← Canto 10

Canto 10, Chapter 67

Shloka 1

श्रीराजोवाचभुयोऽहं श्रोतुमिच्छामि रामस्याद्भ‍ुतकर्मण: । अनन्तस्याप्रमेयस्य यदन्यत् कृतवान् प्रभु: ॥ १ ॥

śrī-rājovācabhuyo ’haṁ śrotum icchāmirāmasyādbhuta-karmaṇaḥanantasyāprameyasyayad anyat kṛtavān prabhuḥ

Shloka 2

श्रीशुक उवाच नरकस्य सखा कश्चिद् द्विविदो नाम वानर: । सुग्रीवसचिव: सोऽथ भ्राता मैन्दस्य वीर्यवान् ॥ २ ॥

śrī-śuka uvācanarakasya sakhā kaściddvivido nāma vānaraḥsugrīva-sacivaḥ so ’thabhrātā maindasya vīryavān

Shloka 3

सख्यु: सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् । पुरग्रामाकरान् घोषानदहद् वह्निमुत्सृजन् ॥ ३ ॥

sakhyuḥ so ’pacitiṁ kurvanvānaro rāṣṭra-viplavampura-grāmākarān ghoṣānadahad vahnim utsṛjan

Shloka 4

क्व‍‍चित्स शैलानुत्पाट्य तैर्देशान् समचूर्णयत् । आनर्तान् सुतरामेव यत्रास्ते मित्रहा हरि: ॥ ४ ॥

kvacit sa śailān utpāṭyatair deśān samacūrṇayatānartān sutarām evayatrāste mitra-hā hariḥ

Shloka 5

क्व‍‍चित् समुद्रमध्यस्थो दोर्भ्यामुत्क्षिप्य तज्जलम् । देशान् नागायुतप्राणो वेलाकूले न्यमज्जयत् ॥ ५ ॥

kvacit samudra-madhya-sthodorbhyām utkṣipya taj-jalamdeśān nāgāyuta-prāṇovelā-kūle nyamajjayat

Shloka 6

आश्रमानृषिमुख्यानां कृत्वा भग्नवनस्पतीन् । अदूषयच्छकृन्मूत्रैरग्नीन् वैतानिकान् खल: ॥ ६ ॥

āśramān ṛṣi-mukhyānāṁkṛtvā bhagna-vanaspatīnadūṣayac chakṛn-mūtrairagnīn vaitānikān khalaḥ

Shloka 7

पुरुषान् योषितो द‍ृप्त: क्ष्माभृद्‍द्रोणीगुहासु स: । निक्षिप्य चाप्यधाच्छैलै: पेशष्कारीव कीटकम् ॥ ७ ॥

puruṣān yoṣito dṛptaḥkṣmābhṛd-dronī-guhāsu saḥnikṣipya cāpyadhāc chailaiḥpeśaṣkārīva kīṭakam

Shloka 8

एवं देशान् विप्रकुर्वन् दूषयंश्च कुलस्‍त्रिय: । श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ ॥ ८ ॥

evaṁ deśān viprakurvandūṣayaṁś ca kula-striyaḥśrutvā su-lalitaṁ gītaṁgiriṁ raivatakaṁ yayau

Shloka 9-10

तत्रापश्यद् यदुपतिं रामं पुष्करमालिनम् । सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम् ॥ ९ ॥ गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् । विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् ॥ १० ॥

tatrāpaśyad yadu-patiṁrāmaṁ puṣkara-mālinamsudarśanīya-sarvāṅgaṁlalanā-yūtha-madhya-gam

Shloka 11

दुष्ट: शाखामृग: शाखामारूढ: कम्पयन् द्रुमान् । चक्रे किलकिलाशब्दमात्मानं सम्प्रदर्शयन् ॥ ११ ॥

duṣṭaḥ śākhā-mṛgaḥ śākhāmārūḍhaḥ kampayan drumāncakre kilakilā-śabdamātmānaṁ sampradarśayan

Shloka 12

तस्य धार्ष्‍ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापला: । हास्यप्रिया विजहसुर्बलदेवपरिग्रहा: ॥ १२ ॥

tasya dhārṣṭyaṁ kaper vīkṣyataruṇyo jāti-cāpalāḥhāsya-priyā vijahasurbaladeva-parigrahāḥ

Shloka 13

ता हेलयामास कपिर्भ्रूक्षेपैर्सम्मुखादिभि: । दर्शयन् स्वगुदं तासां रामस्य च निरीक्षित: ॥ १३ ॥

tā helayām āsa kapirbhrū-kṣepair sammukhādibhiḥdarśayan sva-gudaṁ tāsāṁrāmasya ca nirīkṣitaḥ

Shloka 14-15

तं ग्राव्णा प्राहरत् क्रुद्धो बल: प्रहरतां वर: । स वञ्चयित्वा ग्रावाणं मदिराकलशं कपि: ॥ १४ ॥ गृहीत्वा हेलयामास धूर्तस्तं कोपयन् हसन् । निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद् बलम् । कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धत: ॥ १५ ॥

taṁ grāvṇā prāharat kruddhobalaḥ praharatāṁ varaḥsa vañcayitvā grāvāṇaṁmadirā-kalaśaṁ kapiḥ

Shloka 16

तं तस्याविनयं द‍ृष्ट्वा देशांश्च तदुपद्रुतान् । क्रुद्धो मुषलमादत्त हलं चारिजिघांसया ॥ १६ ॥

taṁ tasyāvinayaṁ dṛṣṭvādeśāṁś ca tad-upadrutānkruddho muṣalam ādattahalaṁ cāri-jighāṁsayā

Shloka 17

द्विविदोऽपि महावीर्य: शालमुद्यम्य पाणिना । अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् ॥ १७ ॥

dvivido ’pi mahā-vīryaḥśālam udyamya pāṇināabhyetya tarasā tenabalaṁ mūrdhany atāḍayat

Shloka 18

तं तु सङ्कर्षणो मूर्ध्‍नि पतन्तमचलो यथा । प्रतिजग्राह बलवान् सुनन्देनाहनच्च तम् ॥ १८ ॥

taṁ tu saṅkarṣaṇo mūrdhnipatantam acalo yathāpratijagrāha balavānsunandenāhanac ca tam

Shloka 19-21

मूषलाहतमस्तिष्को विरेजे रक्तधारया । गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन् ॥ १९ ॥ पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा । तेनाहनत् सुसङ्‌क्रु‌द्धस्तं बल: शतधाच्छिनत् ॥ २० ॥ ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् ॥ २१ ॥

mūṣalāhata-mastiṣkovireje rakta-dhārayāgirir yathā gairikayāprahāraṁ nānucintayan

Shloka 22

एवं युध्यन् भगवता भग्ने भग्ने पुन: पुन: । आकृष्य सर्वतो वृक्षान् निर्वृक्षमकरोद् वनम् ॥ २२ ॥

evaṁ yudhyan bhagavatābhagne bhagne punaḥ punaḥākṛṣya sarvato vṛkṣānnirvṛkṣam akarod vanam

Shloka 23

ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षित: । तत्सर्वं चूर्णयामास लीलया मुषलायुध: ॥ २३ ॥

tato ’muñcac chilā-varṣaṁbalasyopary amarṣitaḥtat sarvaṁ cūrṇayāṁ āsalīlayā muṣalāyudhaḥ

Shloka 24

स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वर: । आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् ॥ २४ ॥

sa bāhū tāla-saṅkāśaumuṣṭī-kṛtya kapīśvaraḥāsādya rohiṇī-putraṁtābhyāṁ vakṣasy arūrujat

Shloka 25

यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुषललाङ्गले । जत्रावभ्यर्दयत्क्रुद्ध: सोऽपतद् रुधिरं वमन् ॥ २५ ॥

yādavendro ’pi taṁ dorbhyāṁtyaktvā muṣala-lāṅgalejatrāv abhyardayat kruddhaḥso ’patad rudhiraṁ vaman

Shloka 26

चकम्पे तेन पतता सटङ्क: सवनस्पति: । पर्वत: कुरुशार्दूल वायुना नौरिवाम्भसि ॥ २६ ॥

cakampe tena patatāsa-ṭaṅkaḥ sa-vanaspatiḥparvataḥ kuru-śārdūlavāyunā naur ivāmbhasi

Shloka 27

जयशब्दो नम:शब्द: साधु साध्विति चाम्बरे । सुरसिद्धमुनीन्द्राणामासीत् कुसुमवर्षिणाम् ॥ २७ ॥

jaya-śabdo namaḥ-śabdaḥsādhu sādhv iti cāmbaresura-siddha-munīndrāṇāmāsīt kusuma-varṣiṇām

Shloka 28

एवं निहत्य द्विविदं जगद्‍व्य‌‍‍तिकरावहम् । संस्तूयमानो भगवान् जनै: स्वपुरमाविशत् ॥ २८ ॥

evaṁ nihatya dvividaṁjagad-vyatikarāvahamsaṁstūyamāno bhagavānjanaiḥ sva-puram āviśat

← PrevNext →