Canto 10, Chapter 80
श्रीराजोवाचभगवन् यानि चान्यानि मुकुन्दस्य महात्मन: । वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो ॥ १ ॥
śrī-rājovācabhagavan yāni cānyānimukundasya mahātmanaḥvīryāṇy ananta-vīryasyaśrotum icchāmi he prabho
को नु श्रुत्वासकृद् ब्रह्मन्नुत्तम:श्लोकसत्कथा: । विरमेत विशेषज्ञो विषण्ण: काममार्गणै: ॥ २ ॥
ko nu śrutvāsakṛd brahmannuttamaḥśloka-sat-kathāḥvirameta viśeṣa-jñoviṣaṇṇaḥ kāma-mārgaṇaiḥ
सा वाग् यया तस्य गुणान् गृणीतेकरौ च तत्कर्मकरौ मनश्च । स्मरेद् वसन्तं स्थिरजङ्गमेषुशृणोति तत्पुण्यकथा: स कर्ण: ॥ ३ ॥
sā vāg yayā tasya guṇān gṛṇītekarau ca tat-karma-karau manaś casmared vasantaṁ sthira-jaṅgameṣuśṛṇoti tat-puṇya-kathāḥ sa karṇaḥ
शिरस्तु तस्योभयलिङ्गमान-मेत्तदेव यत् पश्यति तद्धि चक्षु: । अङ्गानि विष्णोरथ तज्जनानांपादोदकं यानि भजन्ति नित्यम् ॥ ४ ॥
śiras tu tasyobhaya-liṅgam ānamettad eva yat paśyati tad dhi cakṣuḥaṅgāni viṣṇor atha taj-janānāṁpādodakaṁ yāni bhajanti nityam
सूत उवाच विष्णुरातेन सम्पृष्टो भगवान् बादरायणि: । वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ ५ ॥
sūta uvācaviṣṇu-rātena sampṛṣṭobhagavān bādarāyaṇiḥvāsudeve bhagavatinimagna-hṛdayo ’bravīt
श्रीशुक उवाच कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तम: । विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रिय: ॥ ६ ॥
śrī-śuka uvācakṛṣṇasyāsīt sakhā kaścidbrāhmaṇo brahma-vittamaḥvirakta indriyārtheṣupraśāntātmā jitendriyaḥ
यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी । तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा ॥ ७ ॥
yadṛcchayopapannenavartamāno gṛhāśramītasya bhāryā ku-cailasyakṣut-kṣāmā ca tathā-vidhā
पतिव्रता पतिं प्राह म्लायता वदनेन सा । दरिद्रं सीदमाना वै वेपमानाभिगम्य च ॥ ८ ॥
pati-vratā patiṁ prāhamlāyatā vadanena sādaridraṁ sīdamānā vaivepamānābhigamya ca
ननु ब्रह्मन् भगवत: सखा साक्षाच्छ्रिय: पति: । ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभ: ॥ ९ ॥
nanu brahman bhagavataḥsakhā sākṣāc chriyaḥ patiḥbrahmaṇyaś ca śaraṇyaś cabhagavān sātvatarṣabhaḥ
तमुपैहि महाभाग साधूनां च परायणम् । दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ १० ॥
tam upaihi mahā-bhāgasādhūnāṁ ca parāyaṇamdāsyati draviṇaṁ bhūrisīdate te kuṭumbine
आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वर: । स्मरत: पादकमलमात्मानमपि यच्छति । किं न्वर्थकामान् भजतो नात्यभीष्टान् जगद्गुरु: ॥ ११ ॥
āste ’dhunā dvāravatyāṁbhoja-vṛṣṇy-andhakeśvaraḥsmarataḥ pāda-kamalamātmānam api yacchatikiṁ nv artha-kāmān bhajatonāty-abhīṣṭān jagad-guruḥ
स एवं भार्यया विप्रो बहुश: प्रार्थितो मुहु: । अयं हि परमो लाभ उत्तम:श्लोकदर्शनम् ॥ १२ ॥ इति सञ्चिन्त्य मनसा गमनाय मतिं दधे । अप्यस्त्युपायनं किञ्चिद् गृहे कल्याणि दीयताम् ॥ १३ ॥
sa evaṁ bhāryayā viprobahuśaḥ prārthito muhuḥayaṁ hi paramo lābhauttamaḥśloka-darśanam
याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् । चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम् ॥ १४ ॥
yācitvā caturo muṣṭīnviprān pṛthuka-taṇḍulāncaila-khaṇḍena tān baddhvābhartre prādād upāyanam
स तानादाय विप्राग्र्य: प्रययौ द्वारकां किल । कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् ॥ १५ ॥
sa tān ādāya viprāgryaḥprayayau dvārakāṁ kilakṛṣṇa-sandarśanaṁ mahyaṁkathaṁ syād iti cintayan
त्रीणि गुल्मान्यतीयाय तिस्र: कक्षाश्च सद्विज: । विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम् ॥ १६ ॥ गृहं द्वयष्टसहस्राणां महिषीणां हरेर्द्विज: । विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा ॥ १७ ॥
trīṇi gulmāny atīyāyatisraḥ kakṣāś ca sa-dvijaḥvipro ’gamyāndhaka-vṛṣṇīnāṁgṛheṣv acyuta-dharmiṇām
तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कमास्थित: । सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥ १८ ॥
taṁ vilokyācyuto dūrātpriyā-paryaṅkam āsthitaḥsahasotthāya cābhyetyadorbhyāṁ paryagrahīn mudā
सख्यु: प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृत: । प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षण: ॥ १९ ॥
sakhyuḥ priyasya viprarṣeraṅga-saṅgāti-nirvṛtaḥprīto vyamuñcad ab-bindūnnetrābhyāṁ puṣkarekṣaṇaḥ
अथोपवेश्य पर्यङ्के स्वयं सख्यु: समर्हणम् । उपहृत्यावनिज्यास्य पादौ पादावनेजनी: ॥ २० ॥ अग्रहीच्छिरसा राजन् भगवाँल्लोकपावन: । व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कुमै: ॥ २१ ॥ धूपै: सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा । अर्चित्वावेद्य ताम्बूलं गां च स्वागतमब्रवीत् ॥ २२ ॥
athopaveśya paryaṅkesvayam sakhyuḥ samarhaṇamupahṛtyāvanijyāsyapādau pādāvanejanīḥ
कुचैलं मलिनं क्षामं द्विजं धमनिसन्ततम् । देवी पर्यचरत् साक्षाच्चामरव्यजनेन वै ॥ २३ ॥
ku-cailaṁ malinaṁ kṣāmaṁdvijaṁ dhamani-santatamdevī paryacarat sākṣāccāmara-vyajanena vai
अन्त:पुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना । विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम् ॥ २४ ॥
antaḥ-pura-jano dṛṣṭvākṛṣṇenāmala-kīrtināvismito ’bhūd ati-prītyāavadhūtaṁ sabhājitam
किमनेन कृतं पुण्यमवधूतेन भिक्षुणा । श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ २५ ॥ योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृत: । पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥ २६ ॥
kim anena kṛtaṁ puṇyamavadhūtena bhikṣuṇāśriyā hīnena loke ’smingarhitenādhamena ca
कथयां चक्रतुर्गाथा: पूर्वा गुरुकुले सतो: । आत्मनोर्ललिता राजन् करौ गृह्य परस्परम् ॥ २७ ॥
kathayāṁ cakratur gāthāḥpūrvā gurukule satoḥātmanor lalitā rājankarau gṛhya parasparam
श्रीभगवानुवाचअपि ब्रह्मन् गुरुकुलाद् भवता लब्धदक्षिणात् । समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा ॥ २८ ॥
śrī-bhagavān uvācaapi brahman gurukulādbhavatā labdha-dakṣiṇātsamāvṛttena dharma-jñabhāryoḍhā sadṛśī na vā
प्रायो गृहेषु ते चित्तमकामविहितं तथा । नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥ २९ ॥
prāyo gṛheṣu te cittamakāma-vihitaṁ tathānaivāti-prīyase vidvandhaneṣu viditaṁ hi me
केचित् कुर्वन्ति कर्माणि कामैरहतचेतस: । त्यजन्त: प्रकृतीर्दैवीर्यथाहं लोकसङ्ग्रहम् ॥ ३० ॥
kecit kurvanti karmāṇikāmair ahata-cetasaḥtyajantaḥ prakṛtīr daivīryathāhaṁ loka-saṅgraham
कच्चिद् गुरुकुले वासं ब्रह्मन् स्मरसि नौ यत: । द्विजो विज्ञाय विज्ञेयं तमस: पारमश्नुते ॥ ३१ ॥
kaccid gurukule vāsaṁbrahman smarasi nau yataḥdvijo vijñāya vijñeyaṁtamasaḥ pāram aśnute
स वै सत्कर्मणां साक्षाद् द्विजातेरिह सम्भव: । आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरु: ॥ ३२ ॥
sa vai sat-karmaṇāṁ sākṣāddvijāter iha sambhavaḥādyo ’ṅga yatrāśramiṇāṁyathāhaṁ jñāna-do guruḥ
नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह । ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥ ३३ ॥
nanv artha-kovidā brahmanvarṇāśrama-vatām ihaye mayā guruṇā vācātaranty añjo bhavārṇavam
नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा । तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ३४ ॥
nāham ijyā-prajātibhyāṁtapasopaśamena vātuṣyeyaṁ sarva-bhūtātmāguru-śuśrūṣayā yathā
अपि न: स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ । गुरुदारैश्चोदितानामिन्धनानयने क्वचित् ॥ ३५ ॥ प्रविष्टानां महारण्यमपर्तौ सुमहद् द्विज । वातवर्षमभूत्तीव्रं निष्ठुरा: स्तनयित्नव: ॥ ३६ ॥
api naḥ smaryate brahmanvṛttaṁ nivasatāṁ gurauguru-dāraiś coditānāmindhanānayane kvacit
सूर्यश्चास्तं गतस्तावत् तमसा चावृता दिश: । निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन ॥ ३७ ॥
sūryaś cāstaṁ gatas tāvattamasā cāvṛtā diśaḥnimnaṁ kūlaṁ jala-mayaṁna prājñāyata kiñcana
वयं भृशं तत्र महानिलाम्बुभि-र्निहन्यमाना महुरम्बुसम्प्लवे । दिशोऽविदन्तोऽथ परस्परं वनेगृहीतहस्ता: परिबभ्रिमातुरा: ॥ ३८ ॥
vayaṁ bhṛśam tatra mahānilāmbubhirnihanyamānā mahur ambu-samplavediśo ’vidanto ’tha parasparaṁ vanegṛhīta-hastāḥ paribabhrimāturāḥ
एतद् विदित्वा उदिते रवौ सान्दीपनिर्गुरु: । अन्वेषमाणो न: शिष्यानाचार्योऽपश्यदातुरान् ॥ ३९ ॥
etad viditvā uditeravau sāndīpanir guruḥanveṣamāṇo naḥ śiṣyānācāryo ’paśyad āturān
अहो हे पुत्रका यूयमस्मदर्थेऽतिदु:खिता: । आत्मा वै प्राणिनां प्रेष्ठस्तमनादृत्य मत्परा: ॥ ४० ॥
aho he putrakā yūyamasmad-arthe ’ti-duḥkhitāḥātmā vai prāṇinām preṣṭhastam anādṛtya mat-parāḥ
एतदेव हि सच्छिष्यै: कर्तव्यं गुरुनिष्कृतम् । यद् वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ ४१ ॥
etad eva hi sac-chiṣyaiḥkartavyaṁ guru-niṣkṛtamyad vai viśuddha-bhāvenasarvārthātmārpaṇaṁ gurau
तुष्टोऽहं भो द्विजश्रेष्ठा: सत्या: सन्तु मनोरथा: । छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥ ४२ ॥
tuṣṭo ’haṁ bho dvija-śreṣṭhāḥsatyāḥ santu manorathāḥchandāṁsy ayāta-yāmānibhavantv iha paratra ca
इत्थंविधान्यनेकानि वसतां गुरुवेश्मनि । गुरोरनुग्रहेणैव पुमान् पूर्ण: प्रशान्तये ॥ ४३ ॥
itthaṁ-vidhāny anekānivasatāṁ guru-veśmaniguror anugraheṇaivapumān pūrṇaḥ praśāntaye
श्रीब्राह्मण उवाच किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो । भवता सत्यकामेन येषां वासो गुरोरभूत् ॥ ४४ ॥
śrī-brāhmaṇa uvācakim asmābhir anirvṛttaṁdeva-deva jagad-gurobhavatā satya-kāmenayeṣāṁ vāso guror abhūt
यस्यच्छन्दोमयं ब्रह्म देह आवपनं विभो । श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ४५ ॥
yasya cchando-mayaṁ brahmadeha āvapanaṁ vibhośreyasāṁ tasya guruṣuvāso ’tyanta-viḍambanam