← Canto 10

Canto 10, Chapter 53

Shloka 1

श्रीशुक उवाच वैदर्भ्या: स तु सन्देशं निशम्य यदुनन्दन: । प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् ॥ १ ॥

śrī-śuka uvācavaidarbhyāḥ sa tu sandeśaṁniśamya yadu-nandanaḥpragṛhya pāṇinā pāṇiṁprahasann idam abravīt

Shloka 2

श्रीभगवानुवाचतथाहमपि तच्चित्तो निद्रां च न लभे निशि । वेदाहं रुक्‍मिणा द्वेषान्ममोद्वाहो निवारित: ॥ २ ॥

śrī-bhagavān uvācatathāham api tac-cittonidrāṁ ca na labhe niśivedāham rukmiṇā dveṣānmamodvāho nivāritaḥ

Shloka 3

तामानयिष्य उन्मथ्य राजन्यापसदान् मृधे । मत्परामनवद्याङ्गीमेधसोऽग्निशिखामिव ॥ ३ ॥

tām ānayiṣya unmathyarājanyāpasadān mṛdhemat-parām anavadyāṅgīmedhaso ’gni-śikhām iva

Shloka 4

श्रीशुक उवाच उद्वाहर्क्षं च विज्ञाय रुक्‍मिण्या मधुसूदन: । रथ: संयुज्यतामाशु दारुकेत्याह सारथिम् ॥ ४ ॥

śrī-śuka uvācaudvāharkṣaṁ ca vijñāyarukmiṇyā madhusūdanaḥrathaḥ saṁyujyatām āśudārukety āha sārathim

Shloka 5

स चाश्वै: शैब्यसुग्रीवमेघपुष्पबलाहकै: । युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रत: ॥ ५ ॥

sa cāśvaiḥ śaibya-sugrīva-meghapuṣpa-balāhakaiḥyuktaṁ ratham upānīyatasthau prāñjalir agrataḥ

Shloka 6

आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगै: । आनर्तादेकरात्रेण विदर्भानगमद्धयै: ॥ ६ ॥

āruhya syandanaṁ śaurirdvijam āropya tūrṇa-gaiḥānartād eka-rātreṇavidarbhān agamad dhayaiḥ

Shloka 7

राजा स कुण्डिनपति: पुत्रस्‍नेहवशानुग: । शिशुपालाय स्वां कन्यां दास्यन् कर्माण्यकारयत् ॥ ७ ॥

rājā sa kuṇḍina-patiḥputra-sneha-vaśānugaḥśiśupālāya svāṁ kanyāṁdāsyan karmāṇy akārayat

Shloka 8-9

पुरं सम्मृष्टसंसिक्तमार्गरथ्याचतुष्पथम् । चित्रध्वजपताकाभिस्तोरणै: समलङ्कृतम् ॥ ८ ॥ स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितै: । जुष्टं स्‍त्रीपुरुषै: श्रीमद्गृहैरगुरुधूपितै: ॥ ९ ॥

puraṁ sammṛṣṭa-saṁsikta-mārga-rathyā-catuṣpathamcitra-dhvaja-patākābhistoraṇaiḥ samalaṅkṛtam

Shloka 10

पितृन् देवान् समभ्यर्च्य विप्रांश्च विधिवन्नृप । भोजयित्वा यथान्यायं वाचयामास मङ्गलम् ॥ १० ॥

pitṝn devān samabhyarcyaviprāṁś ca vidhi-van nṛpabhojayitvā yathā-nyāyaṁvācayām āsa maṅgalam

Shloka 11

सुस्‍नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम् । आहतांशुकयुग्मेन भूषितां भूषणोत्तमै: ॥ ११ ॥

su-snātāṁ su-datīṁ kanyāṁkṛta-kautuka-maṅgalāmāhatāṁśuka-yugmenabhūṣitāṁ bhūṣaṇottamaiḥ

Shloka 12

चक्रु: सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमा: । पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये ॥ १२ ॥

cakruḥ sāma-rg-yajur-mantrairvadhvā rakṣāṁ dvijottamāḥpurohito ’tharva-vid vaijuhāva graha-śāntaye

Shloka 13

हिरण्यरूप्यवासांसि तिलांश्च गुडमिश्रितान् । प्रादाद् धेनूश्च विप्रेभ्यो राजा विधिविदां वर: ॥ १३ ॥

hiraṇya-rūpya vāsāṁsitilāṁś ca guḍa-miśritānprādād dhenūś ca viprebhyorājā vidhi-vidāṁ varaḥ

Shloka 14

एवं चेदिपती राजा दमघोष: सुताय वै । कारयामास मन्त्रज्ञै: सर्वमभ्युदयोचितम् ॥ १४ ॥

evaṁ cedi-patī rājādamaghoṣaḥ sutāya vaikārayām āsa mantra-jñaiḥsarvam abhyudayocitam

Shloka 15

मदच्युद्भ‍िर्गजानीकै: स्यन्दनैर्हेममालिभि: । पत्त्यश्वसङ्कुलै: सैन्यै: परीत: कुण्डिनं ययौ ॥ १५ ॥

mada-cyudbhir gajānīkaiḥsyandanair hema-mālibhiḥpatty-aśva-saṅkulaiḥ sainyaiḥparītaḥ kuṇdīnaṁ yayau

Shloka 16

तं वै विदर्भाधिपति: समभ्येत्याभिपूज्य च । निवेशयामास मुदा कल्पितान्यनिवेशने ॥ १६ ॥

taṁ vai vidarbhādhipatiḥsamabhyetyābhipūjya caniveśayām āsa mudākalpitānya-niveśane

Shloka 17

तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथ: । आजग्मुश्चैद्यपक्षीया: पौण्ड्रकाद्या: सहस्रश: ॥ १७ ॥

tatra śālvo jarāsandhodantavakro vidūrathaḥājagmuś caidya-pakṣīyāḥpauṇḍrakādyāḥ sahasraśaḥ

Shloka 18-19

कृष्णरामद्विषो यत्ता: कन्यां चैद्याय साधितुम् । यद्यागत्य हरेत् कृष्णो रामाद्यैर्यदुभिर्वृत: ॥ १८ ॥ योत्स्याम: संहतास्तेन इति निश्चितमानसा: । आजग्मुर्भूभुज: सर्वे समग्रबलवाहना: ॥ १९ ॥

kṛṣṇa-rāma-dviṣo yattāḥkanyāṁ caidyāya sādhitumyady āgatya haret kṛṣnorāmādyair yadubhir vṛtaḥ

Shloka 20-21

श्रुत्वैतद् भगवान् रामो विपक्षीयनृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कित: ॥ २० ॥ बलेन महता सार्धं भ्रातृस्‍नेहपरिप्लुत: । त्वरित: कुण्डिनं प्रागाद् गजाश्वरथपत्तिभि: ॥ २१ ॥

śrutvaitad bhagavān rāmovipakṣīya nṛpodyamamkṛṣṇaṁ caikaṁ gataṁ hartuṁkanyāṁ kalaha-śaṅkitaḥ

Shloka 22

भीष्मकन्या वरारोहा काङ्‍क्षन्त्यागमनं हरे: । प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा ॥ २२ ॥

bhīṣma-kanyā varārohākāṅkṣanty āgamanaṁ hareḥpratyāpattim apaśyantīdvijasyācintayat tadā

Shloka 23

अहो त्रियामान्तरित उद्वाहो मेऽल्पराधस: । नागच्छत्यरविन्दाक्षो नाहं वेद्‍म्यत्र कारणम् । सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विज: ॥ २३ ॥

aho tri-yāmāntaritaudvāho me ’lpa-rādhasaḥnāgacchaty aravindākṣonāhaṁ vedmy atra kāraṇamso ’pi nāvartate ’dyāpimat-sandeśa-haro dvijaḥ

Shloka 24

अपि मय्यनवद्यात्मा द‍ृष्ट्वा किञ्चिज्जुगुप्सितम् । मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यम: ॥ २४ ॥

api mayy anavadyātmādṛṣṭvā kiñcij jugupsitammat-pāṇi-grahaṇe nūnaṁnāyāti hi kṛtodyamaḥ

Shloka 25

दुर्भगाया न मे धाता नानुकूलो महेश्वर: । देवी वा विमुखी गौरी रुद्राणी गिरिजा सती ॥ २५ ॥

durbhagāyā na me dhātānānukūlo maheśvaraḥdevī vā vimukhī gaurīrudrāṇī girijā satī

Shloka 26

एवं चिन्तयती बाला गोविन्दहृतमानसा । न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले ॥ २६ ॥

evaṁ cintayatī bālāgovinda-hṛta-mānasānyamīlayata kāla-jñānetre cāśru-kalākule

Shloka 27

एवं वध्वा: प्रतीक्षन्त्या गोविन्दागमनं नृप । वाम ऊरुर्भुजो नेत्रमस्फुरन् प्रियभाषिण: ॥ २७ ॥

evaṁ vadhvāḥ pratīkṣantyāgovindāgamanaṁ nṛpavāma ūrur bhujo netramasphuran priya-bhāṣiṇaḥ

Shloka 28

अथ कृष्णविनिर्दिष्ट: स एव द्विजसत्तम: । अन्त:पुरचरीं देवीं राजपुत्रीं ददर्श ह ॥ २८ ॥

atha kṛṣṇa-vinirdiṣṭaḥsa eva dvija-sattamaḥantaḥpura-carīṁ devīṁrāja-putrīm dadarśa ha

Shloka 29

सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती । आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता ॥ २९ ॥

sā taṁ prahṛṣṭa-vadanamavyagrātma-gatiṁ satīālakṣya lakṣaṇābhijñāsamapṛcchac chuci-smitā

Shloka 30

तस्या आवेदयत् प्राप्तं शशंस यदुनन्दनम् । उक्तं च सत्यवचनमात्मोपनयनं प्रति ॥ ३० ॥

tasyā āvedayat prāptaṁśaśaṁsa yadu-nandanamuktaṁ ca satya-vacanamātmopanayanaṁ prati

Shloka 31

तमागतं समाज्ञाय वैदर्भी हृष्टमानसा । न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ॥ ३१ ॥

tam āgataṁ samājñāyavaidarbhī hṛṣṭa-mānasāna paśyantī brāhmaṇāyapriyam anyan nanāma sā

Shloka 32

प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ । अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणै: ॥ ३२ ॥

prāptau śrutvā sva-duhiturudvāha-prekṣaṇotsukauabhyayāt tūrya-ghoṣeṇarāma-kṛṣṇau samarhaṇaiḥ

Shloka 33

मधुपर्कमुपानीय वासांसि विरजांसि स: । उपायनान्यभीष्टानि विधिवत् समपूजयत् ॥ ३३ ॥

madhu-parkam upānīyavāsāṁsi virajāṁsi saḥupāyanāny abhīṣṭānividhi-vat samapūjayat

Shloka 34

तयोर्निवेशनं श्रीमदुपाकल्प्य महामति: । ससैन्ययो: सानुगयोरातिथ्यं विदधे यथा ॥ ३४ ॥

tayor niveśanaṁ śrīmadupākalpya mahā-matiḥsa-sainyayoḥ sānugayorātithyaṁ vidadhe yathā

Shloka 35

एवं राज्ञां समेतानां यथावीर्यंयथावय: । यथाबलं यथावित्तं सर्वै: कामै: समर्हयत् ॥ ३५ ॥

evaṁ rājñāṁ sametānāṁyathā-vīryaṁ yathā-vayaḥyathā-balaṁ yathā-vittaṁsarvaiḥ kāmaiḥ samarhayat

Shloka 36

कृष्णमागतमाकर्ण्यविदर्भपुरवासिन: । आगत्य नेत्राञ्जलिभि: पपुस्तन्मुखपङ्कजम् ॥ ३६ ॥

kṛṣṇam āgatam ākarṇyavidarbha-pura-vāsinaḥāgatya netrāñjalibhiḥpapus tan-mukha-paṅkajam

Shloka 37

अस्यैव भार्या भवितुं रुक्‍मिण्यर्हतिनापरा । असावप्यनवद्यात्मा भैष्म्या: समुचित: पति: ॥ ३७ ॥

asyaiva bhāryā bhavituṁrukmiṇy arhati nāparāasāv apy anavadyātmābhaiṣmyāḥ samucitaḥ patiḥ

Shloka 38

किञ्चित्सुचरितं यन्नस्तेनतुष्टस्‍त्रिलोककृत् । अनुगृह्णातु गृह्णातु वैदर्भ्या: पाणिमच्युत: ॥३८ ॥

kiñcit su-caritaṁ yan nastena tuṣṭas tri-loka-kṛtanugṛhṇātu gṛhṇātuvaidarbhyāḥ pāṇim acyutaḥ

Shloka 39

एवं प्रेमकलाबद्धा वदन्ति स्मपुरौकस: । कन्या चान्त:पुरात् प्रागाद् भटैर्गुप्ताम्बिकालयम् ॥ ३९ ॥

evaṁ prema-kalā-baddhāvadanti sma puraukasaḥkanyā cāntaḥ-purāt prāgādbhaṭair guptāmbikālayam

Shloka 40-41

पद्‍भ्यां विनिर्ययौ द्रष्टुं भवान्या: पादपल्ल‍वम् । सा चानुध्यायती सम्यङ्‍मुकुन्दचरणाम्बुजम् ॥ ४० ॥ यतवाङ्‍मातृभि: सार्धं सखीभि: परिवारिता । गुप्ता राजभटै: शूरै: सन्नद्धैरुद्यतायुधै: । मृदङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे ॥ ४१ ॥

padbhyāṁ viniryayau draṣṭuṁbhavānyāḥ pāda-pallavamsā cānudhyāyatī samyaṅmukunda-caraṇāmbujam

Shloka 42-43

नानोपहारबलिभिर्वारमुख्या: सहस्रश: । स्रग्गन्धवस्‍त्राभरणैर्द्विजपत्न्‍य: स्वलङ्कृता: ॥ ४२ ॥ गायन्त्यश्च स्तुवन्तश्च गायका वाद्यवादका: । परिवार्य वधूं जग्मु: सूतमागधवन्दिन: ॥ ४३ ॥

nānopahāra balibhirvāramukhyāḥ sahasraśaḥsrag-gandha-vastrābharaṇairdvija-patnyaḥ sv-alaṅkṛtāḥ

Shloka 44

आसाद्य देवीसदनं धौतपादकराम्बुजा । उपस्पृश्य शुचि: शान्ता प्रविवेशाम्बिकान्तिकम् ॥ ४४ ॥

āsādya devī-sadanaṁdhauta-pāda-karāmbujāupaspṛśya śuciḥ śāntāpraviveśāmbikāntikam

Shloka 45

तां वै प्रवयसो बालां विधिज्ञा विप्रयोषित: । भवानीं वन्दयांचक्रुर्भवपत्नीं भवान्विताम् ॥ ४५ ॥

tāṁ vai pravayaso bālāṁvidhi-jñā vipra-yoṣitaḥbhavānīṁ vandayāṁ cakrurbhava-patnīṁ bhavānvitām

Shloka 46

नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम् । भूयात् पतिर्मे भगवान् कृष्णस्तदनुमोदताम् ॥ ४६ ॥

namasye tvāmbike ’bhīkṣṇaṁsva-santāna-yutāṁ śivāmbhūyāt patir me bhagavānkṛṣṇas tad anumodatām

Shloka 47-48

अद्भ‍िर्गन्धाक्षतैर्धूपैर्वास:स्रङ्‍माल्यभूषणै: । नानोपहारबलिभि: प्रदीपावलिभि: पृथक् ॥ ४७ ॥ विप्रस्‍त्रिय: पतिमतीस्तथा तै: समपूजयत् । लवणापूपताम्बूलकण्ठसूत्रफलेक्षुभि: ॥ ४८ ॥

adbhir gandhākṣatair dhūpairvāsaḥ-sraṅ-mālya bhūṣaṇaiḥnānopahāra-balibhiḥpradīpāvalibhiḥ pṛthak

Shloka 49

तस्यै स्‍त्रियस्ता: प्रददु: शेषां युयुजुराशिष: । ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधू: ॥ ४९ ॥

tasyai striyas tāḥ pradaduḥśeṣāṁ yuyujur āśiṣaḥtābhyo devyai namaś cakreśeṣāṁ ca jagṛhe vadhūḥ

Shloka 50

मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् । प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना ॥ ५० ॥

muni-vratam atha tyaktvāniścakrāmāmbikā-gṛhātpragṛhya pāṇinā bhṛtyāṁratna-mudropaśobhinā

Shloka 51-55

तां देवमायामिव धीरमोहिनींसुमध्यमां कुण्डलमण्डिताननाम् । श्यामां नितम्बार्पितरत्नमेखलांव्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् । शुचिस्मितां बिम्बफलाधरद्युति-शोणायमानद्विजकुन्दकुड्‍मलाम् ॥ ५१ ॥ पदा चलन्तीं कलहंसगामिनींसिञ्जत्कलानूपुरधामशोभिना । विलोक्य वीरा मुमुहु: समागतायशस्विनस्तत्कृतहृच्छयार्दिता: ॥ ५२ ॥ यां वीक्ष्य ते नृपतयस्तदुदारहास-व्रीदावलोकहृतचेतस उज्झितास्‍त्रा: । पेतु: क्षितौ गजरथाश्वगता विमूढायात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम् ॥ ५३ ॥ सैवं शनैश्चलयती चलपद्मकोशौप्राप्तिं तदा भगवत: प्रसमीक्षमाणा । उत्सार्य वामकरजैरलकानपाङ्गै:प्राप्तान् ह्रियैक्षत नृपान् दद‍ृशेऽच्युतं च ॥ ५४ ॥ तां राजकन्यां रथमारुरुक्षतींजहार कृष्णो द्विषतां समीक्षताम् ॥ ५५ ॥

tāṁ deva-māyām iva dhīra-mohinīṁsu-madhyamāṁ kuṇḍala-maṇḍitānanāmśyāmāṁ nitambārpita-ratna-mekhalāṁvyañjat-stanīṁ kuntala-śaṅkitekṣaṇām

Shloka 56

रथं समारोप्य सुपर्णलक्षणंराजन्यचक्रं परिभूय माधव: । ततो ययौ रामपुरोगम: शनै:श‍ृगालमध्यादिव भागहृद्धरि: ॥ ५६ ॥

rathaṁ samāropya suparṇa-lakṣaṇaṁrājanya-cakraṁ paribhūya mādhavaḥtato yayau rāma-purogamaḥ śanaiḥśṛgāla-madhyād iva bhāga-hṛd dhariḥ

Shloka 57

तं मानिन: स्वाभिभवं यश:क्षयंपरे जरासन्धमुखा न सेहिरे । अहो धिगस्मान् यश आत्तधन्वनांगोपैर्हृतं केशरिणां मृगैरिव ॥ ५७ ॥

taṁ māninaḥ svābhibhavaṁ yaśaḥ-kṣayaṁpare jarāsandha-mukhā na sehireaho dhig asmān yaśa ātta-dhanvanāṁgopair hṛtaṁ keśariṇāṁ mṛgair iva

← PrevNext →