Canto 10, Chapter 66
श्रीशुक उवाच नन्दव्रजं गते रामे करूषाधिपतिर्नृप । वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् ॥ १ ॥
śrī-śuka uvācananda-vrajaṁ gate rāmekarūṣādhipatir nṛpavāsudevo ’ham ity ajñodūtaṁ kṛṣṇāya prāhiṇot
त्वं वासुदेवो भगवानवतीर्णो जगत्पति: । इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतम् ॥ २ ॥
tvaṁ vāsudevo bhagavānavatīṛno jagat-patiḥiti prastobhito bālairmena ātmānam acyutam
दूतं च प्राहिणोन्मन्द: कृष्णायाव्यक्तवर्त्मने । द्वारकायां यथा बालो नृपो बालकृतोऽबुध: ॥ ३ ॥
dūtaṁ ca prāhiṇon mandaḥkṛṣṇāyāvyakta-vartmanedvārakāyāṁ yathā bālonṛpo bāla-kṛto ’budhaḥ
दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम् । कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् ॥ ४ ॥
dūtas tu dvārakām etyasabhāyām āsthitaṁ prabhumkṛṣṇaṁ kamala-patrākṣaṁrāja-sandeśam abravīt
वासुदेवोऽवतीर्णोऽहमेक एव न चापर: । भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधांत्यज ॥ ५ ॥
vāsudevo ’vatīrno ’hameka eva na cāparaḥbhūtānām anukampārthaṁtvaṁ tu mithyābhidhāṁ tyaja
यानि त्वमस्मच्चिह्नानि मौढ्याद् बिभर्षि सात्वत । त्यक्त्वैहि मां त्वं शरणंनोचेद् देहि ममाहवम् ॥ ६ ॥
yāni tvam asmac-cihnānimauḍhyād bibharṣi sātvatatyaktvaihi māṁ tvaṁ śaraṇaṁno ced dehi mamāhavam
श्रीशुक उवाच कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधस: । उग्रसेनादय: सभ्या उच्चकैर्जहसुस्तदा ॥ ७ ॥
śrī-śuka uvācakatthanaṁ tad upākarṇyapauṇḍrakasyālpa-medhasaḥugrasenādayaḥ sabhyāuccakair jahasus tadā
उवाच दूतं भगवान् परिहासकथामनु । उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ॥ ८ ॥
uvāca dūtaṁ bhagavānparihāsa-kathām anuutsrakṣye mūḍha cihnāniyais tvam evaṁ vikatthase
मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृत: । शयिष्यसे हतस्तत्र भविता शरणं शुनाम् ॥ ९ ॥
mukhaṁ tad apidhāyājñakaṅka-gṛdhra-vaṭair vṛtaḥśayiṣyase hatas tatrabhavitā śaraṇaṁ śunām
इति दूतस्तमाक्षेपं स्वामिने सर्वमाहरत् । कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह ॥ १० ॥
iti dūtas tam ākṣepaṁsvāmine sarvam āharatkṛṣṇo ’pi ratham āsthāyakāśīm upajagāma ha
पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथ: । अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम् ॥ ११ ॥
pauṇḍrako ’pi tad-udyogamupalabhya mahā-rathaḥakṣauhiṇībhyāṁ saṁyuktoniścakrāma purād drutam
तस्य काशीपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप । अक्षौहिणीभिस्तिसृभिरपश्यत् पौण्ड्रकं हरि: ॥ १२ ॥ शङ्खार्यसिगदाशार्ङ्गश्रीवत्साद्युपलक्षितम् । बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम् ॥ १३ ॥ कौशेयवाससी पीते वसानं गरुडध्वजम् । अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम् ॥ १४ ॥
tasya kāśī-patir mitraṁpārṣṇi-grāho ’nvayān nṛpaakṣauhiṇībhis tisṛbhirapaśyat pauṇḍrakaṁ hariḥ
दृष्ट्वा तमात्मनस्तुल्यं वेषं कृत्रिममास्थितम् । यथा नटं रङ्गगतं विजहास भृशं हरि: ॥ १५ ॥
dṛṣṭvā tam ātmanas tulyaṁveṣaṁ kṛtrimam āsthitamyathā naṭaṁ raṅga-gataṁvijahāsa bhṛśaṁ harīḥ
शूलैर्गदाभि: परिघै: शक्त्यृष्टिप्रासतोमरै: । असिभि: पट्टिशैर्बाणै: प्राहरन्नरयो हरिम् ॥ १६ ॥
śulair gadābhiḥ parighaiḥśakty-ṛṣṭi-prāsa-tomaraiḥasibhiḥ paṭṭiśair bāṇaiḥprāharann arayo harim
कृष्णस्तु तत्पौण्ड्रककाशिराजयो-र्बलं गजस्यन्दनवाजिपत्तिमत् । गदासिचक्रेषुभिरार्दयद् भृशंयथा युगान्ते हढतभुक् पृथक् प्रजा: ॥ १७ ॥
kṛṣṇas tu tat pauṇḍraka-kāśirājayorbalaṁ gaja-syandana-vāji-patti-matgadāsi-cakreṣubhir ārdayad bhṛśaṁyathā yugānte huta-bhuk pṛthak prajāḥ
आयोधनं तद्रथवाजिकुञ्जर-द्विपत्खरोष्ट्रैररिणावखण्डितै: । बभौ चितं मोदवहं मनस्विना-माक्रीडनं भूतपतेरिवोल्बणम् ॥ १८ ॥
āyodhanaṁ tad ratha-vāji-kuñjara-dvipat-kharoṣṭrair ariṇāvakhaṇḍitaiḥbabhau citaṁ moda-vahaṁ manasvināmākrīḍanaṁ bhūta-pater ivolbaṇam
अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद् भवान् । दूतवाक्येन मामाह तान्यस्त्रण्युत्सृजामि ते ॥ १९ ॥
athāha pauṇḍrakaṁ śaurirbho bho pauṇḍraka yad bhavāndūta-vākyena mām āhatāny astraṇy utsṛjāmi te
त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम् । व्रजामि शरनं तेऽद्य यदि नेच्छामि संयुगम् ॥ २० ॥
tyājayiṣye ’bhidhānaṁ meyat tvayājña mṛṣā dhṛtamvrajāmi śaranaṁ te ’dyayadi necchāmi saṁyugam
इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम् । शिरोऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरे: ॥ २१ ॥
iti kṣiptvā śitair bāṇairvirathī-kṛtya pauṇḍrakamśiro ’vṛścad rathāṅgenavajreṇendro yathā gireḥ
तथा काशिपते: कायाच्छिर उत्कृत्य पत्रिभि: । न्यपातयत् काशिपुर्यां पद्मकोशमिवानिल: ॥ २२ ॥
tathā kāśī-pateḥ kāyācchira utkṛtya patribhiḥnyapātayat kāśī-puryāṁpadma-kośam ivānilaḥ
एवं मत्सरिणं हत्वा पौण्ड्रकं ससखं हरि: । द्वारकामाविशत् सिद्धैर्गीयमानकथामृत: ॥ २३ ॥
evaṁ matsariṇam hatvāpauṇḍrakaṁ sa-sakhaṁ hariḥdvārakām āviśat siddhairgīyamāna-kathāmṛtaḥ
स नित्यं भगवद्ध्यानप्रध्वस्ताखिलबन्धन: । बिभ्राणश्च हरे राजन् स्वरूपं तन्मयोऽभवत् ॥ २४ ॥
sa nityaṁ bhagavad-dhyāna-pradhvastākhila-bandhanaḥbibhrāṇaś ca hare rājansvarūpaṁ tan-mayo ’bhavat
शिर: पतितमालोक्य राजद्वारे सकुण्डलम् । किमिदं कस्य वा वक्त्रमिति संशिशिरे जना: ॥ २५ ॥
śiraḥ patitam ālokyarāja-dvāre sa-kuṇḍalamkim idaṁ kasya vā vaktramiti saṁśiśire janāḥ
राज्ञ: काशीपतेर्ज्ञात्वा महिष्य: पुत्रबान्धवा: । पौराश्च हा हता राजन् नाथ नाथेति प्रारुदन् ॥ २६ ॥
rājñaḥ kāśī-pater jñātvāmahiṣyaḥ putra-bāndhavāḥpaurāś ca hā hatā rājannātha nātheti prārudan
सुदक्षिणस्तस्य सुत: कृत्वा संस्थाविधिं पते: । निहत्य पितृहन्तारं यास्याम्यपचितिं पितु: ॥ २७ ॥ इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम् । सुदक्षिणोऽर्चयामास परमेण समाधिना ॥ २८ ॥
sudakṣiṇas tasya sutaḥkṛtvā saṁsthā-vidhiṁ pateḥnihatya pitṛ-hantāraṁyāsyāmy apacitiṁ pituḥ
प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद् विभु: । पितृहन्तृवधोपायं स वव्रे वरमीप्सितम् ॥ २९ ॥
prīto ’vimukte bhagavāṁstasmai varam adād vibhuḥpitṛ-hantṛ-vadhopāyaṁsa vavre varam īpsitam
दक्षिणाग्निं परिचर ब्राह्मणै: सममृत्विजम् । अभिचारविधानेन स चाग्नि: प्रमथैर्वृत: ॥ ३० ॥ साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजित: । इत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन् व्रती ॥ ३१ ॥
dakṣiṇāgniṁ paricarabrāhmaṇaiḥ samam ṛtvijamabhicāra-vidhānenasa cāgniḥ pramathair vṛtaḥ
ततोऽग्निरुत्थित: कुण्डान्मूर्तिमानतिभीषण: । तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचन: ॥ ३२ ॥ दंष्ट्रोग्रभ्रुकुटीदण्डकठोरास्य: स्वजिह्वया । आलिहन् सृक्वणी नग्नो विधुन्वंस्त्रिशिखं ज्वलत् ॥ ३३ ॥
tato ’gnir utthitaḥ kuṇḍānmūrtimān ati-bhīṣaṇaḥtapta-tāmra-śikhā-śmaśruraṅgārodgāri-locanaḥ
पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम् । सोऽभ्यधावद् वृतो भूतैर्द्वारकां प्रदहन् दिश: ॥ ३४ ॥
padbhyāṁ tāla-pramāṇābhyāṁkampayann avanī-talamso ’bhyadhāvad vṛto bhūtairdvārakāṁ pradahan diśaḥ
तमाभिचारदहनमायान्तं द्वारकौकस: । विलोक्य तत्रसु: सर्वे वनदाहे मृगा यथा ॥ ३५ ॥
tam ābhicāra-dahanamāyāntaṁ dvārakaukasaḥvilokya tatrasuḥ sarvevana-dāhe mṛgā yathā
अक्षै: सभायां क्रीडन्तं भगवन्तं भयातुरा: । त्राहि त्राहि त्रिलोकेश वह्ने: प्रदहत: पुरम् ॥ ३६ ॥
akṣaiḥ sabhāyāṁ krīḍantaṁbhagavantaṁ bhayāturāḥtrāhi trāhi tri-lokeśavahneḥ pradahataḥ puram
श्रुत्वा तज्जनवैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् । शरण्य: सम्प्रहस्याह मा भैष्टेत्यवितास्म्यहम् ॥ ३७ ॥
śrutvā taj jana-vaiklavyaṁdṛṣṭvā svānāṁ ca sādhvasamśaraṇyaḥ samprahasyāhamā bhaiṣṭety avitāsmy aham
सर्वस्यान्तर्बहि:साक्षी कृत्यां माहेश्वरीं विभु: । विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् ॥ ३८ ॥
sarvasyāntar-bahiḥ-sākṣīkṛtyāṁ māheśvarīṁ vibhuḥvijñāya tad-vighātārthaṁpārśva-sthaṁ cakram ādiśat
तत् सूर्यकोटिप्रतिमं सुदर्शनंजाज्वल्यमानं प्रलयानलप्रभम् । स्वतेजसा खं ककुभोऽथ रोदसीचक्रं मुकुन्दास्त्रमथाग्निमार्दयत् ॥ ३९ ॥
tat sūrya-koṭi-pratimaṁ sudarśanaṁjājvalyamānaṁ pralayānala-prabhamsva-tejasā khaṁ kakubho ’tha rodasīcakraṁ mukundāstraṁ athāgnim ārdayat
कृत्यानल: प्रतिहत: स रथाङ्गपाणे-रस्त्रौजसा स नृप भग्नमुखो निवृत्त: । वाराणसीं परिसमेत्य सुदक्षिणं तंसर्त्विग्जनं समदहत् स्वकृतोऽभिचार: ॥ ४० ॥
kṛtyānalaḥ pratihataḥ sa rathānga-pāṇerastraujasā sa nṛpa bhagna-mukho nivṛttaḥvārāṇasīṁ parisametya sudakṣiṇaṁ taṁsartvig-janaṁ samadahat sva-kṛto ’bhicāraḥ
चक्रं च विष्णोस्तदनुप्रविष्टंवाराणसीं साट्टसभालयापणाम् । सगोपुराट्टालककोष्ठसङ्कुलांसकोशहस्त्यश्वरथान्नशालिनीम् ॥ ४१ ॥
cakraṁ ca viṣṇos tad-anupraviṣṭaṁvārānasīṁ sāṭṭa-sabhālayāpaṇāmsa-gopurāṭṭālaka-koṣṭha-saṅkulāṁsa-kośa-hasty-aśva-rathānna-śālinīm
दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम् । भूय: पार्श्वमुपातिष्ठत् कृष्णस्याक्लिष्टकर्मण: ॥ ४२ ॥
dagdhvā vārāṇasīṁ sarvāṁviṣṇoś cakraṁ sudarśanambhūyaḥ pārśvam upātiṣṭhatkṛṣṇasyākliṣṭa-karmaṇaḥ
य एनं श्रावयेन्मर्त्य उत्तम:श्लोकविक्रमम् । समाहितो वा शृणुयात् सर्वपापै: प्रमुच्यते ॥ ४३ ॥
ya enaṁ śrāvayen martyauttamaḥ-śloka-vikramamsamāhito vā śṛṇuyātsarva-pāpaiḥ pramucyate