Canto 10, Chapter 81
श्रीशुक उवाच स इत्थं द्विजमुख्येन सह सङ्कथयन् हरि: । सर्वभूतमनोऽभिज्ञ: स्मयमान उवाच तम् ॥ १ ॥ ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् । प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गति: ॥ २ ॥
śrī-śuka uvācasa itthaṁ dvija-mukhyenasaha saṅkathayan hariḥsarva-bhūta-mano-’bhijñaḥsmayamāna uvāca tam
श्रीभगवानुवाचकिमुपायनमानीतं ब्रह्मन् मे भवता गृहात् । अण्वप्युपाहृतं भक्तै: प्रेम्णा भूर्येव मे भवेत् । भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ ३ ॥
śrī-bhagavān uvācakim upāyanam ānītaṁbrahman me bhavatā gṛhātaṇv apy upāhṛtaṁ bhaktaiḥpremṇā bhury eva me bhavetbhūry apy abhaktopahṛtaṁna me toṣāya kalpate
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मन: ॥ ४ ॥
patraṁ puṣpaṁ phalaṁ toyaṁyo me bhaktyā prayacchatitad ahaṁ bhakty-upahṛtamaśnāmi prayatātmanaḥ
इत्युक्तोऽपि द्वियस्तस्मै व्रीडित: पतये श्रिय: । पृथुकप्रसृतिं राजन् न प्रायच्छदवाङ्मुख: ॥ ५ ॥
ity ukto ’pi dviyas tasmaivrīḍitaḥ pataye śriyaḥpṛthuka-prasṛtiṁ rājanna prāyacchad avāṅ-mukhaḥ
सर्वभूतात्मदृक् साक्षात् तस्यागमनकारणम् । विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा ॥ ६ ॥ पत्न्या: पतिव्रतायास्तु सखा प्रियचिकीर्षया । प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभा: ॥ ७ ॥
sarva-bhūtātma-dṛk sākṣāttasyāgamana-kāraṇamvijṅāyācintayan nāyaṁśrī-kāmo mābhajat purā
इत्थं विचिन्त्य वसनाच्चीरबद्धान्द्विजन्मन: । स्वयं जहार किमिदमिति पृथुकतण्डुलान् ॥ ८ ॥
itthaṁ vicintya vasanāccīra-baddhān dvi-janmanaḥsvayaṁ jahāra kim idamiti pṛthuka-taṇḍulān
नन्वेतदुपनीतं मे परमप्रीणनं सखे । तर्पयन्त्यङ्ग मां विश्वमेते पृथुकतण्डुला: ॥ ९ ॥
nanv etad upanītaṁ meparama-prīṇanaṁ sakhetarpayanty aṅga māṁ viśvamete pṛthuka-taṇḍulāḥ
इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे । तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिन: ॥ १० ॥
iti muṣṭiṁ sakṛj jagdhvādvitīyāṁ jagdhum ādadetāvac chrīr jagṛhe hastaṁtat-parā parameṣṭhinaḥ
एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये । अस्मिन्लोकेऽथवामुष्मिन् पुंसस्त्वत्तोषकारणम् ॥ ११ ॥
etāvatālaṁ viśvātmansarva-sampat-samṛddhayeasmin loke ’tha vāmuṣminpuṁsas tvat-toṣa-kāraṇam
ब्राह्मणस्तां तु रजनीमुषित्वाच्युतमन्दिरे । भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा ॥ १२ ॥
brāhmaṇas tāṁ tu rajanīmuṣitvācyuta-mandirebhuktvā pītvā sukhaṁ meneātmānaṁ svar-gataṁ yathā
श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दित: । जगाम स्वालयं तात पथ्यनुव्रज्य नन्दित: ॥ १३ ॥
śvo-bhūte viśva-bhāvenasva-sukhenābhivanditaḥjagāma svālayaṁ tātapathy anavrajya nanditaḥ
स चालब्ध्वा धनं कृष्णान्न तु याचितवान्स्वयम् । स्वगृहान् व्रीडितोऽगच्छन्महद्दर्शननिर्वृत: ॥ १४ ॥
sa cālabdhvā dhanaṁ kṛṣṇānna tu yācitavān svayamsva-gṛhān vrīḍito ’gacchanmahad-darśana-nirvṛtaḥ
अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया । यद् दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि ॥ १५ ॥
aho brahmaṇya-devasyadṛṣṭā brahmaṇyatā mayāyad daridratamo lakṣmīmāśliṣṭo bibhratorasi
क्वाहं दरिद्र: पापीयान् क्व कृष्ण: श्रीनिकेतन: । ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भित: ॥ १६ ॥
kvāhaṁ daridraḥ pāpīyānkva kṛṣṇaḥ śrī-niketanaḥbrahma-bandhur iti smāhaṁbāhubhyāṁ parirambhitaḥ
निवासित: प्रियाजुष्टे पर्यङ्के भ्रातरो यथा । महिष्या वीजित: श्रान्तो बालव्यजनहस्तया ॥ १७ ॥
nivāsitaḥ priyā-juṣṭeparyaṅke bhrātaro yathāmahiṣyā vījitaḥ śrāntobāla-vyajana-hastayā
शुश्रूषया परमया पादसंवाहनादिभि: । पूजितो देवदेवेन विप्रदेवेन देववत् ॥ १८ ॥
śuśrūṣayā paramayāpāda-saṁvāhanādibhiḥpūjito deva-devenavipra-devena deva-vat
स्वर्गापवर्गयो: पुंसां रसायां भुवि सम्पदाम् । सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ १९ ॥
svargāpavargayoḥ puṁsāṁrasāyāṁ bhuvi sampadāmsarvāsām api siddhīnāṁmūlaṁ tac-caraṇārcanam
अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् । इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥ २० ॥
adhano ’yaṁ dhanaṁ prāpyamādyann uccair na māṁ smaretiti kāruṇiko nūnaṁdhanaṁ me ’bhūri nādadāt
इति तच्चिन्तयन्नन्त: प्राप्तो निजगृहान्तिकम् । सूर्यानलेन्दुसङ्काशैर्विमानै: सर्वतो वृतम् ॥ २१ ॥ विचित्रोपवनोद्यानै: कूजद्द्विजकुलाकुलै: । प्रोत्फुल्लकमुदाम्भोजकह्लारोत्पलवारिभि: ॥ २२ ॥ जुष्टं स्वलङ्कृतै: पुम्भि: स्त्रीभिश्च हरिणाक्षिभि: । किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥ २३ ॥
iti tac cintayann antaḥprāpto niya-gṛhāntikamsūryānalendu-saṅkāśairvimānaiḥ sarvato vṛtam
एवं मीमांसमानं तं नरा नार्योऽमरप्रभा: । प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥ २४ ॥
evaṁ mīmāṁsamānaṁ taṁnarā nāryo ’mara-prabhāḥpratyagṛhṇan mahā-bhāgaṁgīta-vādyena bhūyasā
पतिमागतमाकर्ण्य पत्न्युद्धर्षातिसम्भ्रमा । निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात् ॥ २५ ॥
patim āgatam ākarṇyapatny uddharṣāti-sambhramāniścakrāma gṛhāt tūrṇaṁrūpiṇī śrīr ivālayāt
पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना । मीलिताक्ष्यनमद्बुद्ध्या मनसा परिषस्वजे ॥ २६ ॥
pati-vratā patiṁ dṛṣṭvāpremotkaṇṭhāśru-locanāmīlitākṣy anamad buddhyāmanasā pariṣasvaje
पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव । दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मित: ॥ २७ ॥
patnīṁ vīkṣya visphurantīṁdevīṁ vaimānikīm ivadāsīnāṁ niṣka-kaṇṭhīnāṁmadhye bhāntīṁ sa vismitaḥ
प्रीत: स्वयं तया युक्त: प्रविष्टो निजमन्दिरम् । मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥ २८ ॥
prītaḥ svayaṁ tayā yuktaḥpraviṣṭo nija-mandirammaṇi-stambha-śatopetaṁmahendra-bhavanaṁ yathā
पय:फेननिभा: शय्या दान्ता रुक्मपरिच्छदा: । पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥ २९ ॥ आसनानि च हैमानि मृदूपस्तरणानि च । मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥ ३० ॥ स्वच्छस्फटिककुड्येषु महामारकतेषु च । रत्नदीपान् भ्राजमानान् ललनारत्नसंयुता: ॥ ३१ ॥ विलोक्य ब्राह्मणस्तत्र समृद्धी: सर्वसम्पदाम् । तर्कयामास निर्व्यग्र: स्वसमृद्धिमहैतुकीम् ॥ ३२ ॥
payaḥ-phena-nibhāḥ śayyādāntā rukma-paricchadāḥparyaṅkā hema-daṇḍānicāmara-vyajanāni ca
नूनं बतैतन्मम दुर्भगस्यशश्वद्दरिद्रस्य समृद्धिहेतु: । महाविभूतेरवलोकतोऽन्योनैवोपपद्येत यदूत्तमस्य ॥ ३३ ॥
nūnaṁ bataitan mama durbhagasyaśaśvad daridrasya samṛddhi-hetuḥmahā-vibhūter avalokato ’nyonaivopapadyeta yadūttamasya
नन्वब्रुवाणो दिशते समक्षंयाचिष्णवे भूर्यपि भूरिभोज: । पर्जन्यवत्तत् स्वयमीक्षमाणोदाशार्हकाणामृषभ: सखा मे ॥ ३४ ॥
nanv abruvāṇo diśate samakṣaṁyāciṣṇave bhūry api bhūri-bhojaḥparjanya-vat tat svayam īkṣamāṇodāśārhakāṇām ṛṣabhaḥ sakhā me
किञ्चित्करोत्युर्वपि यत् स्वदत्तंसुहृत्कृतं फल्ग्वपि भूरिकारी । मयोपनीतं पृथुकैकमुष्टिंप्रत्यग्रहीत् प्रीतियुतो महात्मा ॥ ३५ ॥
kiñcit karoty urv api yat sva-dattaṁsuhṛt-kṛtaṁ phalgv api bhūri-kārīmayopaṇītaṁ pṛthukaika-muṣṭiṁpratyagrahīt prīti-yuto mahātmā
तस्यैव मे सौहृदसख्यमैत्रीदास्यं पुनर्जन्मनि जन्मनि स्यात् । महानुभावेन गुणालयेनविषज्जतस्तत्पुरुषप्रसङ्ग: ॥ ३६ ॥
tasyaiva me sauhṛda-sakhya-maitrī-dāsyaṁ punar janmani janmani syātmahānubhāvena guṇālayenaviṣajjatas tat-puruṣa-prasaṅgaḥ
भक्ताय चित्रा भगवान् हि सम्पदोराज्यं विभूतीर्न समर्थयत्यज: । अदीर्घबोधाय विचक्षण: स्वयंपश्यन् निपातं धनिनां मदोद्भवम् ॥ ३७ ॥
bhaktāya citrā bhagavān hi sampadorājyaṁ vibhūtīr na samarthayaty ajaḥadīrgha-bodhāya vicakṣaṇaḥ svayaṁpaśyan nipātaṁ dhanināṁ madodbhavam
इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने । विषयान् जायया त्यक्ष्यन्बुभुजे नातिलम्पट: ॥ ३८ ॥
itthaṁ vyavasito buddhyābhakto ’tīva janārdaneviṣayān jāyayā tyakṣyanbubhuje nāti-lampaṭaḥ
तस्य वै देवदेवस्य हरेर्यज्ञपते: प्रभो: । ब्राह्मणा: प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ ३९ ॥
tasya vai deva-devasyaharer yajña-pateḥ prabhoḥbrāhmaṇāḥ prabhavo daivaṁna tebhyo vidyate param
एवं स विप्रो भगवत्सुहृत्तदादृष्ट्वा स्वभृत्यैरजितं पराजितम् । तद्ध्यानवेगोद्ग्रथितात्मबन्धन-स्तद्धाम लेभेऽचिरत: सतां गतिम् ॥ ४० ॥
evaṁ sa vipro bhagavat-suhṛt tadādṛṣṭvā sva-bhṛtyair ajitaṁ parājitamtad-dhyāna-vegodgrathitātma-bandhanastad-dhāma lebhe ’cirataḥ satāṁ gatim
एतद् ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नर: । लब्धभावो भगवति कर्मबन्धाद् विमुच्यते ॥ ४१ ॥
etad brahmaṇya-devasyaśrutvā brahmaṇyatāṁ naraḥlabdha-bhāvo bhagavatikarma-bandhād vimucyate