← Canto 10

Canto 10, Chapter 62

Shloka 1

श्रीराजोवाचबाणस्य तनयामूषामुपयेमे यदूत्तम: । तत्र युद्धमभूद् घोरं हरिशङ्करयोर्महत् । एतत् सर्वं महायोगिन् समाख्यातुं त्वमर्हसि ॥ १ ॥

śrī-rājovācabāṇasya tanayām ūṣāmupayeme yadūttamaḥtatra yuddham abhūd ghoraṁhari-śaṅkarayor mahatetat sarvaṁ mahā-yoginsamākhyātuṁ tvam arhasi

Shloka 2

श्रीशुक उवाच बाण: पुत्रशतज्येष्ठो बलेरासीन्महात्मन: । येन वामनरूपाय हरयेऽदायि मेदिनी ॥तस्यौरस: सुतो बाण: शिवभक्तिरत: सदा । मान्यो वदान्यो धीमांश्च सत्यसन्धो द‍ृढव्रत: । शोणिताख्ये पुरे रम्ये स राज्यमकरोत् पुरा ॥ तस्य शम्भो: प्रासादेन किङ्करा इव तेऽमरा: । सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥ २ ॥

śrī-śuka uvācabāṇaḥ putra-śata-jyeṣṭhobaler āsīn mahātmanaḥyena vāmana-rūpāyaharaye ’dāyi medinī

Shloka 3

भगवान् सर्वभूतेश: शरण्यो भक्तवत्सल: । वरेण छन्दयामास स तं वव्रे पुराधिपम् ॥ ३ ॥

bhagavān sarva-bhūteśaḥśaraṇyo bhakta-vatsalaḥvareṇa chandayām āsasa taṁ vavre purādhipam

Shloka 4

स एकदाह गिरिशं पार्श्वस्थं वीर्यदुर्मद: । किरीटेनार्कवर्णेन संस्पृशंस्तत्पदाम्बुजम् ॥ ४ ॥

sa ekadāha giriśaṁpārśva-sthaṁ vīrya-durmadaḥkirīṭenārka-varṇenasaṁspṛśaṁs tat-padāmbujam

Shloka 5

नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् । पुंसामपूर्णकामानां कामपूरामराङ्‍‍घ्रिपम् ॥ ५ ॥

namasye tvāṁ mahā-devalokānāṁ gurum īśvarampuṁsām apūrṇa-kāmānāṁkāma-pūrāmarāṅghripam

Shloka 6

दो:सहस्रं त्वया दत्तं परं भाराय मेऽभवत् । त्रिलोक्यां प्रतियोद्धारं न लभे त्वद‍ृते समम् ॥ ६ ॥

doḥ-sahasraṁ tvayā dattaṁparaṁ bhārāya me ’bhavattri-lokyāṁ pratiyoddhāraṁna labhe tvad ṛte samam

Shloka 7

कण्डूत्या निभृतैर्दोर्भिर्युयुत्सुर्दिग्गजानहम् । आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवु: ॥ ७ ॥

kaṇḍūtyā nibhṛtair dorbhiryuyutsur dig-gajān ahamādyāyāṁ cūrṇayann adrīnbhītās te ’pi pradudruvuḥ

Shloka 8

तच्छ्रुत्वा भगवान् क्रुद्ध: केतुस्ते भज्यते यदा । त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते ॥ ८ ॥

tac chrutvā bhagavān kruddhaḥketus te bhajyate yadātvad-darpa-ghnaṁ bhaven mūḍhasaṁyugaṁ mat-samena te

Shloka 9

इत्युक्त: कुमतिर्हृष्ट: स्वगृहं प्राविशन्नृप । प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधी: ॥ ९ ॥

ity uktaḥ kumatir hṛṣṭaḥsva-gṛhaṁ prāviśan nṛpapratīkṣan giriśādeśaṁsva-vīrya-naśanam kudhīḥ

Shloka 10

तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्यालभत कान्तेन प्रागद‍ृष्टश्रुतेन सा ॥ १० ॥

tasyoṣā nāma duhitāsvapne prādyumninā ratimkanyālabhata kāntenaprāg adṛṣṭa-śrutena sā

Shloka 11

सा तत्र तमपश्यन्ती क्व‍ासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ ११ ॥

sā tatra tam apaśyantīkvāsi kānteti vādinīsakhīnāṁ madhya uttasthauvihvalā vrīḍitā bhṛśam

Shloka 12

बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता । सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता ॥ १२ ॥

bāṇasya mantrī kumbhāṇḍaścitralekhā ca tat-sutāsakhy apṛcchat sakhīm ūṣāṁkautūhala-samanvitā

Shloka 13

कं त्वं मृगयसे सुभ्रु कीद‍ृशस्ते मनोरथ: । हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये ॥ १३ ॥

kaṁ tvaṁ mṛgayase su-bhrukīdṛśas te manorathaḥhasta-grāhaṁ na te ’dyāpirāja-putry upalakṣaye

Shloka 14

द‍ृष्ट: कश्चिन्नर: स्वप्ने श्याम: कमललोचन: । पीतवासा बृहद्ब‍ाहुर्योषितां हृदयंगम: ॥ १४ ॥

dṛṣṭaḥ kaścin naraḥ svapneśyāmaḥ kamala-locanaḥpīta-vāsā bṛhad-bāhuryoṣitāṁ hṛdayaṁ-gamaḥ

Shloka 15

तमहं मृगये कान्तं पाययित्वाधरं मधु । क्व‍ापि यात: स्पृहयतीं क्षिप्‍त्‍वा मां वृजिनार्णवे ॥ १५ ॥

tam ahaṁ mṛgaye kāntaṁpāyayitvādharaṁ madhukvāpi yātaḥ spṛhayatīṁkṣiptvā māṁ vṛjinārṇave

Shloka 16

चित्रलेखोवाचव्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते । तमानेष्ये नरं यस्ते मनोहर्ता तमादिश ॥ १६ ॥

citralekhovācavyasanaṁ te ’pakarṣāmitri-lokyāṁ yadi bhāvyatetam āneṣye varaṁ yas temano-hartā tam ādiśa

Shloka 17

इत्युक्त्वा देवगन्धर्वसिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥ १७ ॥

ity uktvā deva-gandharvasiddha-cāraṇa-pannagāndaitya-vidyādharān yakṣānmanujāṁś ca yathālikhat

Shloka 18-19

मनुजेषु च सा वृष्णीन् शूरमानकदुन्दुभिम् । व्यलिखद् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ १८ ॥ अनिरुद्धं विलिखितं वीक्ष्योषावाङ्‍मुखी ह्रिया । सोऽसावसाविति प्राह स्मयमाना महीपते ॥ १९ ॥

manujeṣu ca sā vṛṣnīnśūram ānakadundubhimvyalikhad rāma-kṛṣṇau capradyumnaṁ vīkṣya lajjitā

Shloka 20

चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी । ययौ विहायसा राजन् द्वारकां कृष्णपालिताम् ॥ २० ॥

citralekhā tam ājñāyapautraṁ kṛṣṇasya yoginīyayau vihāyasā rājandvārakāṁ kṛṣṇa-pālitām

Shloka 21

तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता । गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥ २१ ॥

tatra suptaṁ su-paryaṅkeprādyumniṁ yogam āsthitāgṛhītvā śoṇita-puraṁsakhyai priyam adarśayat

Shloka 22

सा च तं सुन्दरवरं विलोक्य मुदितानना । दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ २२ ॥

sā ca taṁ sundara-varaṁvilokya muditānanāduṣprekṣye sva-gṛhe pumbhīreme prādyumninā samam

Shloka 23-24

परार्ध्यवास:स्रग्गन्धधूपदीपासनादिभि: । पानभोजनभक्ष्यैश्च वाक्यै: शुश्रूषणार्चित: ॥ २३ ॥ गूढ: कन्यापुरे शश्वत्प्रवृद्धस्‍नेहया तया । नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रिय: ॥ २४ ॥

parārdhya-vāsaḥ-srag-gandha-dhūpa-dīpāsanādibhiḥpāna-bhojana-bhakṣyaiś cavākyaiḥ śuśrūṣaṇārcitaḥ

Shloka 25-26

तां तथा यदुवीरेण भुज्यमानां हतव्रताम् । हेतुभिर्लक्षयां चक्रुरापृईतां दुरवच्छदै: ॥ २५ ॥ भटा आवेदयां चक्रू राजंस्ते दुहितुर्वयम् । विचेष्टितं लक्षयाम कन्याया: कुलदूषणम् ॥ २६ ॥

tāṁ tathā yadu-vīreṇabhujyamānāṁ hata-vratāmhetubhir lakṣayāṁ cakrurāpṛītāṁ duravacchadaiḥ

Shloka 27

अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो । कन्याया दूषणं पुम्भिर्दुष्प्रेक्ष्याया न विद्महे ॥ २७ ॥

anapāyibhir asmābhirguptāyāś ca gṛhe prabhokanyāyā dūṣaṇaṁ pumbhirduṣprekṣyāyā na vidmahe

Shloka 28

तत: प्रव्यथितो बाणो दुहितु: श्रुतदूषण: । त्वरित: कन्यकागारं प्राप्तोऽद्राक्षीद् यदूद्वहम् ॥ २८ ॥

tataḥ pravyathito bāṇoduhituḥ śruta-dūṣaṇaḥtvaritaḥ kanyakāgāraṁprāpto ’drākṣīd yadūdvaham

Shloka 29-30

कामात्मजं तं भुवनैकसुन्दरंश्यामं पिशङ्गाम्बरमम्बुजेक्षणम् । बृहद्भ‍ुजं कुण्डलकुन्तलत्विषास्मितावलोकेन च मण्डिताननम् ॥ २९ ॥ दीव्यन्तमक्षै: प्रिययाभिनृम्णयातदङ्गसङ्गस्तनकुङ्कुमस्रजम् । बाह्वोर्दधानं मधुमल्लिकाश्रितांतस्याग्र आसीनमवेक्ष्य विस्मित: ॥ ३० ॥

kāmātmajaṁ taṁ bhuvanaika-sundaraṁśyāmaṁ piśaṅgāmbaram ambujekṣaṇambṛhad-bhujaṁ kuṇḍala-kuntala-tviṣāsmitāvalokena ca maṇḍitānanam

Shloka 31

स तं प्रविष्टं वृतमाततायिभि-र्भटैरनीकैरवलोक्य माधव: । उद्यम्य मौर्वं परिघं व्यवस्थितोयथान्तको दण्डधरो जिघांसया ॥ ३१ ॥

sa taṁ praviṣṭaṁ vṛtam ātatāyibhirbhaṭair anīkair avalokya mādhavaḥudyamya maurvaṁ parighaṁ vyavasthitoyathāntako daṇḍa-dharo jighāṁsayā

Shloka 32

जिघृक्षया तान् परित: प्रसर्पत:शुनो यथा शूकरयूथपोऽहनत् । ते हन्यमाना भवनाद् विनिर्गतानिर्भिन्नमूर्धोरुभुजा: प्रदुद्रुवु: ॥ ३२ ॥

jighṛkṣayā tān paritaḥ prasarpataḥśuno yathā śūkara-yūthapo ’hanatte hanyamānā bhavanād vinirgatānirbhinna-mūrdhoru-bhujāḥ pradudruvuḥ

Shloka 33

तं नागपाशैर्बलिनन्दनो बलीघ्नन्तं स्वसैन्यं कुपितो बबन्ध ह । ऊषा भृशं शोकविषादविह्वलाबद्धं निशम्याश्रुकलाक्ष्यरौत्सीत् ॥ ३३ ॥

taṁ nāga-pāśair bali-nandano balīghnantaṁ sva-sainyaṁ kupito babandha haūṣā bhṛśaṁ śoka-viṣāda-vihvalābaddhaṁ niśamyāśru-kalākṣy arautsīt

← PrevNext →