Canto 10, Chapter 78
श्रीशुक उवाच शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मति: । परलोकगतानां च कुर्वन् पारोक्ष्यसौहृदम् ॥ १ ॥ एक: पदाति: सङ्क्रुद्धो गदापाणि: प्रकम्पयन् । पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत ॥ २ ॥
śrī-śuka uvācaśiśupālasya śālvasyapauṇḍrakasyāpi durmatiḥpara-loka-gatānāṁ cakurvan pārokṣya-sauhṛdam
तं तथायान्तमालोक्य गदामादाय सत्वर: । अवप्लुत्य रथात् कृष्ण: सिन्धुं वेलेव प्रत्यधात् ॥ ३ ॥
taṁ tathāyāntam ālokyagadām ādāya satvaraḥavaplutya rathāt kṛṣṇaḥsindhuṁ veleva pratyadhāt
गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मद: । दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गत: ॥ ४ ॥
gadām udyamya kārūṣomukundaṁ prāha durmadaḥdiṣṭyā diṣṭyā bhavān adyamama dṛṣṭi-pathaṁ gataḥ
त्वं मातुलेयो न: कृष्ण मित्रध्रुङ्मां जिघांससि । अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ॥ ५ ॥
tvaṁ mātuleyo naḥ kṛṣṇamitra-dhruṅ māṁ jighāṁsasiatas tvāṁ gadayā mandahaniṣye vajra-kalpayā
तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सल: । बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा ॥ ६ ॥
tarhy ānṛṇyam upaimy ajñamitrāṇāṁ mitra-vatsalaḥbandhu-rūpam ariṁ hatvāvyādhiṁ deha-caraṁ yathā
एवं रूक्षैस्तुदन् वाक्यै: कृष्णं तोत्रैरिव द्विपम् । गदया ताडयन्मूर्ध्नि सिंहवद् व्यनदच्च स: ॥ ७ ॥
evaṁ rūkṣais tudan vākyaiḥkṛṣṇaṁ totrair iva dvipamgadayātāḍayan mūrdhnisiṁha-vad vyanadac ca saḥ
गदयाभिहतोऽप्याजौ न चचाल यदूद्वह: । कृष्णोऽपि तमहन् गुर्व्या कौमोदक्या स्तनान्तरे ॥ ८ ॥
gadayābhihato ’py ājauna cacāla yadūdvahaḥkṛṣṇo ’pi tam ahan gurvyākaumodakyā stanāntare
गदानिर्भिन्नहृदय उद्वमन् रुधिरं मुखात् । प्रसार्य केशबाह्वङ्घ्रीन् धरण्यां न्यपतद् व्यसु: ॥ ९ ॥
gadā-nirbhinna-hṛdayaudvaman rudhiraṁ mukhātprasārya keśa-bāhv-aṅghrīndharaṇyāṁ nyapatad vyasuḥ
तत: सूक्ष्मतरं ज्योति: कृष्णमाविशदद्भुतम् । पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥ १० ॥
tataḥ sūkṣmataraṁ jyotiḥkṛṣṇam āviśad adbhutampaśyatāṁ sarva-bhūtānāṁyathā caidya-vadhe nṛpa
विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुत: । आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया ॥ ११ ॥
vidūrathas tu tad-bhrātābhrātṛ-śoka-pariplutaḥāgacchad asi-carmābhyāmucchvasaṁs taj-jighāṁsayā
तस्य चापतत: कृष्णश्चक्रेण क्षुरनेमिना । शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् ॥ १२ ॥
tasya cāpatataḥ kṛṣṇaścakreṇa kṣura-nemināśiro jahāra rājendrasa-kirīṭaṁ sa-kuṇḍalam
एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् । हत्वा दुर्विषहानन्यैरीडित: सुरमानवै: ॥ १३ ॥ मुनिभि: सिद्धगन्धर्वैर्विद्याधरमहोरगै: । अप्सरोभि: पितृगणैर्यक्षै: किन्नरचारणै: ॥ १४ ॥ उपगीयमानविजय: कुसुमैरभिवर्षित: । वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् ॥ १५ ॥
evaṁ saubhaṁ ca śālvaṁ cadantavakraṁ sahānujamhatvā durviṣahān anyairīḍitaḥ sura-mānavaiḥ
एवं योगेश्वर: कृष्णो भगवान् जगदीश्वर: । ईयते पशुदृष्टीनां निर्जितो जयतीति स: ॥ १६ ॥
evaṁ yogeśvaraḥ kṛṣṇobhagavān jagad-īśvaraḥīyate paśu-dṛṣṭīnāṁnirjito jayatīti saḥ
श्रुत्वा युद्धोद्यमं राम: कुरूणां सह पाण्डवै: । तीर्थाभिषेकव्याजेन मध्यस्थ: प्रययौ किल ॥ १७ ॥
śrutvā yuddhodyamaṁ rāmaḥkurūṇāṁ saha pāṇḍavaiḥtīrthābhiṣeka-vyājenamadhya-sthaḥ prayayau kila
स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् । सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृत: ॥ १८ ॥
snātvā prabhāse santarpyadevarṣi-pitṛ-mānavānsarasvatīṁ prati-srotaṁyayau brāhmaṇa-saṁvṛtaḥ
पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम् । विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् ॥ १९ ॥ यमुनामनु यान्येव गङ्गामनु च भारत । जगाम नैमिषं यत्र ऋषय: सत्रमासते ॥ २० ॥
pṛthūdakaṁ bindu-sarastritakūpaṁ sudarśanamviśālaṁ brahma-tīrthaṁ cacakraṁ prācīṁ sarasvatīm
तमागतमभिप्रेत्य मुनयो दीर्घसत्रिण: । अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् ॥ २१ ॥
tam āgatam abhipretyamunayo dīrgha-satriṇaḥabhinandya yathā-nyāyaṁpraṇamyotthāya cārcayan
सोऽर्चित: सपरीवार: कृतासनपरिग्रह: । रोमहर्षणमासीनं महर्षे: शिष्यमैक्षत ॥ २२ ॥
so ’rcitaḥ sa-parīvāraḥkṛtāsana-parigrahaḥromaharṣaṇam āsīnaṁmaharṣeḥ śiṣyam aikṣata
अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम् । अध्यासीनं च तान् विप्रांश्चुकोपोद्वीक्ष्य माधव: ॥ २३ ॥
apratyutthāyinaṁ sūtamakṛta-prahvaṇāñjalimadhyāsīnaṁ ca tān viprāṁścukopodvīkṣya mādhavaḥ
यस्मादसाविमान् विप्रानध्यास्ते प्रतिलोमज: । धर्मपालांस्तथैवास्मान् वधमर्हति दुर्मति: ॥ २४ ॥
yasmād asāv imān viprānadhyāste pratiloma-jaḥdharma-pālāṁs tathaivāsmānvadham arhati durmatiḥ
ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च । सेतिहासपुराणानि धर्मशास्त्राणि सर्वश: ॥ २५ ॥ अदान्तस्याविनीतस्य वृथा पण्डितमानिन: । न गुणाय भवन्ति स्म नटस्येवाजितात्मन: ॥ २६ ॥
ṛṣer bhagavato bhūtvāśiṣyo ’dhītya bahūni casetihāsa-purāṇānidharma-śāstrāṇi sarvaśaḥ
एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृत: । वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिका: ॥ २७ ॥
etad-artho hi loke ’sminnavatāro mayā kṛtaḥvadhyā me dharma-dhvajinaste hi pātakino ’dhikāḥ
एतावदुक्त्वा भगवान् निवृत्तोऽसद्वधादपि । भावित्वात् तं कुशाग्रेण करस्थेनाहनत् प्रभु: ॥ २८ ॥
etāvad uktvā bhagavānnivṛtto ’sad-vadhād apibhāvitvāt taṁ kuśāgreṇakara-sthenāhanat prabhuḥ
हाहेति वादिन: सर्वे मुनय: खिन्नमानसा: । ऊचु: सङ्कर्षणं देवमधर्मस्ते कृत: प्रभो ॥ २९ ॥
hāheti-vādinaḥ sarvemunayaḥ khinna-mānasāḥūcuḥ saṅkarṣaṇaṁ devamadharmas te kṛtaḥ prabho
अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन । आयुश्चात्माक्लमं तावद् यावत् सत्रं समाप्यते ॥ ३० ॥
asya brahmāsanaṁ dattamasmābhir yadu-nandanaāyuś cātmāklamaṁ tāvadyāvat satraṁ samāpyate
अजानतैवाचरितस्त्वया ब्रह्मवधो यथा । योगेश्वरस्य भवतो नाम्नायोऽपि नियामक: ॥ ३१ ॥ यद्येतद् ब्रह्महत्याया: पावनं लोकपावन । चरिष्यति भवाँल्लोकसङ्ग्रहोऽनन्यचोदित: ॥ ३२ ॥
ajānataivācaritastvayā brahma-vadho yathāyogeśvarasya bhavatonāmnāyo ’pi niyāmakaḥ
श्रीभगवानुवाचचरिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया । नियम: प्रथमे कल्पे यावान् स तु विधीयताम् ॥ ३३ ॥
śrī-bhagavān uvācacariṣye vadha-nirveśaṁlokānugraha-kāmyayāniyamaḥ prathame kalpeyāvān sa tu vidhīyatām
दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रियमेव च । आशासितं यत्तद्ब्रूते साधये योगमायया ॥ ३४ ॥
dīrgham āyur bataitasyasattvam indriyam eva caāśāsitaṁ yat tad brūtesādhaye yoga-māyayā
ऋषय ऊचु: अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च । यथा भवेद्वच: सत्यं तथा राम विधीयताम् ॥ ३५ ॥
ṛṣaya ūcuḥastrasya tava vīryasyamṛtyor asmākam eva cayathā bhaved vacaḥ satyaṁtathā rāma vidhīyatām
श्रीभगवानुवाचआत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् । तस्मादस्य भवेद्वक्ता आयुरिन्द्रियसत्त्ववान् ॥ ३६ ॥
śrī-bhagavān uvācaātmā vai putra utpannaiti vedānuśāsanamtasmād asya bhaved vaktāāyur-indriya-sattva-vān
किं व: कामो मुनिश्रेष्ठा ब्रूताहं करवाण्यथ । अजानतस्त्वपचितिं यथा मे चिन्त्यतां बुधा: ॥ ३७ ॥
kiṁ vaḥ kāmo muni-śreṣṭhābrūtāhaṁ karavāṇy athaajānatas tv apacitiṁyathā me cintyatāṁ budhāḥ
ऋषय ऊचु: इल्वलस्य सुतो घोरो बल्वलो नाम दानव: । स दूषयति न: सत्रमेत्य पर्वणि पर्वणि ॥ ३८ ॥
ṛṣaya ūcuḥilvalasya suto ghorobalvalo nāma dānavaḥsa dūṣayati naḥ satrametya parvaṇi parvaṇi
तं पापं जहि दाशार्ह तन्न: शुश्रूषणं परम् । पूयशोणितविन् मूत्रसुरामांसाभिवर्षिणम् ॥ ३९ ॥
taṁ pāpaṁ jahi dāśārhatan naḥ śuśrūṣaṇaṁ parampūya-śoṇita-vin-mūtra-surā-māṁsābhivarṣiṇam
ततश्च भारतं वर्षं परीत्य सुसमाहित: । चरित्वा द्वादश मासांस्तीर्थस्नायी विशुध्यसि ॥ ४० ॥
tataś ca bhārataṁ varṣaṁparītya su-samāhitaḥcaritvā dvādaśa-māsāṁstīrtha-snāyī viśudhyasi