Canto 10, Chapter 64
श्रीबादरायणिरुवाचएकदोपवनं राजन् जग्मुर्यदुकुमारका: । विहर्तुं साम्बप्रद्युम्नचारुभानुगदादय: ॥ १ ॥
śrī-bādarāyaṇir uvācaekadopavanaṁ rājanjagmur yadu-kumārakāḥvihartuṁ sāmba-pradyumnacāru-bhānu-gadādayaḥ
क्रीडित्वा सुचिरं तत्र विचिन्वन्त: पिपासिता: । जलं निरुदके कूपे ददृशु: सत्त्वमद्भुतम् ॥ २ ॥
krīḍitvā su-ciraṁ tatravicinvantaḥ pipāsitāḥjalaṁ nirudake kūpedadṛśuḥ sattvam adbhutam
कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसा: । तस्य चोद्धरणे यत्नं चक्रुस्ते कृपयान्विता: ॥ ३ ॥
kṛkalāsaṁ giri-nibhaṁvīkṣya vismita-mānasāḥtasya coddharaṇe yatnaṁcakrus te kṛpayānvitāḥ
चर्मजैस्तान्तवै: पाशैर्बद्ध्वा पतितमर्भका: । नाशक्नुरन् समुद्धर्तुं कृष्णायाचख्युरुत्सुका: ॥ ४ ॥
carma-jais tāntavaiḥ pāśairbaddhvā patitam arbhakāḥnāśaknuran samuddhartuṁkṛṣṇāyācakhyur utsukāḥ
तत्रागत्यारविन्दाक्षो भगवान् विश्वभावन: । वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥ ५ ॥
tatrāgatyāravindākṣobhagavān viśva-bhāvanaḥvīkṣyojjahāra vāmenataṁ kareṇa sa līlayā
स उत्तम:श्लोककराभिमृष्टोविहाय सद्य: कृकलासरूपम् । सन्तप्तचामीकरचारुवर्ण:स्वर्ग्यद्भुतालङ्करणाम्बरस्रक् ॥ ६ ॥
sa uttamaḥ-śloka-karābhimṛṣṭovihāya sadyaḥ kṛkalāsa-rūpamsantapta-cāmīkara-cāru-varṇaḥsvargy adbhutālaṅkaraṇāmbara-srak
पप्रच्छ विद्वानपि तन्निदानंजनेषु विख्यापयितुं मुकुन्द: । कस्त्वं महाभाग वरेण्यरूपोदेवोत्तमं त्वां गणयामि नूनम् ॥ ७ ॥
papraccha vidvān api tan-nidānaṁjaneṣu vikhyāpayituṁ mukundaḥkas tvaṁ mahā-bhāga vareṇya-rūpodevottamaṁ tvāṁ gaṇayāmi nūnam
सम्प्रापितोऽस्यतदर्ह: सुभद्र । आत्मानमाख्याहि विवित्सतां नोयन्मन्यसे न: क्षममत्र वक्तुम् ॥ ८ ॥
daśām imāṁ vā katamena karmaṇāsamprāpito ’sy atad-arhaḥ su-bhadraātmānam ākhyāhi vivitsatāṁ noyan manyase naḥ kṣamam atra vaktum
श्रीशुक उवाच इति स्म राजा सम्पृष्ट: कृष्णेनानन्तमूर्तिना । माधवं प्रणिपत्याह किरीटेनार्कवर्चसा ॥ ९ ॥
śrī-śuka uvācaiti sma rājā sampṛṣṭaḥkṛṣṇenānanta-mūrtināmādhavaṁ praṇipatyāhakirīṭenārka-varcasā
नृग उवाच नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनय: प्रभो । दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् ॥ १० ॥
nṛga uvācanṛgo nāma narendro ’hamikṣvāku-tanayaḥ prabhodāniṣv ākhyāyamāneṣuyadi te karṇam aspṛśam
किं नु तेऽविदितं नाथ सर्वभूतात्मसाक्षिण: । कालेनाव्याहतदृशो वक्ष्येऽथापि तवाज्ञया ॥ ११ ॥
kiṁ nu te ’viditaṁ nāthasarva-bhūtātma-sākṣiṇaḥkālenāvyāhata-dṛśovakṣye ’thāpi tavājñayā
यावत्य: सिकता भूमेर्यावत्यो दिवि तारका: । यावत्यो वर्षधाराश्च तावतीरददं स्म गा: ॥ १२ ॥
yāvatyaḥ sikatā bhūmeryāvatyo divi tārakāḥyāvatyo varṣa-dhārāś catāvatīr adadaṁ sma gāḥ
पयस्विनीस्तरुणी: शीलरूप-गुणोपपन्ना: कपिला हेमशृङ्गी: । न्यायार्जिता रूप्यखुरा: सवत्सादुकूलमालाभरणा ददावहम् ॥ १३ ॥
payasvinīs taruṇīḥ śīla-rūpa-guṇopapannāḥ kapilā hema-sṛṅgīḥnyāyārjitā rūpya-khurāḥ sa-vatsādukūla-mālābharaṇā dadāv aham
स्वलङ्कृतेभ्यो गुणशीलवद्भ्य:सीदत्कुटुम्बेभ्य ऋतव्रतेभ्य: । तप:श्रुतब्रह्मवदान्यसद्भ्य:प्रादां युवभ्यो द्विजपुङ्गवेभ्य: ॥ १४ ॥ गोभूहिरण्यायतनाश्वहस्तिन:कन्या: सदासीस्तिलरूप्यशय्या: । वासांसि रत्नानि परिच्छदान् रथा-निष्टं च यज्ञैश्चरितं च पूर्तम् ॥ १५ ॥
sv-alaṅkṛtebhyo guṇa-śīlavadbhyaḥsīdat-kuṭumbebhya ṛta-vratebhyaḥtapaḥ-śruta-brahma-vadānya-sadbhyaḥprādāṁ yuvabhyo dvija-puṅgavebhyaḥ
कस्यचिद् द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने । सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये ॥ १६ ॥
kasyacid dvija-mukhyasyabhraṣṭā gaur mama go-dhanesampṛktāviduṣā sā camayā dattā dvijātaye
तां नीयमानां तत्स्वामी दृष्ट्वोवाच ममेति तम् । ममेति परिग्राह्याह नृगो मे दत्तवानिति ॥ १७ ॥
tāṁ nīyamānāṁ tat-svāmīdṛṣṭrovāca mameti tammameti parigrāhy āhanṛgo me dattavān iti
विप्रौ विवदमानौ मामूचतु: स्वार्थसाधकौ । भवान् दातापहर्तेति तच्छ्रुत्वा मेऽभवद् भ्रम: ॥ १८ ॥
viprau vivadamānau māmūcatuḥ svārtha-sādhakaubhavān dātāpahartetitac chrutvā me ’bhavad bhramaḥ
अनुनीतावुभौ विप्रौ धर्मकृच्छ्रगतेन वै । गवां लक्षं प्रकृष्टानां दास्याम्येषा प्रदीयताम् ॥ १९ ॥ भवन्तावनुगृह्णीतां किङ्करस्याविजानत: । समुद्धरतं मां कृच्छ्रात् पतन्तं निरयेऽशुचौ ॥ २० ॥
anunītāv ubhau vipraudharma-kṛcchra-gatena vaigavāṁ lakṣaṁ prakṛṣṭānāṁdāsyāmy eṣā pradīyatām
नाहं प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत् । नान्यद् गवामप्ययुतमिच्छामीत्यपरो ययौ ॥ २१ ॥
nāhaṁ pratīcche vai rājannity uktvā svāmy apākramatnānyad gavām apy ayutamicchāmīty aparo yayau
एतस्मिन्नन्तरे यामैर्दूतैर्नीतो यमक्षयम् । यमेन पृष्टस्तत्राहं देवदेव जगत्पते ॥ २२ ॥
etasminn antare yāmairdūtair nīto yama-kṣayamyamena pṛṣṭas tatrāhaṁdeva-deva jagat-pate
पूर्वं त्वमशुभं भुङ्क्ष उताहो नृपते शुभम् । नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वत: ॥ २३ ॥
pūrvaṁ tvam aśubhaṁ bhuṅkṣautāho nṛpate śubhamnāntaṁ dānasya dharmasyapaśye lokasya bhāsvataḥ
पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति स: । तावदद्राक्षमात्मानं कृकलासं पतन् प्रभो ॥ २४ ॥
pūrvaṁ devāśubhaṁ bhuñjaiti prāha pateti saḥtāvad adrākṣam ātmānaṁkṛkalāsaṁ patan prabho
ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव । स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिन: ॥ २५ ॥
brahmaṇyasya vadānyasyatava dāsasya keśavasmṛtir nādyāpi vidhvastābhavat-sandarśanārthinaḥ
स त्वं कथं मम विभोऽक्षिपथ: परात्मायोगेश्वरै: श्रुतिदृशामलहृद्विभाव्य: । साक्षादधोक्षज उरुव्यसनान्धबुद्धे:स्यान्मेऽनुदृश्य इह यस्य भवापवर्ग: ॥ २६ ॥
sa tvaṁ kathaṁ mama vibho ’kṣi-pathaḥ parātmāyogeśvaraḥ śruti-dṛśāmala-hṛd-vibhāvyaḥsākṣād adhokṣaja uru-vyasanāndha-buddheḥsyān me ’nudṛśya iha yasya bhavāpavargaḥ
देवदेव जगन्नाथ गोविन्द पुरुषोत्तम । नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ २७ ॥ अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो । यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् ॥ २८ ॥
deva-deva jagan-nāthagovinda puruṣottamanārāyaṇa hṛṣīkeśapuṇya-ślokācyutāvyaya
नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये । कृष्णाय वासुदेवाय योगानां पतये नम: ॥ २९ ॥
namas te sarva-bhāvāyabrahmaṇe ’nanta-śaktayekṛṣṇāya vāsudevāyayogānāṁ pataye namaḥ
इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना । अनुज्ञातो विमानाग्र्यमारुहत् पश्यतां नृणाम् ॥ ३० ॥
ity uktvā taṁ parikramyapādau spṛṣṭvā sva-maulināanujñāto vimānāgryamāruhat paśyatāṁ nṛṇām
कृष्ण: परिजनं प्राह भगवान् देवकीसुत: । ब्रह्मण्यदेवो धर्मात्मा राजन्याननुशिक्षयन् ॥ ३१ ॥
kṛṣṇaḥ parijanaṁ prāhabhagavān devakī-sutaḥbrahmaṇya-devo dharmātmārājanyān anuśikṣayan
दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनागपि । तेजीयसोऽपि किमुत राज्ञां ईश्वरमानिनाम् ॥ ३२ ॥
durjaraṁ bata brahma-svaṁbhuktam agner manāg apitejīyaso ’pi kim utarājñāṁ īśvara-māninām
नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया । ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि ॥ ३३ ॥
nāhaṁ hālāhalaṁ manyeviṣaṁ yasya pratikriyābrahma-svaṁ hi viṣaṁ proktaṁnāsya pratividhir bhuvi
हिनस्ति विषमत्तारं वह्निरद्भि: प्रशाम्यति । कुलं समूलं दहति ब्रह्मस्वारणिपावक: ॥ ३४ ॥
hinasti viṣam attāraṁvahnir adbhiḥ praśāmyatikulaṁ sa-mūlaṁ dahatibrahma-svāraṇi-pāvakaḥ
ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् । प्रसह्य तु बलाद् भुक्तं दश पूर्वान् दशापरान् ॥ ३५ ॥
brahma-svaṁ duranujñātaṁbhuktaṁ hanti tri-pūruṣamprasahya tu balād bhuktaṁdaśa pūrvān daśāparān
राजानो राजलक्ष्म्यान्धा नात्मपातं विचक्षते । निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशा: ॥ ३६ ॥
rājāno rāja-lakṣmyāndhānātma-pātaṁ vicakṣatenirayaṁ ye ’bhimanyantebrahma-svaṁ sādhu bāliśāḥ
गृह्णन्ति यावत: पांशून् क्रन्दतामश्रुबिन्दव: । विप्राणां हृतवृत्तीनां वदान्यानां कुटुम्बिनाम् ॥ ३७ ॥ राजानो राजकुल्याश्च तावतोऽब्दान्निरङ्कुशा: । कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिण: ॥ ३८ ॥
gṛhṇanti yāvataḥ pāṁśūnkrandatām aśru-bindavaḥviprāṇāṁ hṛta-vṛttīnāmvadānyānāṁ kuṭumbinām
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच्च य: । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमि: ॥ ३९ ॥
sva-dattāṁ para-dattāṁ vābrahma-vṛttiṁ harec ca yaḥṣaṣṭi-varṣa-sahasrāṇiviṣṭhāyāṁ jāyate kṛmiḥ
न मे ब्रह्मधनं भूयाद् यद् गृध्वाल्पायुषो नरा: । पराजिताश्च्युता राज्याद् भवन्त्युद्वेजिनोऽहय: ॥ ४० ॥
na me brahma-dhanaṁ bhūyādyad gṛdhvālpāyuṣo narāḥparājitāś cyutā rājyādbhavanty udvejino ’hayaḥ
विप्रं कृतागसमपि नैव द्रुह्यत मामका: । घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यश: ॥ ४१ ॥
vipraṁ kṛtāgasam apinaiva druhyata māmakāḥghnantaṁ bahu śapantaṁ vānamas-kuruta nityaśaḥ
यथाहं प्रणमे विप्राननुकालं समाहित: । तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् ॥ ४२ ॥
yathāhaṁ praṇame viprānanukālaṁ samāhitaḥtathā namata yūyaṁ cayo ’nyathā me sa daṇḍa-bhāk
ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यध: । अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव ॥ ४३ ॥
brāhmaṇārtho hy apahṛtohartāraṁ pātayaty adhaḥajānantam api hy enaṁnṛgaṁ brāhmaṇa-gaur iva
एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकस: । पावन: सर्वलोकानां विवेश निजमन्दिरम् ॥ ४४ ॥
evaṁ viśrāvya bhagavānmukundo dvārakaukasaḥpāvanaḥ sarva-lokānāṁviveśa nija-mandiram