← Canto 10

Canto 10, Chapter 80

Shloka 1

श्रीराजोवाचभगवन् यानि चान्यानि मुकुन्दस्य महात्मन: । वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो ॥ १ ॥

śrī-rājovācabhagavan yāni cānyānimukundasya mahātmanaḥvīryāṇy ananta-vīryasyaśrotum icchāmi he prabho

Shloka 2

को नु श्रुत्वासकृद् ब्रह्मन्नुत्तम:श्लोकसत्कथा: । विरमेत विशेषज्ञो विषण्ण: काममार्गणै: ॥ २ ॥

ko nu śrutvāsakṛd brahmannuttamaḥśloka-sat-kathāḥvirameta viśeṣa-jñoviṣaṇṇaḥ kāma-mārgaṇaiḥ

Shloka 3

सा वाग् यया तस्य गुणान् गृणीतेकरौ च तत्कर्मकरौ मनश्च । स्मरेद् वसन्तं स्थिरजङ्गमेषुश‍ृणोति तत्पुण्यकथा: स कर्ण: ॥ ३ ॥

sā vāg yayā tasya guṇān gṛṇītekarau ca tat-karma-karau manaś casmared vasantaṁ sthira-jaṅgameṣuśṛṇoti tat-puṇya-kathāḥ sa karṇaḥ

Shloka 4

शिरस्तु तस्योभयलिङ्गमान-मेत्तदेव यत् पश्यति तद्धि चक्षु: । अङ्गानि विष्णोरथ तज्जनानांपादोदकं यानि भजन्ति नित्यम् ॥ ४ ॥

śiras tu tasyobhaya-liṅgam ānamettad eva yat paśyati tad dhi cakṣuḥaṅgāni viṣṇor atha taj-janānāṁpādodakaṁ yāni bhajanti nityam

Shloka 5

सूत उवाच विष्णुरातेन सम्पृष्टो भगवान् बादरायणि: । वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ ५ ॥

sūta uvācaviṣṇu-rātena sampṛṣṭobhagavān bādarāyaṇiḥvāsudeve bhagavatinimagna-hṛdayo ’bravīt

Shloka 6

श्रीशुक उवाच कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तम: । विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रिय: ॥ ६ ॥

śrī-śuka uvācakṛṣṇasyāsīt sakhā kaścidbrāhmaṇo brahma-vittamaḥvirakta indriyārtheṣupraśāntātmā jitendriyaḥ

Shloka 7

यद‍ृच्छयोपपन्नेन वर्तमानो गृहाश्रमी । तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा ॥ ७ ॥

yadṛcchayopapannenavartamāno gṛhāśramītasya bhāryā ku-cailasyakṣut-kṣāmā ca tathā-vidhā

Shloka 8

पतिव्रता पतिं प्राह म्‍लायता वदनेन सा । दरिद्रं सीदमाना वै वेपमानाभिगम्य च ॥ ८ ॥

pati-vratā patiṁ prāhamlāyatā vadanena sādaridraṁ sīdamānā vaivepamānābhigamya ca

Shloka 9

ननु ब्रह्मन् भगवत: सखा साक्षाच्छ्रिय: पति: । ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभ: ॥ ९ ॥

nanu brahman bhagavataḥsakhā sākṣāc chriyaḥ patiḥbrahmaṇyaś ca śaraṇyaś cabhagavān sātvatarṣabhaḥ

Shloka 10

तमुपैहि महाभाग साधूनां च परायणम् । दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ १० ॥

tam upaihi mahā-bhāgasādhūnāṁ ca parāyaṇamdāsyati draviṇaṁ bhūrisīdate te kuṭumbine

Shloka 11

आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वर: । स्मरत: पादकमलमात्मानमपि यच्छति । किं न्वर्थकामान् भजतो नात्यभीष्टान् जगद्गुरु: ॥ ११ ॥

āste ’dhunā dvāravatyāṁbhoja-vṛṣṇy-andhakeśvaraḥsmarataḥ pāda-kamalamātmānam api yacchatikiṁ nv artha-kāmān bhajatonāty-abhīṣṭān jagad-guruḥ

Shloka 12-13

स एवं भार्यया विप्रो बहुश: प्रार्थितो मुहु: । अयं हि परमो लाभ उत्तम:श्लोकदर्शनम् ॥ १२ ॥ इति सञ्चिन्त्य मनसा गमनाय मतिं दधे । अप्यस्त्युपायनं किञ्चिद् गृहे कल्याणि दीयताम् ॥ १३ ॥

sa evaṁ bhāryayā viprobahuśaḥ prārthito muhuḥayaṁ hi paramo lābhauttamaḥśloka-darśanam

Shloka 14

याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् । चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम् ॥ १४ ॥

yācitvā caturo muṣṭīnviprān pṛthuka-taṇḍulāncaila-khaṇḍena tān baddhvābhartre prādād upāyanam

Shloka 15

स तानादाय विप्राग्र्‍य: प्रययौ द्वारकां किल । कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् ॥ १५ ॥

sa tān ādāya viprāgryaḥprayayau dvārakāṁ kilakṛṣṇa-sandarśanaṁ mahyaṁkathaṁ syād iti cintayan

Shloka 16-17

त्रीणि गुल्मान्यतीयाय तिस्र: कक्षाश्च सद्विज: । विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम् ॥ १६ ॥ गृहं द्वय‍ष्टसहस्राणां महिषीणां हरेर्द्विज: । विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा ॥ १७ ॥

trīṇi gulmāny atīyāyatisraḥ kakṣāś ca sa-dvijaḥvipro ’gamyāndhaka-vṛṣṇīnāṁgṛheṣv acyuta-dharmiṇām

Shloka 18

तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कमास्थित: । सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥ १८ ॥

taṁ vilokyācyuto dūrātpriyā-paryaṅkam āsthitaḥsahasotthāya cābhyetyadorbhyāṁ paryagrahīn mudā

Shloka 19

सख्यु: प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृत: । प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षण: ॥ १९ ॥

sakhyuḥ priyasya viprarṣeraṅga-saṅgāti-nirvṛtaḥprīto vyamuñcad ab-bindūnnetrābhyāṁ puṣkarekṣaṇaḥ

Shloka 20-22

अथोपवेश्य पर्यङ्के स्वयं सख्यु: समर्हणम् । उपहृत्यावनिज्यास्य पादौ पादावनेजनी: ॥ २० ॥ अग्रहीच्छिरसा राजन् भगवाँल्ल‍ोकपावन: । व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कुमै: ॥ २१ ॥ धूपै: सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा । अर्चित्वावेद्य ताम्बूलं गां च स्वागतमब्रवीत् ॥ २२ ॥

athopaveśya paryaṅkesvayam sakhyuḥ samarhaṇamupahṛtyāvanijyāsyapādau pādāvanejanīḥ

Shloka 23

कुचैलं मलिनं क्षामं द्विजं धमनिसन्ततम् । देवी पर्यचरत् साक्षाच्चामरव्यजनेन वै ॥ २३ ॥

ku-cailaṁ malinaṁ kṣāmaṁdvijaṁ dhamani-santatamdevī paryacarat sākṣāccāmara-vyajanena vai

Shloka 24

अन्त:पुरजनो द‍ृष्ट्वा कृष्णेनामलकीर्तिना । विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम् ॥ २४ ॥

antaḥ-pura-jano dṛṣṭvākṛṣṇenāmala-kīrtināvismito ’bhūd ati-prītyāavadhūtaṁ sabhājitam

Shloka 25-26

किमनेन कृतं पुण्यमवधूतेन भिक्षुणा । श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ २५ ॥ योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृत: । पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥ २६ ॥

kim anena kṛtaṁ puṇyamavadhūtena bhikṣuṇāśriyā hīnena loke ’smingarhitenādhamena ca

Shloka 27

कथयां चक्रतुर्गाथा: पूर्वा गुरुकुले सतो: । आत्मनोर्ललिता राजन् करौ गृह्य परस्परम् ॥ २७ ॥

kathayāṁ cakratur gāthāḥpūrvā gurukule satoḥātmanor lalitā rājankarau gṛhya parasparam

Shloka 28

श्रीभगवानुवाचअपि ब्रह्मन् गुरुकुलाद् भवता लब्धदक्षिणात् । समावृत्तेन धर्मज्ञ भार्योढा सद‍ृशी न वा ॥ २८ ॥

śrī-bhagavān uvācaapi brahman gurukulādbhavatā labdha-dakṣiṇātsamāvṛttena dharma-jñabhāryoḍhā sadṛśī na vā

Shloka 29

प्रायो गृहेषु ते चित्तमकामविहितं तथा । नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥ २९ ॥

prāyo gṛheṣu te cittamakāma-vihitaṁ tathānaivāti-prīyase vidvandhaneṣu viditaṁ hi me

Shloka 30

केचित् कुर्वन्ति कर्माणि कामैरहतचेतस: । त्यजन्त: प्रकृतीर्दैवीर्यथाहं लोकसङ्ग्रहम् ॥ ३० ॥

kecit kurvanti karmāṇikāmair ahata-cetasaḥtyajantaḥ prakṛtīr daivīryathāhaṁ loka-saṅgraham

Shloka 31

कच्चिद् गुरुकुले वासं ब्रह्मन् स्मरसि नौ यत: । द्विजो विज्ञाय विज्ञेयं तमस: पारमश्न‍ुते ॥ ३१ ॥

kaccid gurukule vāsaṁbrahman smarasi nau yataḥdvijo vijñāya vijñeyaṁtamasaḥ pāram aśnute

Shloka 32

स वै सत्कर्मणां साक्षाद् द्विजातेरिह सम्भव: । आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरु: ॥ ३२ ॥

sa vai sat-karmaṇāṁ sākṣāddvijāter iha sambhavaḥādyo ’ṅga yatrāśramiṇāṁyathāhaṁ jñāna-do guruḥ

Shloka 33

नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह । ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥ ३३ ॥

nanv artha-kovidā brahmanvarṇāśrama-vatām ihaye mayā guruṇā vācātaranty añjo bhavārṇavam

Shloka 34

नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा । तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ३४ ॥

nāham ijyā-prajātibhyāṁtapasopaśamena vātuṣyeyaṁ sarva-bhūtātmāguru-śuśrūṣayā yathā

Shloka 35-36

अपि न: स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ । गुरुदारैश्चोदितानामिन्धनानयने क्व‍‍चित् ॥ ३५ ॥ प्रविष्टानां महारण्यमपर्तौ सुमहद् द्विज । वातवर्षमभूत्तीव्रं निष्ठुरा: स्तनयित्नव: ॥ ३६ ॥

api naḥ smaryate brahmanvṛttaṁ nivasatāṁ gurauguru-dāraiś coditānāmindhanānayane kvacit

Shloka 37

सूर्यश्चास्तं गतस्तावत् तमसा चावृता दिश: । निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन ॥ ३७ ॥

sūryaś cāstaṁ gatas tāvattamasā cāvṛtā diśaḥnimnaṁ kūlaṁ jala-mayaṁna prājñāyata kiñcana

Shloka 38

वयं भृशं तत्र महानिलाम्बुभि-र्निहन्यमाना महुरम्बुसम्प्लवे । दिशोऽविदन्तोऽथ परस्परं वनेगृहीतहस्ता: परिबभ्रिमातुरा: ॥ ३८ ॥

vayaṁ bhṛśam tatra mahānilāmbubhirnihanyamānā mahur ambu-samplavediśo ’vidanto ’tha parasparaṁ vanegṛhīta-hastāḥ paribabhrimāturāḥ

Shloka 39

एतद् विदित्वा उदिते रवौ सान्दीपनिर्गुरु: । अन्वेषमाणो न: शिष्यानाचार्योऽपश्यदातुरान् ॥ ३९ ॥

etad viditvā uditeravau sāndīpanir guruḥanveṣamāṇo naḥ śiṣyānācāryo ’paśyad āturān

Shloka 40

अहो हे पुत्रका यूयमस्मदर्थेऽतिदु:खिता: । आत्मा वै प्राणिनां प्रेष्ठस्तमनाद‍ृत्य मत्परा: ॥ ४० ॥

aho he putrakā yūyamasmad-arthe ’ti-duḥkhitāḥātmā vai prāṇinām preṣṭhastam anādṛtya mat-parāḥ

Shloka 41

एतदेव हि सच्छिष्यै: कर्तव्यं गुरुनिष्कृतम् । यद् वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ ४१ ॥

etad eva hi sac-chiṣyaiḥkartavyaṁ guru-niṣkṛtamyad vai viśuddha-bhāvenasarvārthātmārpaṇaṁ gurau

Shloka 42

तुष्टोऽहं भो द्विजश्रेष्ठा: सत्या: सन्तु मनोरथा: । छन्दांस्ययातयामानि भवन्‍त्‍विह परत्र च ॥ ४२ ॥

tuṣṭo ’haṁ bho dvija-śreṣṭhāḥsatyāḥ santu manorathāḥchandāṁsy ayāta-yāmānibhavantv iha paratra ca

Shloka 43

इत्थंविधान्यनेकानि वसतां गुरुवेश्मनि । गुरोरनुग्रहेणैव पुमान् पूर्ण: प्रशान्तये ॥ ४३ ॥

itthaṁ-vidhāny anekānivasatāṁ guru-veśmaniguror anugraheṇaivapumān pūrṇaḥ praśāntaye

Shloka 44

श्रीब्राह्मण उवाच किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो । भवता सत्यकामेन येषां वासो गुरोरभूत् ॥ ४४ ॥

śrī-brāhmaṇa uvācakim asmābhir anirvṛttaṁdeva-deva jagad-gurobhavatā satya-kāmenayeṣāṁ vāso guror abhūt

Shloka 45

यस्यच्छन्दोमयं ब्रह्म देह आवपनं विभो । श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ४५ ॥

yasya cchando-mayaṁ brahmadeha āvapanaṁ vibhośreyasāṁ tasya guruṣuvāso ’tyanta-viḍambanam

← PrevNext →