← Canto 10

Canto 10, Chapter 65

Shloka 1

श्रीशुक उवाच बलभद्र: कुरुश्रेष्ठ भगवान् रथमास्थित: । सुहृद्दिद‍ृक्षुरुत्कण्ठ: प्रययौ नन्दगोकुलम् ॥ १ ॥

śrī-śuka uvācabalabhadraḥ kuru-śreṣṭhabhagavān ratham āsthitaḥsuhṛd-didṛkṣur utkaṇṭhaḥprayayau nanda-gokulam

Shloka 2

परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च । रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दित: ॥ २ ॥

pariṣvaktaś cirotkaṇṭhairgopair gopībhir eva carāmo ’bhivādya pitarāvāśīrbhir abhinanditaḥ

Shloka 3

चिरं न: पाहि दाशार्ह सानुजो जगदीश्वर: । इत्यारोप्याङ्कमालिङ्‍ग्य नेत्रै: सिषिचतुर्जलै: ॥ ३ ॥

ciraṁ naḥ pāhi dāśārhasānujo jagad-īśvaraḥity āropyāṅkam āliṅgyanetraiḥ siṣicatur jalaiḥ

Shloka 4-6

गोपवृद्धांश्च विधिवद् यविष्ठैरभिवन्दित: । यथावयो यथासख्यं यथासम्बन्धमात्मन: ॥ ४ ॥ समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभि: । विश्रान्तं सुखमासीनं पप्रच्छु: पर्युपागता: ॥ ५ ॥ पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा । कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधस: ॥ ६ ॥

gopa-vṛddhāṁś ca vidhi-vadyaviṣṭhair abhivanditaḥyathā-vayo yathā-sakhyaṁyathā-sambandham ātmanaḥ

Shloka 7

कच्चिन्नो बान्धवा राम सर्वे कुशलमासते । कच्चित् स्मरथ नो राम यूयं दारसुतान्विता: ॥ ७ ॥

kaccin no bāndhavā rāmasarve kuśalam āsatekaccit smaratha no rāmayūyaṁ dāra-sutānvitāḥ

Shloka 8

दिष्‍ट्या कंसो हत: पापो दिष्‍ट्या मुक्ता: सुहृज्जना: । निहत्य निर्जित्य रिपून् दिष्‍ट्या दुर्गं समाश्रिता: ॥ ८ ॥

diṣṭyā kaṁso hataḥ pāpodiṣṭyā muktāḥ suhṛj-janāḥnihatya nirjitya ripūndiṣṭyā durgaṁ samāśrītāḥ

Shloka 9

गोप्यो हसन्त्य: पप्रच्छू रामसन्दर्शनाद‍ृता: । कच्चिदास्ते सुखं कृष्ण: पुरस्‍त्रीजनवल्ल‍भ: ॥ ९ ॥

gopyo hasantyaḥ papracchūrāma-sandarśanādṛtāḥkaccid āste sukhaṁ kṛṣṇaḥpura-strī-jana-vallabhaḥ

Shloka 10

कच्चित् स्मरति वा बन्धून् पितरं मातरं च स: । अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति । अपि वा स्मरतेऽस्माकमनुसेवां महाभुज: ॥ १० ॥

kaccit smarati vā bandhūnpitaraṁ mātaraṁ ca saḥapy asau mātaraṁ draṣṭuṁsakṛd apy āgamiṣyatiapi vā smarate ’smākamanusevāṁ mahā-bhujaḥ

Shloka 11-12

मातरं पितरं भ्रातृन् पतीन् पुत्रान् स्वसृनपि । यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ ११ ॥ ता न: सद्य: परित्यज्य गत: सञ्छिन्नसौहृद: । कथं नु ताद‍ृशं स्‍त्रीभिर्न श्रद्धीयेत भाषितम् ॥ १२ ॥

mātaraṁ pitaraṁ bhrātṝnpatīn putrān svasṝn apiyad-arthe jahima dāśārhadustyajān sva-janān prabho

Shloka 13

कथं नु गृह्णन्त्यनवस्थितात्मनोवच: कृतघ्नस्य बुधा: पुरस्‍त्रिय: । गृह्णन्ति वै चित्रकथस्य सुन्दर-स्मितावलोकोच्छ्वसितस्मरातुरा: ॥ १३ ॥

kathaṁ nu gṛhṇanty anavasthitātmanovacaḥ kṛta-ghnasya budhāḥ pura-striyaḥgṛhṇanti vai citra-kathasya sundara-smitāvalokocchvasita-smarāturāḥ

Shloka 14

किं नस्तत्कथया गोप्य: कथा: कथयतापरा: । यात्यस्माभिर्विना कालो यदि तस्य तथैव न: ॥ १४ ॥

kiṁ nas tat-kathayā gopyaḥkathāḥ kathayatāparāḥyāty asmābhir vinā kāloyadi tasya tathaiva naḥ

Shloka 15

इति प्रहसितं शौरेर्जल्पितं चारु वीक्षितम् । गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदु: स्‍त्रिय: ॥ १५ ॥

iti prahasitaṁ śaurerjalpitaṁ cāru-vīkṣitamgatiṁ prema-pariṣvaṅgaṁsmarantyo ruruduḥ striyaḥ

Shloka 16

सङ्कर्षणस्ता: कृष्णस्य सन्देशैर्हृदयंगमै: । सान्‍त्‍वयामास भगवान् नानानुनयकोविद: ॥ १६ ॥

saṅkarṣaṇas tāḥ kṛṣṇasyasandeśair hṛdayaṁ-gamaiḥsāntvayām āsa bhagavānnānānunaya-kovidaḥ

Shloka 17

द्वौ मासौ तत्र चावात्सीन्मधुं माधवमेव च । राम: क्षपासु भगवान् गोपीनां रतिमावहन् ॥ १७ ॥

dvau māsau tatra cāvātsīnmadhuṁ mādhavaṁ eva carāmaḥ kṣapāsu bhagavāngopīnāṁ ratim āvahan

Shloka 18

पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना । यमुनोपवने रेमे सेविते स्‍त्रीगणैर्वृत: ॥ १८ ॥

pūrṇa-candra-kalā-mṛṣṭekaumudī-gandha-vāyunāyamunopavane remesevite strī-gaṇair vṛtaḥ

Shloka 19

वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् । पतन्ती तद् वनं सर्वं स्वगन्धेनाध्यवासयत् ॥ १९ ॥

varuṇa-preṣitā devīvāruṇī vṛkṣa-koṭarātpatantī tad vanaṁ sarvaṁsva-gandhenādhyavāsayat

Shloka 20

तं गन्धं मधुधाराया वायुनोपहृतं बल: । आघ्रायोपगतस्तत्र ललनाभि: समं पपौ ॥ २० ॥

taṁ gandhaṁ madhu-dhārāyāvāyunopahṛtaṁ balaḥāghrāyopagatas tatralalanābhiḥ samaṁ papau

Shloka 21

उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले । रेमे करेणुयूथेशो माहेन्द्र इव वारण: ॥ २१ ॥

upagīyamāno gandharvairvanitā-śobhi-maṇḍalereme kareṇu-yūtheśomāhendra iva vāraṇaḥ

Shloka 22

नेदुर्दुन्दुभयो व्योम्नि ववृषु: कुसुमैर्मुदा । गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा ॥ २२ ॥

nedur dundubhayo vyomnivavṛṣuḥ kusumair mudāgandharvā munayo rāmaṁtad-vīryair īḍire tadā

Shloka 23

उपगीयमानचरितो वनिताभिर्हलायुध: । वनेषु व्यचरत् क्षीवो मदविह्वललोचन: ॥ २३ ॥

upagīyamāna-caritovanitābhir halāyudhavaneṣu vyacarat kṣīvomada-vihvala-locanaḥ

Shloka 24-25

स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया । बिभ्रत् स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् । स आजुहाव यमुनां जलक्रीडार्थमीश्वर: ॥ २४ ॥ निजं वाक्यमनाद‍ृत्य मत्त इत्यापगां बल: । अनागतां हलाग्रेण कुपितो विचकर्ष ह ॥ २५ ॥

sragvy eka-kuṇḍalo mattovaijayantyā ca mālayābibhrat smita-mukhāmbhojaṁsveda-prāleya-bhūṣitam

Shloka 26

पापे त्वं मामवज्ञाय यन्नायासि मयाहुता । नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ २६ ॥

pāpe tvaṁ mām avajñāyayan nāyāsi mayāhutāneṣye tvāṁ lāṅgalāgreṇaśatadhā kāma-cāriṇīm

Shloka 27

एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् । उवाच चकिता वाचं पतिता पादयोर्नृप ॥ २७ ॥

evaṁ nirbhartsitā bhītāyamunā yadu-nandanamuvāca cakitā vācaṁpatitā pādayor nṛpa

Shloka 28

राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन विधृता जगती जगत: पते ॥ २८ ॥

rāma rāma mahā-bāhona jāne tava vikramamyasyaikāṁśena vidhṛtājagatī jagataḥ pate

Shloka 29

परं भावं भगवतो भगवन् मामजानतीम् । मोक्तुमर्हसि विश्‍वात्मन् प्रपन्नां भक्तवत्सल ॥ २९ ॥

paraṁ bhāvaṁ bhagavatobhagavan mām ajānatīmmoktum arhasi viśvātmanprapannāṁ bhakta-vatsala

Shloka 30

ततो व्यमुञ्चद् यमुनां याचितो भगवान् बल: । विजगाह जलं स्‍त्रीभि: करेणुभिरिवेभराट् ॥ ३० ॥

tato vyamuñcad yamunāṁyācito bhagavān balaḥvijagāha jalaṁ strībhiḥkareṇubhir ivebha-rāṭ

Shloka 31

कामं विहृत्य सलिलादुत्तीर्णायासीताम्बरे । भूषणानि महार्हाणि ददौ कान्ति: शुभां स्रजम् ॥ ३१ ॥

kāmaṁ vihṛtya salilāduttīrṇāyāsītāmbarebhūṣaṇāni mahārhāṇidadau kāntiḥ śubhāṁ srajam

Shloka 32

वसित्वा वाससी नीले मालामामुच्य काञ्चनीम् । रेये स्वलङ्कृतो लिप्तो माहेन्द्र इव वारण: ॥ ३२ ॥

vasitvā vāsasī nīlemālāṁ āmucya kāñcanīmreye sv-alaṅkṛto liptomāhendra iva vāraṇaḥ

Shloka 33

अद्यापि द‍ृश्यते राजन् यमुनाकृष्टवर्त्मना । बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ ३३ ॥

adyāpi dṛśyate rājanyamunākṛṣṭa-vartmanābalasyānanta-vīryasyavīryaṁ sūcayatīva hi

Shloka 34

एवं सर्वा निशा याता एकेव रमतो व्रजे । रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥ ३४ ॥

evaṁ sarvā niśā yātāekeva ramato vrajerāmasyākṣipta-cittasyamādhuryair vraja-yoṣitām

← PrevNext →