Canto 10, Chapter 69
श्रीशुक उवाच नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् । कृष्णेनैकेन बह्वीनां तद् दिदृक्षु: स्म नारद: ॥ १ ॥ चित्रं बतैतदेकेन वपुषा युगपत्पृथक् । गृहेषु द्वयष्टसाहस्रं स्त्रिय एक उदावहत् ॥ २ ॥ इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् । पुष्पितोपवनारामद्विजालिकुलनादिताम् ॥ ३ ॥ उत्फुल्लेन्दीवराम्भोजकह्लारकुमुदोत्पलै: । छुरितेषु सर:सूच्चै: कूजितां हंससारसै: ॥ ४ ॥ प्रासादलक्षैर्नवभिर्जुष्टां स्फाटिकराजतै: । महामरकतप्रख्यै: स्वर्णरत्नपरिच्छदै: ॥ ५ ॥ विभक्तरथ्यापथचत्वरापणै:शालासभाभी रुचिरां सुरालयै: । संसिक्तमार्गाङ्गनवीथिदेहलींपतत्पताकध्वजवारितातपाम् ॥ ६ ॥
śrī-śuka uvācanarakaṁ nihataṁ śrutvātathodvāhaṁ ca yoṣitāmkṛṣṇenaikena bahvīnāṁtad-didṛkṣuḥ sma nāradaḥ
तस्यामन्त:पुरं श्रीमदर्चितं सर्वधिष्ण्यपै: । हरे: स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ ७ ॥ तत्र षोडशभि: सद्मसहस्रै: समलङ्कृतम् । विवेशैकतोमं शौरे: पत्नीनां भवनं महत् ॥ ८ ॥
tasyām antaḥ-puraṁ śrīmadarcitaṁ sarva-dhiṣṇya-paiḥhareḥ sva-kauśalaṁ yatratvaṣṭrā kārtsnyena darśitam
विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमै: । इन्द्रनीलमयै: कुड्यैर्जगत्या चाहतत्विषा ॥ ९ ॥ वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभि: । दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतै: ॥ १० ॥ दासीभिर्निष्ककण्ठीभि: सुवासोभिरलङ्कृतम् । पुम्भि: सकञ्चुकोष्णीषसुवस्त्रमणिकुण्डलै: ॥ ११ ॥ रत्नप्रदीपनिकरद्युतिभिर्निरस्त-ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग । नृत्यन्ति यत्र विहितागुरुधूपमक्षै-र्निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्त: ॥ १२ ॥
viṣṭabdhaṁ vidruma-stambhairvaidūrya-phalakottamaiḥindranīla-mayaiḥ kuḍyairjagatyā cāhata-tviṣā
तस्मिन् समानगुणरूपवय:सुवेष-दासीसहस्रयुतयानुसवं गृहिण्या । विप्रो ददर्श चमरव्यजनेन रुक्म-दण्डेन सात्वतपतिं परिवीजयन्त्या ॥ १३ ॥
tasmin samāna-guṇa-rūpa-vayaḥ-su-veṣa-dāsī-sahasra-yutayānusavaṁ gṛhiṇyāvipro dadarśa cāmara-vyajanena rukma-daṇḍena sātvata-patiṁ parivījayantyā
तं सन्निरीक्ष्य भगवान् सहसोत्थितश्री-पर्यङ्कत: सकलधर्मभृतां वरिष्ठ: । आनम्य पादयुगलं शिरसा किरीट-जुष्टेन साञ्जलिरवीविशदासने स्वे ॥ १४ ॥
taṁ sannirīkṣya bhagavān sahasotthita-śrī-paryaṅkataḥ sakala-dharma-bhṛtāṁ variṣṭhaḥānamya pāda-yugalaṁ śirasā kirīṭa-juṣṭena sāñjalir avīviśad āsane sve
तस्यावनिज्य चरणौ तदप: स्वमूर्ध्नाबिभ्रज्जगद्गुरुतमोऽपि सतां पतिर्हि । ब्रह्मण्यदेव इति यद्गुणनाम युक्तंतस्यैव यच्चरणशौचमशेषतीर्थम् ॥ १५ ॥
tasyāvanijya caraṇau tad-apaḥ sva-mūrdhnābibhraj jagad-gurutamo ’pi satāṁ patir hibrahmaṇya-deva iti yad guṇa-nāma yuktaṁtasyaiva yac-caraṇa-śaucam aśeṣa-tīrtham
सम्पूज्य देवऋषिवर्यमृषि: पुराणोनारायणो नरसखो विधिनोदितेन । वाण्याभिभाष्य मितयामृतमिष्टया तंप्राह प्रभो भगवते करवाम हे किम् ॥ १६ ॥
sampūjya deva-ṛṣi-varyam ṛṣiḥ purāṇonārāyaṇo nara-sakho vidhinoditenavāṇyābhibhāṣya mitayāmṛta-miṣṭayā taṁprāha prabho bhagavate karavāma he kim
श्रीनारद उवाच नैवाद्भुतं त्वयि विभोऽखिललोकनाथेमैत्री जनेषु सकलेषु दम: खलानाम् । नि:श्रेयसाय हि जगत्स्थितिरक्षणाभ्यांस्वैरावतार उरुगाय विदाम सुष्ठु ॥ १७ ॥
śrī-nārada uvācanaivādbhutaṁ tvayi vibho ’khila-loka-nāthemaitrī janeṣu sakaleṣu damaḥ khalānāmniḥśreyasāya hi jagat-sthiti-rakṣaṇābhyāṁsvairāvatāra urugāya vidāma suṣṭhu
दृष्टं तवाङ्घ्रियुगलं जनतापवर्गंब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधै: । संसारकूपपतितोत्तरणावलम्बंध्यायंश्चराम्यनुगृहाण यथा स्मृति: स्यात् ॥ १८ ॥
dṛṣṭaṁ tavāṅghri-yugalaṁ janatāpavargaṁbrahmādibhir hṛdi vicintyam agādha-bodhaiḥsaṁsāra-kūpa-patitottaraṇāvalambaṁdhyāyaṁś carāmy anugṛhāṇa yathā smṛtiḥ syāt
ततोऽन्यदाविशद् गेहं कृष्णपत्न्या: स नारद: । योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥ १९ ॥
tato ’nyad āviśad gehaṁkṛṣṇa-patnyāḥ sa nāradaḥyogeśvareśvarasyāṅgayoga-māyā-vivitsayā
दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च । पूजित: परया भक्त्या प्रत्युत्थानासनादिभि: ॥ २० ॥ पृष्टश्चाविदुषेवासौ कदायातो भवानिति । क्रियते किं नु पूर्णानामपूर्णैरस्मदादिभि: ॥ २१ ॥ अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु । स तु विस्मित उत्थाय तूष्णीमन्यदगाद् गृहम् ॥ २२ ॥
dīvyantam akṣais tatrāpipriyayā coddhavena capūjitaḥ parayā bhaktyāpratyutthānāsanādibhiḥ
तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान् शिशून् । ततोऽन्यस्मिन् गृहेऽपश्यन्मज्जनाय कृतोद्यमम् ॥ २३ ॥
tatrāpy acaṣṭa govindaṁlālayantaṁ sutān śiśūntato ’nyasmin gṛhe ’paśyanmajjanāya kṛtodyamam
जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखै: । भोजयन्तं द्विजान् क्वापि भुञ्जानमवशेषितम् ॥ २४ ॥
juhvantaṁ ca vitānāgnīnyajantaṁ pañcabhir makhaiḥbhojayantaṁ dvijān kvāpibhuñjānam avaśeṣitam
क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् । एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु ॥ २५ ॥
kvāpi sandhyām upāsīnaṁjapantaṁ brahma vāg-yatamekatra cāsi-carmābhyāṁcarantam asi-vartmasu
अश्वैर्गजै रथै: क्वापि विचरन्तं गदाग्रजम् । क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभि: ॥ २६ ॥
aśvair gajai rathaiḥ kvāpivicarantaṁ gadāgrajamkvacic chayānaṁ paryaṅkestūyamānaṁ ca vandibhiḥ
मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभि: । जलक्रीडारतं क्वापि वारमुख्याबलावृतम् ॥ २७ ॥
mantrayantaṁ ca kasmiṁścinmantribhiś coddhavādibhiḥjala-krīḍā-rataṁ kvāpivāramukhyābalāvṛtam
कुत्रचिद्द्विजमुख्येभ्यो ददतं गा: स्वलङ्कृता: । इतिहासपुराणानि शृण्वन्तं मङ्गलानि च ॥ २८ ॥
kutracid dvija-mukhyebhyodadataṁ gāḥ sv-alaṅkṛtāḥitihāsa-purāṇāniśṛṇvantaṁ maṅgalāni ca
हसन्तं हासकथया कदाचित् प्रियया गृहे । क्वापि धर्मं सेवमानमर्थकामौ च कुत्रचित् ॥ २९ ॥
hasantaṁ hāsa-kathayākadācit priyayā gṛhekvāpi dharmaṁ sevamānamartha-kāmau ca kutracit
ध्यायन्तमेकमासीनं पुरुषं प्रकृते: परम् । शुश्रूषन्तं गुरून् क्वापि कामैर्भोगै: सपर्यया ॥ ३० ॥
dhyāyantam ekam āsīnaṁpuruṣaṁ prakṛteḥ paramśuśrūṣantaṁ gurūn kvāpikāmair bhogaiḥ saparyayā
कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् । कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ ३१ ॥
kurvantaṁ vigrahaṁ kaiścitsandhiṁ cānyatra keśavamkutrāpi saha rāmeṇacintayantaṁ satāṁ śivam
पुत्राणां दुहितृणां च काले विध्युपयापनम् । दारैर्वरैस्तत्सदृशै: कल्पयन्तं विभूतिभि: ॥ ३२ ॥
putrāṇāṁ duhitṝṇāṁ cakāle vidhy-upayāpanamdārair varais tat-sadṛśaiḥkalpayantaṁ vibhūtibhiḥ
प्रस्थापनोपनयनैरपत्यानां महोत्सवान् । वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ ३३ ॥
prasthāpanopanayanairapatyānāṁ mahotsavānvīkṣya yogeśvareśasyayeṣāṁ lokā visismire
यजन्तं सकलान् देवान् क्वापि क्रतुभिरूर्जितै: । पूर्तयन्तं क्वचिद् धर्मं कूर्पाराममठादिभि: ॥ ३४ ॥
yajantaṁ sakalān devānkvāpi kratubhir ūrjitaiḥpūrtayantaṁ kvacid dharmaṁkūrpārāma-maṭhādibhiḥ
चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् । घ्नन्तं तत्र पशून् मेध्यान् परीतं यदुपुङ्गवै: ॥ ३५ ॥
carantaṁ mṛgayāṁ kvāpihayam āruhya saindhavamghnantaṁ tatra paśūn medhyānparītaṁ yadu-puṅgavaiḥ
अव्यक्तलिङ्गं प्रकृतिष्वन्त:पुरगृहादिषु । क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया ॥ ३६ ॥
avyakta-lingaṁ prakṛtiṣvantaḥ-pura-gṛhādiṣukvacic carantaṁ yogeśaṁtat-tad-bhāva-bubhutsayā
अथोवाच हृषीकेशं नारद: प्रहसन्निव । योगमायोदयं वीक्ष्य मानुषीमीयुषो गतिम् ॥ ३७ ॥
athovāca hṛṣīkeśaṁnāradaḥ prahasann ivayoga-māyodayaṁ vīkṣyamānuṣīm īyuṣo gatim
विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् । योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया ॥ ३८ ॥
vidāma yoga-māyās tedurdarśā api māyināmyogeśvarātman nirbhātābhavat-pāda-niṣevayā
अनुजानीहि मां देव लोकांस्ते यशसाप्लुतान् । पर्यटामि तवोद्गायन् लीला भुवनपावनी: ॥ ३९ ॥
anujānīhi māṁ devalokāṁs te yaśasāplutānparyaṭāmi tavodgāyanlīlā bhuvana-pāvanīḥ
श्रीभगवानुवाचब्रह्मन् धर्मस्य वक्ताहं कर्ता तदनुमोदिता । तच्छिक्षयन् लोकमिममास्थित: पुत्र मा खिद: ॥ ४० ॥
śrī-bhagavān uvācabrahman dhannasya vaktāhaṁkartā tad-anumoditātac chikṣayan lokam imamāsthitaḥ putra mā khidaḥ
श्रीशुक उवाच इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् । तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ॥ ४१ ॥
śrī-śuka uvācaity ācarantaṁ sad-dharmānpāvanān gṛha-medhināmtam eva sarva-geheṣusantam ekaṁ dadarśa ha
कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् । मुहुर्दृष्ट्वा ऋषिरभूद् विस्मितो जातकौतुक: ॥ ४२ ॥
kṛṣṇasyānanta-vīryasyayoga-māyā-mahodayammuhur dṛṣṭvā ṛṣir abhūdvismito jāta-kautukaḥ
इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना । सम्यक् सभाजित: प्रीतस्तमेवानुस्मरन् ययौ ॥ ४३ ॥
ity artha-kāma-dharmeṣukṛṣṇena śraddhitātmanāsamyak sabhājitaḥ prītastam evānusmaran yayau
एवं मनुष्यपदवीमनुवर्तमानोनारायणोऽखिलभवाय गृहीतशक्ति: । रेमेऽङ्ग षोडशसहस्रवराङ्गनानांसव्रीडसौहृदनिरीक्षणहासजुष्ट: ॥ ४४ ॥
evaṁ manuṣya-padavīm anuvartamānonārāyaṇo ’khila-bhavāya gṛhīta-śaktiḥreme ’ṇga ṣoḍaśa-sahasra-varāṅganānāṁsa-vrīḍa-sauhṛda-nirīkṣaṇa-hāsa-juṣṭaḥ
यानीह विश्वविलयोद्भववृत्तिहेतु:कर्माण्यनन्यविषयाणि हरिश्चकार । यस्त्वङ्ग गायति शृणोत्यनुमोदते वाभक्तिर्भवेद् भगवति ह्यपवर्गमार्गे ॥ ४५ ॥ यस्यात्मबुद्धि: कुणपे त्रिधातुकेस्वधी: कलत्रादिषु भौम इज्यधी: । यत्तीर्थबुद्धि: सलिले न कर्हिचिज्जनेष्वभिज्ञेषु स एव गोखर: ॥
yānīha viśva-vilayodbhava-vṛtti-hetuḥkarmāṇy ananya-viṣayāṇi harīś cakārayas tv aṅga gāyati śṛṇoty anumodate vābhaktir bhaved bhagavati hy apavarga-mārge