Canto 10, Chapter 79
श्रीशुक उवाच तत: पर्वण्युपावृत्ते प्रचण्ड: पांशुवर्षण: । भीमो वायुरभूद् राजन्पूयगन्धस्तु सर्वश: ॥ १ ॥
śrī-śuka uvācatataḥ parvaṇy upāvṛttepracaṇḍaḥ pāṁśu-varṣaṇaḥbhīmo vāyur abhūd rājanpūya-gandhas tu sarvaśaḥ
ततोऽमेध्यमयं वर्षं बल्वलेन विनिर्मितम् । अभवद् यज्ञशालायां सोऽन्वदृश्यत शूलधृक् ॥ २ ॥
tato ’medhya-mayaṁ varṣaṁbalvalena vinirmitamabhavad yajña-śālāyāṁso ’nvadṛśyata śūla-dhṛk
तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम् । तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम् ॥ ३ ॥ सस्मार मूषलं राम: परसैन्यविदारणम् । हलं च दैत्यदमनं ते तूर्णमुपतस्थतु: ॥ ४ ॥
taṁ vilokya bṛhat-kāyaṁbhinnāñjana-cayopamamtapta-tāmra-śikhā-śmaśruṁdaṁṣṭrogra-bhru-kuṭī-mukham
तमाकृष्य हलाग्रेण बल्वलं गगनेचरम् । मूषलेनाहनत्क्रुद्धो मूर्ध्नि ब्रह्मद्रुहं बल: ॥ ५ ॥
tam ākṛṣya halāgreṇabalvalaṁ gagane-carammūṣalenāhanat kruddhomūrdhni brahma-druhaṁ balaḥ
सोऽपतद्भुवि निर्भिन्नललाटोऽसृक् समुत्सृजन् । मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽरुण: ॥ ६ ॥
so ’patad bhuvi nirbhinna-lalāṭo ’sṛk samutsṛjanmuñcann ārta-svaraṁ śailoyathā vajra-hato ’ruṇaḥ
संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिष: । अभ्यषिञ्चन् महाभागा वृत्रघ्नं विबुधा यथा ॥ ७ ॥
saṁstutya munayo rāmaṁprayujyāvitathāśiṣaḥabhyaṣiñcan mahā-bhāgāvṛtra-ghnaṁ vibudhā yathā
वैजयन्तीं ददुर्मालां श्रीधामाम्लानपङ्कजाम् । रामाय वाससी दिव्ये दिव्यान्याभरणानि च ॥ ८ ॥
vaijayantīṁ dadur mālāṁśrī-dhāmāmlāna-paṅkajāṁrāmāya vāsasī divyedivyāny ābharaṇāni ca
अथ तैरभ्यनुज्ञात: कौशिकीमेत्य ब्राह्मणै: । स्नात्वा सरोवरमगाद् यत: सरयूरास्रवत् ॥ ९ ॥
atha tair abhyanujñātaḥkauśikīm etya brāhmaṇaiḥsnātvā sarovaram agādyataḥ sarayūr āsravat
अनुस्रोतेन सरयूं प्रयागमुपगम्य स: । स्नात्वा सन्तर्प्य देवादीन्जगाम पुलहाश्रमम् ॥ १० ॥
anu-srotena sarayūṁprayāgam upagamya saḥsnātvā santarpya devādīnjagāma pulahāśramam
गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुत: । गयां गत्वा पितृनिष्ट्वा गङ्गासागरसङ्गमे ॥ ११ ॥ उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च । सप्तगोदावरीं वेणां पम्पां भीमरथीं तत: ॥ १२ ॥ स्कन्दं दृष्ट्वा ययौ राम: श्रीशैलं गिरिशालयम् । द्रविडेषु महापुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभु: ॥ १३ ॥ कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वराम् । श्रीरङ्गाख्यं महापुण्यं यत्र सन्निहितो हरि: ॥ १४ ॥ ऋषभाद्रिं हरे: क्षेत्रं दक्षिणां मथुरां तथा । सामुद्रं सेतुमगमत्महापातकनाशनम् ॥ १५ ॥
gomatīṁ gaṇḍakīṁ snātvāvipāśāṁ śoṇa āplutaḥgayāṁ gatvā pitṝn iṣṭvāgaṅgā-sāgara-saṅgame
तत्रायुतमदाद् धेनूर्ब्राह्मणेभ्यो हलायुध: । कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् ॥ १६ ॥ तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च । योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम् । दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श स: ॥ १७ ॥
tatrāyutam adād dhenūrbrāhmaṇebhyo halāyudhaḥkṛtamālāṁ tāmraparṇīṁmalayaṁ ca kulācalam
तत: फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम् । विष्णु: सन्निहितो यत्र स्नात्वास्पर्शद् गवायुतम् ॥ १८ ॥
tataḥ phālgunam āsādyapañcāpsarasam uttamamviṣṇuḥ sannihito yatrasnātvāsparśad gavāyutam
ततोऽभिव्रज्य भगवान् केरलांस्तु त्रिगर्तकान् । गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटे: ॥ १९ ॥ आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकमगाद् बल: । तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम् ॥ २० ॥ प्रविश्य रेवामगमद् यत्र माहिष्मती पुरी । मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् ॥ २१ ॥
tato ’bhivrajya bhagavānkeralāṁs tu trigartakāngokarṇākhyaṁ śiva-kṣetraṁsānnidhyaṁ yatra dhūrjaṭeḥ
श्रुत्वा द्विजै: कथ्यमानं कुरुपाण्डवसंयुगे । सर्वराजन्यनिधनं भारं मेने हृतं भुव: ॥ २२ ॥
śrutvā dvijaiḥ kathyamānaṁkuru-pāṇḍava-saṁyugesarva-rājanya-nidhanaṁbhāraṁ mene hṛtaṁ bhuvaḥ
स भीमदुर्योधनयोर्गदाभ्यां युध्यतोर्मृधे । वारयिष्यन् विनशनं जगाम यदुनन्दन: ॥ २३ ॥
sa bhīma-duryodhanayorgadābhyāṁ yudhyator mṛdhevārayiṣyan vinaśanaṁjagāma yadu-nandanaḥ
युधिष्ठिरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि । अभिवाद्याभवंस्तुष्णीं किं विवक्षुरिहागत: ॥ २४ ॥
yudhiṣṭhiras tu taṁ dṛṣṭvāyamau kṛṣṇārjunāv apiabhivādyābhavaṁs tuṣṇīṁkiṁ vivakṣur ihāgataḥ
गदापाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ । मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् ॥ २५ ॥
gadā-pāṇī ubhau dṛṣṭvāsaṁrabdhau vijayaiṣiṇaumaṇḍalāni vicitrāṇicarantāv idam abravīt
युवां तुल्यबलौ वीरौ हे राजन् हे वृकोदर । एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् ॥ २६ ॥
yuvāṁ tulya-balau vīrauhe rājan he vṛkodaraekaṁ prāṇādhikaṁ manyeutaikaṁ śikṣayādhikam
तस्मादेकतरस्येह युवयो: समवीर्ययो: । न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रण: ॥ २७ ॥
tasmād ekatarasyehayuvayoḥ sama-vīryayoḥna lakṣyate jayo ’nyo vāviramatv aphalo raṇaḥ
न तद्वाक्यं जगृहतुर्बद्धवैरौ नृपार्थवत् । अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च ॥ २८ ॥
na tad-vākyaṁ jagṛhaturbaddha-vairau nṛpārthavatanusmarantāv anyonyaṁduruktaṁ duṣkṛtāni ca
दिष्टं तदनुमन्वानो रामो द्वारवतीं ययौ । उग्रसेनादिभि: प्रीतैर्ज्ञातिभि: समुपागत: ॥ २९ ॥
diṣṭaṁ tad anumanvānorāmo dvāravatīṁ yayauugrasenādibhiḥ prītairjñātibhiḥ samupāgataḥ
तं पुनर्नैमिषं प्राप्तमृषयोऽयाजयन् मुदा । क्रत्वङ्गं क्रतुभि: सर्वैर्निवृत्ताखिलविग्रहम् ॥ ३० ॥
taṁ punar naimiṣaṁ prāptamṛṣayo ’yājayan mudākratv-aṅgaṁ kratubhiḥ sarvairnivṛttākhila-vigraham
तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद् विभु: । येनैवात्मन्यदो विश्वमात्मानं विश्वगं विदु: ॥ ३१ ॥
tebhyo viśuddhaṁ vijñānaṁbhagavān vyatarad vibhuḥyenaivātmany ado viśvamātmānaṁ viśva-gaṁ viduḥ
स्वपत्यावभृथस्नातो ज्ञातिबन्धुसुहृद् वृत: । रेजे स्वज्योत्स्नयेवेन्दु: सुवासा: सुष्ठ्वलङ्कृत: ॥ ३२ ॥
sva-patyāvabhṛtha-snātojñāti-bandhu-suhṛd-vṛtaḥreje sva-jyotsnayevenduḥsu-vāsāḥ suṣṭhv alaṅkṛtaḥ
ईदृग्विधान्यसङ्ख्यानि बलस्य बलशालिन: । अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि ॥ ३३ ॥
īdṛg-vidhāny asaṅkhyānibalasya bala-śālinaḥanantasyāprameyasyamāyā-martyasya santi hi
योऽनुस्मरेत रामस्य कर्माण्यद्भुतकर्मण: । सायं प्रातरनन्तस्य विष्णो: स दयितो भवेत् ॥ ३४ ॥
yo ’nusmareta rāmasyakarmāṇy adbhuta-karmaṇaḥsāyaṁ prātar anantasyaviṣṇoḥ sa dayito bhavet