Canto 10, Chapter 73
श्रीशुक उवाच अयुते द्वे शतान्यष्टौ निरुद्धा युधि निर्जिता: । ते निर्गता गिरिद्रोण्यां मलिना मलवासस: ॥ १ ॥ क्षुत्क्षामा: शुष्कवदना: संरोधपरिकर्शिता: । ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥ २ ॥ श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् । चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ ३ ॥ पद्महस्तं गदाशङ्ख रथाङ्गैरुपलक्षितम् । किरीटहारकटककटिसूत्राङ्गदाञ्चितम् ॥ ४ ॥ भ्राजद्वरमणिग्रीवं निवीतं वनमालया । पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ ५ ॥ जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभि: । प्रणेमुर्हतपाप्मानो मूर्धभि: पादयोर्हरे: ॥ ६ ॥
śrī-śuka uvācaayute dve śatāny aṣṭauniruddhā yudhi nirjitāḥte nirgatā giridroṇyāṁmalinā mala-vāsasaḥ
कृष्णसन्दर्शनाह्लादध्वस्तसंरोधनक्लमा: । प्रशशंसुर्हृषीकेशं गीर्भि: प्राञ्जलयो नृपा: ॥ ७ ॥
kṛṣṇa-sandarśanāhlādadhvasta-saṁrodhana-klamāḥpraśaśaṁsur hṛṣīkeśaṁgīrbhiḥ prāñjalayo nṛpāḥ
राजान ऊचु: नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय । प्रपन्नान् पाहि न: कृष्ण निर्विण्णान्घोरसंसृते: ॥ ८ ॥
rājāna ūcuḥnamas te deva-deveśaprapannārti-harāvyayaprapannān pāhi naḥ kṛṣṇanirviṇṇān ghora-saṁsṛteḥ
नैनं नाथानुसूयामो मागधं मधुसूदन । अनुग्रहो यद् भवतो राज्ञां राज्यच्युतिर्विभो ॥ ९ ॥
nainaṁ nāthānusūyāmomāgadhaṁ madhusūdanaanugraho yad bhavatorājñāṁ rājya-cyutir vibho
राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृप: । त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचला: ॥ १० ॥
rājyaiśvarya-madonnaddhona śreyo vindate nṛpaḥtvan-māyā-mohito ’nityāmanyate sampado ’calāḥ
मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् । एवं वैकारिकीं मायामयुक्ता वस्तु चक्षते ॥ ११ ॥
mṛga-tṛṣṇāṁ yathā bālāmanyanta udakāśayamevaṁ vaikārikīṁ māyāmayuktā vastu cakṣate
वयं पुरा श्रीमदनष्टदृष्टयोजिगीषयास्या इतरेतरस्पृध: । घ्नन्त: प्रजा: स्वा अतिनिर्घृणा: प्रभोमृत्युं पुरस्त्वाविगणय्य दुर्मदा: ॥ १२ ॥ त एव कृष्णाद्य गभीररंहसादुरन्तेवीर्येण विचालिता: श्रिय: । कालेन तन्वा भवतोऽनुकम्पयाविनष्टदर्पाश्चरणौ स्मराम ते ॥ १३ ॥
vayaṁ purā śrī-mada-naṣṭa-dṛṣṭayojigīṣayāsyā itaretara-spṛdhaḥghnantaḥ prajāḥ svā ati-nirghṛṇāḥ prabhomṛtyuṁ puras tvāvigaṇayya durmadāḥ
अथो न राज्यं मृगतृष्णिरूपितंदेहेन शश्वत् पतता रुजां भुवा । उपासितव्यं स्पृहयामहे विभोक्रियाफलं प्रेत्य च कर्णरोचनम् ॥ १४ ॥
atho na rājyam mṛga-tṛṣṇi-rūpitaṁdehena śaśvat patatā rujāṁ bhuvāupāsitavyaṁ spṛhayāmahe vibhokriyā-phalaṁ pretya ca karṇa-rocanam
तं न: समादिशोपायं येन ते चरणाब्जयो: । स्मृतिर्यथा न विरमेदपि संसरतामिह ॥ १५ ॥
taṁ naḥ samādiśopāyaṁyena te caraṇābjayoḥsmṛtir yathā na viramedapi saṁsaratām iha
कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नम: ॥ १६ ॥
kṛṣṇāya vāsudevāyaharaye paramātmanepraṇata-kleśa-nāśāyagovindāya namo namaḥ
श्रीशुक उवाच संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनै: । तानाह करुणस्तात शरण्य: श्लक्ष्णया गिरा ॥ १७ ॥
śrī-śuka uvācasaṁstūyamāno bhagavānrājabhir mukta-bandhanaiḥtān āha karuṇas tātaśaraṇyaḥ ślakṣṇayā girā
श्रीभगवानुवाचअद्यप्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे । सुदृढा जायते भक्तिर्बाढमाशंसितं तथा ॥ १८ ॥
śrī-bhagavān uvācaadya prabhṛti vo bhūpāmayy ātmany akhileśvaresu-dṛḍhā jāyate bhaktirbāḍham āśaṁsitaṁ tathā
दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिण: । श्रीयैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् ॥ १९ ॥
diṣṭyā vyavasitaṁ bhūpābhavanta ṛta-bhāṣiṇaḥśrīy-aiśvarya-madonnāhaṁpaśya unmādakaṁ nṛṇām
हैहयो नहुषो वेणो रावणो नरकोऽपरे । श्रीमदाद् भ्रंशिता: स्थानाद् देवदैत्यनरेश्वरा: ॥ २० ॥
haihayo nahuṣo veṇorāvaṇo narako ’pareśrī-madād bhraṁśitāḥ sthānāddeva-daitya-nareśvarāḥ
भवन्त एतद् विज्ञाय देहाद्युत्पाद्यमन्तवत् । मां यजन्तोऽध्वरैर्युक्ता: प्रजा धर्मेण रक्ष्यथ ॥ २१ ॥
bhavanta etad vijñāyadehādy utpādyam anta-vatmāṁ yajanto ’dhvarair yuktāḥprajā dharmeṇa rakṣyatha
सन्तन्वन्त: प्रजातन्तून् सुखं दु:खं भवाभवौ । प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ ॥ २२ ॥
santanvantaḥ prajā-tantūnsukhaṁ duḥkhaṁ bhavābhavauprāptaṁ prāptaṁ ca sevantomac-cittā vicariṣyatha
उदासीनाश्च देहादावात्मारामा धृतव्रता: । मय्यावेश्य मन: सम्यङ्मामन्ते ब्रह्म यास्यथ ॥ २३ ॥
udāsīnāś ca dehādāvātmārāmā dhṛta-vratāḥmayy āveśya manaḥ samyaṅmām ante brahma yāsyatha
श्रीशुक उवाच इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वर: । तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जनकर्मणि ॥ २४ ॥
śrī-śuka uvācaity ādiśya nṛpān kṛṣṇobhagavān bhuvaneśvaraḥteṣāṁ nyayuṅkta puruṣānstriyo majjana-karmaṇi
सपर्यां कारयामास सहदेवेन भारत । नरदेवोचितैर्वस्त्रैर्भूषणै: स्रग्विलेपनै: ॥ २५ ॥
saparyāṁ kārayām āsasahadevena bhāratanaradevocitair vastrairbhūṣaṇaiḥ srag-vilepanaiḥ
भोजयित्वा वरान्नेन सुस्नातान्समलङ्कृतान् । भोगैश्च विविधैर्युक्तांस्ताम्बूलाद्यैर्नृपोचितै: ॥ २६ ॥
bhojayitvā varānnenasu-snātān samalaṅkṛtānbhogaiś ca vividhair yuktāṁstāmbūlādyair nṛpocitaiḥ
ते पूजिता मुकुन्देन राजानो मृष्टकुण्डला: । विरेजुर्मोचिता: क्लेशात् प्रावृडन्ते यथा ग्रहा: ॥ २७ ॥
te pūjitā mukundenarājāno mṛṣṭa-kuṇḍalāḥvirejur mocitāḥ kleśātprāvṛḍ-ante yathā grahāḥ
रथान्सदश्वानारोप्य मणिकाञ्चनभूषितान् । प्रीणय्य सुनृतैर्वाक्यै: स्वदेशान् प्रत्ययापयत् ॥ २८ ॥
rathān sad-aśvān āropyamaṇi-kāñcana-bhūṣitānprīṇayya sunṛtair vākyaiḥsva-deśān pratyayāpayat
त एवं मोचिता: कृच्छ्रात् कृष्णेन सुमहात्मना । ययुस्तमेव ध्यायन्त: कृतानि च जगत्पते: ॥ २९ ॥
ta evaṁ mocitāḥ kṛcchrātkṛṣṇena su-mahātmanāyayus tam eva dhyāyantaḥkṛtāni ca jagat-pateḥ
जगदु: प्रकृतिभ्यस्ते महापुरुषचेष्टितम् । यथान्वशासद् भगवांस्तथा चक्रुरतन्द्रिता: ॥ ३० ॥
jagaduḥ prakṛtibhyas temahā-puruṣa-ceṣṭitamyathānvaśāsad bhagavāṁstathā cakrur atandritāḥ
जरासन्धं घातयित्वा भीमसेनेन केशव: । पार्थाभ्यां संयुत: प्रायात् सहदेवेन पूजित: ॥ ३१ ॥
jarāsandhaṁ ghātayitvābhīmasenena keśavaḥpārthābhyāṁ saṁyutaḥ prāyātsahadevena pūjitaḥ
गत्वा ते खाण्डवप्रस्थं शङ्खान् दध्मुर्जितारय: । हर्षयन्त: स्वसुहृदो दुर्हृदां चासुखावहा: ॥ ३२ ॥
gatvā te khāṇḍava-prasthaṁśaṅkhān dadhmur jitārayaḥharṣayantaḥ sva-suhṛdodurhṛdāṁ cāsukhāvahāḥ
तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिन: । मेनिरे मागधं शान्तं राजा चाप्तमनोरथ: ॥ ३३ ॥
tac chrutvā prīta-manasaindraprastha-nivāsinaḥmenire māgadhaṁ śāntaṁrājā cāpta-manorathaḥ
अभिवन्द्याथ राजानं भीमार्जुनजनार्दना: । सर्वमाश्रावयां चक्रुरात्मना यदनुष्ठितम् ॥ ३४ ॥
abhivandyātha rājānaṁbhīmārjuna-janārdanāḥsarvam āśrāvayāṁ cakrurātmanā yad anuṣṭhitam
निशम्य धर्मराजस्तत् केशवेनानुकम्पितम् । आनन्दाश्रुकलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ ३५ ॥
niśamya dharma-rājas tatkeśavenānukampitamānandāśru-kalāṁ muñcanpremṇā novāca kiñcana