedurbherī-tūryāṇy anekaśaḥvīṇā-veṇu-mṛdaṅgānipuraṁ praviśati prabhau
निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरै: । निरीक्ष्यमाण: सस्नेहं प्रीत्युत्कलितलोचनै: ॥ ३९ ॥
nicīyamāno nārībhirmālya-dadhy-akṣatāṅkuraiḥnirīkṣyamāṇaḥ sa-snehaṁprīty-utkalita-locanaiḥ
आयोधनगतं वित्तमनन्तं वीरभूषणम् । यदुराजाय तत् सर्वमाहृतं प्रादिशत्प्रभु: ॥ ४० ॥
āyodhana-gataṁ vittamanantaṁ vīra-bhūṣaṇamyadu-rājāya tat sarvamāhṛtaṁ prādiśat prabhuḥ
एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबल: । युयुधे मागधो राजा यदुभि: कृष्णपालितै: ॥ ४१ ॥
evaṁ saptadaśa-kṛtvastāvaty akṣauhiṇī-balaḥyuyudhe māgadho rājāyadubhiḥ kṛṣṇa-pālitaiḥ
अक्षिण्वंस्तद्बलं सर्वं वृष्णय: कृष्णतेजसा । हतेषु स्वेष्वनीकेषु त्यक्तोऽगादरिभिर्नृप: ॥ ४२ ॥
akṣiṇvaṁs tad-balaṁ sarvaṁvṛṣṇayaḥ kṛṣṇa-tejasāhateṣu sveṣv anīkeṣutyakto ’gād aribhir nṛpaḥ
अष्टादशमसङ्ग्राम आगामिनि तदन्तरा । नारदप्रेषितो वीरो यवन: प्रत्यदृश्यत ॥ ४३ ॥
aṣṭādaśama saṅgrāmaāgāmini tad-antarānārada-preṣito vīroyavanaḥ pratyadṛśyata
रुरोध मथुरामेत्य तिसृभिर्म्लेच्छकोटिभि: । नृलोके चाप्रतिद्वन्द्वो वृष्णीन्श्रुत्वात्मसम्मितान् ॥ ४४ ॥
rurodha mathurām etyatisṛbhir mleccha-koṭibhiḥnṛ-loke cāpratidvandvovṛṣṇīn śrutvātma-sammitān
तं दृष्ट्वाचिन्तयत् कृष्ण: सङ्कर्षणसहायवान् । अहो यदूनां वृजिनं प्राप्तं ह्युभयतो महत् ॥ ४५ ॥
taṁ dṛṣṭvācintayat kṛṣṇaḥsaṅkarṣaṇa sahāyavānaho yadūnāṁ vṛjinaṁprāptaṁ hy ubhayato mahat
यवनोऽयं निरुन्धेऽस्मानद्य तावन्महाबल: । मागधोऽप्यद्य वा श्वो वा परश्वो वागमिष्यति ॥ ४६ ॥
yavano ’yaṁ nirundhe ’smānadya tāvan mahā-balaḥmāgadho ’py adya vā śvo vāparaśvo vāgamiṣyati
आवयो: युध्यतोरस्य यद्यागन्ता जरासुत: । बन्धून् हनिष्यत्यथवा नेष्यते स्वपुरं बली ॥ ४७ ॥
āvayoḥ yudhyator asyayady āgantā jarā-sutaḥbandhūn haniṣyaty atha vāneṣyate sva-puraṁ balī
तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमम् । तत्र ज्ञातीन् समाधाय यवनं घातयामहे ॥ ४८ ॥
tasmād adya vidhāsyāmodurgaṁ dvipada-durgamamtatra jñātīn samādhāyayavanaṁ ghātayāmahe
इति सम्मन्त्र्य भगवान् दुर्गं द्वादशयोजनम् । अन्त:समुद्रे नगरं कृत्स्नाद्भुतमचीकरत् ॥ ४९ ॥
iti sammantrya bhagavāndurgaṁ dvādaśa-yojanamantaḥ-samudre nagaraṁkṛtsnādbhutam acīkarat
दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम् । रथ्याचत्वरवीथीभिर्यथावास्तु विनिर्मितम् ॥ ५० ॥ सुरद्रुमलतोद्यानविचित्रोपवनान्वितम् । हेमशृङ्गैर्दिविस्पृग्भि: स्फटिकाट्टालगोपुरै: ॥ ५१ ॥ राजतारकुटै: कोष्ठैर्हेमकुम्भैरलङ्कृतै: । रत्नकूतैर्गृहैर्हेमैर्महामारकत स्थलै: ॥ ५२ ॥ वास्तोष्पतीनां च गृहैर्वल्लभीभिश्च निर्मितम् । चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् ॥ ५३ ॥
dṛśyate yatra hi tvāṣṭraṁvijñānaṁ śilpa-naipuṇamrathyā-catvara-vīthībhiryathā-vāstu vinirmitam
सुधर्मां पारिजातं च महेन्द्र: प्राहिणोद्धरे: । यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते ॥ ५४ ॥
sudharmāṁ pārijātaṁ camahendraḥ prāhiṇod dhareḥyatra cāvasthito martyomartya-dharmair na yujyate
श्यामैकवर्णान् वरुणो हयान् शुक्लान्मनोजवान् । अष्टौ निधिपति: कोशान् लोकपालो निजोदयान् ॥ ५५ ॥
śyāmaika-varṇān varuṇohayān śuklān mano-javānaṣṭau nidhi-patiḥ kośānloka-pālo nijodayān
यद् यद् भगवता दत्तमाधिपत्यं स्वसिद्धये । सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप ॥ ५६ ॥
yad yad bhagavatā dattamādhipatyaṁ sva-siddhayesarvaṁ pratyarpayām āsurharau bhūmi-gate nṛpa
तत्र योगप्रभावेन नीत्वा सर्वजनं हरि: । प्रजापालेन रामेण कृष्ण: समनुमन्त्रित: । निर्जगाम पुरद्वारात् पद्ममाली निरायुध: ॥ ५७ ॥
tatra yoga-prabhāvenanītvā sarva-janaṁ hariḥprajā-pālena rāmeṇakṛṣṇaḥ samanumantritaḥnirjagāma pura-dvārātpadma-mālī nirāyudhaḥ