← Canto 10

Canto 10, Chapter 6

Shloka 1

श्रीशुक उवाच नन्द: पथि वच: शौरेर्न मृषेति विचिन्तयन् । हरिं जगाम शरणमुत्पातागमशङ्कित: ॥ १ ॥

śrī-śuka uvācanandaḥ pathi vacaḥ śaurerna mṛṣeti vicintayanhariṁ jagāma śaraṇamutpātāgama-śaṅkitaḥ

Shloka 2

कंसेन प्रहिता घोरा पूतना बालघातिनी । शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २ ॥

kaṁsena prahitā ghorāpūtanā bāla-ghātinīśiśūṁś cacāra nighnantīpura-grāma-vrajādiṣu

Shloka 3

न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु । कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ॥ ३ ॥

na yatra śravaṇādīnirakṣo-ghnāni sva-karmasukurvanti sātvatāṁ bharturyātudhānyaś ca tatra hi

Shloka 4

सा खेचर्येकदोत्पत्य पूतना नन्दगोकुलम् । योषित्वा माययात्मानं प्राविशत् कामचारिणी ॥ ४ ॥

sā khe-cary ekadotpatyapūtanā nanda-gokulamyoṣitvā māyayātmānaṁprāviśat kāma-cāriṇī

Shloka 5-6

तां केशबन्धव्यतिषक्तमल्लिकांबृहन्नितम्बस्तनकृच्छ्रमध्यमाम् । सुवाससं कल्पितकर्णभूषण-त्विषोल्लसत्कुन्तलमण्डिताननाम् ॥ ५ ॥ वल्गुस्मितापाङ्गविसर्गवीक्षितै-र्मनो हरन्तीं वनितां व्रजौकसाम् । अमंसताम्भोजकरेण रूपिणींगोप्य: श्रियं द्रष्टुमिवागतां पतिम् ॥ ६ ॥

tāṁ keśa-bandha-vyatiṣakta-mallikāṁbṛhan-nitamba-stana-kṛcchra-madhyamāmsuvāsasaṁ kalpita-karṇa-bhūṣaṇa-tviṣollasat-kuntala-maṇḍitānanām

Shloka 7

बालग्रहस्तत्र विचिन्वती शिशून्यद‍ृच्छया नन्दगृहेऽसदन्तकम् । बालं प्रतिच्छन्ननिजोरुतेजसंददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७ ॥

bāla-grahas tatra vicinvatī śiśūnyadṛcchayā nanda-gṛhe ’sad-antakambālaṁ praticchanna-nijoru-tejasaṁdadarśa talpe ’gnim ivāhitaṁ bhasi

Shloka 8

विबुध्य तां बालकमारिकाग्रहंचराचरात्मा स निमीलितेक्षण: । अनन्तमारोपयदङ्कमन्तकंयथोरगं सुप्तमबुद्धिरज्जुधी: ॥ ८ ॥

vibudhya tāṁ bālaka-mārikā-grahaṁcarācarātmā sa nimīlitekṣaṇaḥanantam āropayad aṅkam antakaṁyathoragaṁ suptam abuddhi-rajju-dhīḥ

Shloka 9

तां तीक्ष्णचित्तामतिवामचेष्टितांवीक्ष्यान्तरा कोषपरिच्छदासिवत् । वरस्त्रियं तत्प्रभया च धर्षितेनिरीक्ष्यमाणे जननी ह्यतिष्ठताम् ॥ ९ ॥

tāṁ tīkṣṇa-cittām ativāma-ceṣṭitāṁvīkṣyāntarā koṣa-paricchadāsivatvara-striyaṁ tat-prabhayā ca dharṣitenirīkṣyamāṇe jananī hy atiṣṭhatām

Shloka 10

तस्मिन् स्तनं दुर्जरवीर्यमुल्बणंघोराङ्कमादाय शिशोर्ददावथ । गाढं कराभ्यां भगवान् प्रपीड्य तत्-प्राणै: समं रोषसमन्वितोऽपिबत् ॥ १० ॥

tasmin stanaṁ durjara-vīryam ulbaṇaṁghorāṅkam ādāya śiśor dadāv athagāḍhaṁ karābhyāṁ bhagavān prapīḍya tat-prāṇaiḥ samaṁ roṣa-samanvito ’pibat

Shloka 11

सा मुञ्च मुञ्चालमिति प्रभाषिणीनिष्पीड्यमानाखिलजीवमर्मणि । विवृत्य नेत्रे चरणौ भुजौ मुहु:प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११ ॥

sā muñca muñcālam iti prabhāṣiṇīniṣpīḍyamānākhila-jīva-marmaṇivivṛtya netre caraṇau bhujau muhuḥprasvinna-gātrā kṣipatī ruroda ha

Shloka 12

तस्या: स्वनेनातिगभीररंहसासाद्रिर्मही द्यौश्च चचाल सग्रहा । रसा दिशश्च प्रतिनेदिरे जना:पेतु: क्षितौ वज्रनिपातशङ्कया ॥ १२ ॥

tasyāḥ svanenātigabhīra-raṁhasāsādrir mahī dyauś ca cacāla sa-grahārasā diśaś ca pratinedire janāḥpetuḥ kṣitau vajra-nipāta-śaṅkayā

Shloka 13

निशाचरीत्थं व्यथितस्तना व्यसु-र्व्यादाय केशांश्चरणौ भुजावपि । प्रसार्य गोष्ठे निजरूपमास्थितावज्राहतो वृत्र इवापतन्नृप ॥ १३ ॥

niśā-carītthaṁ vyathita-stanā vyasurvyādāya keśāṁś caraṇau bhujāv apiprasārya goṣṭhe nija-rūpam āsthitāvajrāhato vṛtra ivāpatan nṛpa

Shloka 14

पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान् । चूर्णयामास राजेन्द्र महदासीत्तदद्भ‍ुतम् ॥ १४ ॥

patamāno ’pi tad-dehastri-gavyūty-antara-drumāncūrṇayām āsa rājendramahad āsīt tad adbhutam

Shloka 15-17

ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम् । गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १५ ॥ अन्धकूपगभीराक्षं पुलिनारोहभीषणम् । बद्धसेतुभुजोर्वङ्‍‍घ्रि शून्यतोयह्रदोदरम् ॥ १६ ॥ सन्तत्रसु: स्म तद्वीक्ष्य गोपा गोप्य: कलेवरम् । पूर्वं तु तन्नि:स्वनितभिन्नहृत्कर्णमस्तका: ॥ १७ ॥

īṣā-mātrogra-daṁṣṭrāsyaṁgiri-kandara-nāsikamgaṇḍa-śaila-stanaṁ raudraṁprakīrṇāruṇa-mūrdhajam

Shloka 18

बालं च तस्या उरसि क्रीडन्तमकुतोभयम् । गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमा: ॥ १८ ॥

bālaṁ ca tasyā urasikrīḍantam akutobhayamgopyas tūrṇaṁ samabhyetyajagṛhur jāta-sambhramāḥ

Shloka 19

यशोदारोहिणीभ्यां ता: समं बालस्य सर्वत: । रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभि: ॥ १९ ॥

yaśodā-rohiṇībhyāṁ tāḥsamaṁ bālasya sarvataḥrakṣāṁ vidadhire samyaggo-puccha-bhramaṇādibhiḥ

Shloka 20

गोमूत्रेण स्‍नापयित्वा पुनर्गोरजसार्भकम् । रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभि: ॥ २० ॥

go-mūtreṇa snāpayitvāpunar go-rajasārbhakamrakṣāṁ cakruś ca śakṛtādvādaśāṅgeṣu nāmabhiḥ

Shloka 21

गोप्य: संस्पृष्टसलिला अङ्गेषु करयो: पृथक् । न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २१ ॥

gopyaḥ saṁspṛṣṭa-salilāaṅgeṣu karayoḥ pṛthaknyasyātmany atha bālasyabīja-nyāsam akurvata

Shloka 22-23

अव्यादजोऽङ्‍‍घ्रि मणिमांस्तव जान्वथोरूयज्ञोऽच्युत: कटितटं जठरं हयास्य: । हृत्केशवस्त्वदुर ईश इनस्तु कण्ठंविष्णुर्भुजं मुखमुरुक्रम ईश्वर: कम् ॥ २२ ॥ चक्रय‍ग्रत: सहगदो हरिरस्तु पश्चात्त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च । कोणेषु शङ्ख उरुगाय उपर्युपेन्द्र-स्तार्क्ष्य: क्षितौ हलधर: पुरुष: समन्तात् ॥ २३ ॥

avyād ajo ’ṅghri maṇimāṁs tava jānv athorūyajño ’cyutaḥ kaṭi-taṭaṁ jaṭharaṁ hayāsyaḥhṛt keśavas tvad-ura īśa inas tu kaṇṭhaṁviṣṇur bhujaṁ mukham urukrama īśvaraḥ kam

Shloka 24

इन्द्रियाणि हृषीकेश: प्राणान् नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४ ॥

indriyāṇi hṛṣīkeśaḥprāṇān nārāyaṇo ’vatuśvetadvīpa-patiś cittaṁmano yogeśvaro ’vatu

Shloka 25-26

पृश्न‍िगर्भस्तु ते बुद्धिमात्मानं भगवान् पर: । क्रीडन्तं पातु गोविन्द: शयानं पातु माधव: ॥ २५ ॥ व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रिय: पति: । भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्कर: ॥ २६ ॥

pṛśnigarbhas tu te buddhimātmānaṁ bhagavān paraḥkrīḍantaṁ pātu govindaḥśayānaṁ pātu mādhavaḥ

Shloka 27-29

डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहा: । भूतप्रेतपिशाचाश्च यक्षरक्षोविनायका: ॥ २७ ॥ कोटरा रेवती ज्येष्ठा पूतना मातृकादय: । उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुह: ॥ २८ ॥ स्वप्नद‍ृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये । सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरव: ॥ २९ ॥

ḍākinyo yātudhānyaś cakuṣmāṇḍā ye ’rbhaka-grahāḥbhūta-preta-piśācāś cayakṣa-rakṣo-vināyakāḥ

Shloka 30

श्रीशुक उवाच इति प्रणयबद्धाभिर्गोपीभि: कृतरक्षणम् । पाययित्वा स्तनं माता सन्न्यवेशयदात्मजम् ॥ ३० ॥

śrī-śuka uvācaiti praṇaya-baddhābhirgopībhiḥ kṛta-rakṣaṇampāyayitvā stanaṁ mātāsannyaveśayad ātmajam

Shloka 31

तावन्नन्दादयो गोपा मथुराया व्रजं गता: । विलोक्य पूतनादेहं बभूवुरतिविस्मिता: ॥ ३१ ॥

tāvan nandādayo gopāmathurāyā vrajaṁ gatāḥvilokya pūtanā-dehaṁbabhūvur ativismitāḥ

Shloka 32

नूनं बतर्षि: सञ्जातो योगेशो वा समास स: । स एव द‍ृष्टो ह्युत्पातो यदाहानकदुन्दुभि: ॥ ३२ ॥

nūnaṁ batarṣiḥ sañjātoyogeśo vā samāsa saḥsa eva dṛṣṭo hy utpātoyad āhānakadundubhiḥ

Shloka 33

कलेवरं परशुभिश्छित्त्वा तत्ते व्रजौकस: । दूरे क्षिप्‍त्वावयवशो न्यदहन् काष्ठवेष्टितम् ॥ ३३ ॥

kalevaraṁ paraśubhiśchittvā tat te vrajaukasaḥdūre kṣiptvāvayavaśonyadahan kāṣṭha-veṣṭitam

Shloka 34

दह्यमानस्य देहस्य धूमश्चागुरुसौरभ: । उत्थित: कृष्णनिर्भुक्तसपद्याहतपाप्मन: ॥ ३४ ॥

dahyamānasya dehasyadhūmaś cāguru-saurabhaḥutthitaḥ kṛṣṇa-nirbhukta-sapady āhata-pāpmanaḥ

Shloka 35-36

पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् ॥ ३५ ॥ किं पुन: श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन् प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ ३६ ॥

pūtanā loka-bāla-ghnīrākṣasī rudhirāśanājighāṁsayāpi harayestanaṁ dattvāpa sad-gatim

Shloka 37-38

पद्‌भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितै: । अङ्गं यस्या: समाक्रम्य भगवानपितत् स्तनम् ॥ ३७ ॥ यातुधान्यपि सा स्वर्गमवाप जननीगतिम् । कृष्णभुक्तस्तनक्षीरा: किमु गावोऽनुमातर: ॥ ३८ ॥

padbhyāṁ bhakta-hṛdi-sthābhyāṁvandyābhyāṁ loka-vanditaiḥaṅgaṁ yasyāḥ samākramyabhagavān api tat-stanam

Shloka 39-40

पयांसि यासामपिबत् पुत्रस्‍नेहस्‍नुतान्यलम् । भगवान् देवकीपुत्र: कैवल्याद्यखिलप्रद: ॥ ३९ ॥ तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् । न पुन: कल्पते राजन् संसारोऽज्ञानसम्भव: ॥ ४० ॥

payāṁsi yāsām apibatputra-sneha-snutāny alambhagavān devakī-putraḥkaivalyādy-akhila-pradaḥ

Shloka 41

कटधूमस्य सौरभ्यमवघ्राय व्रजौकस: । किमिदं कुत एवेति वदन्तो व्रजमाययु: ॥ ४१ ॥

kaṭa-dhūmasya saurabhyamavaghrāya vrajaukasaḥkim idaṁ kuta evetivadanto vrajam āyayuḥ

Shloka 42

ते तत्र वर्णितं गोपै: पूतनागमनादिकम् । श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिता: ॥ ४२ ॥

te tatra varṇitaṁ gopaiḥpūtanāgamanādikamśrutvā tan-nidhanaṁ svastiśiśoś cāsan suvismitāḥ

Shloka 43

नन्द: स्वपुत्रमादाय प्रेत्यागतमुदारधी: । मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३ ॥

nandaḥ sva-putram ādāyapretyāgatam udāra-dhīḥmūrdhny upāghrāya paramāṁmudaṁ lebhe kurūdvaha

Shloka 44

य एतत् पूतनामोक्षं कृष्णस्यार्भकमद्भ‍ुतम् । श‍ृणुयाच्छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४४ ॥

ya etat pūtanā-mokṣaṁkṛṣṇasyārbhakam adbhutamśṛṇuyāc chraddhayā martyogovinde labhate ratim

← PrevNext →