← Canto 10

Canto 10, Chapter 82

Shloka 1

श्रीशुक उवाच अथैकदा द्वारवत्यां वसतो रामकृष्णयो: । सूर्योपराग: सुमहानासीत् कल्पक्षये यथा ॥ १ ॥

śrī-śuka uvācaathaikadā dvāravatyāṁvasato rāma-kṛṣṇayoḥsūryoparāgaḥ su-mahānāsīt kalpa-kṣaye yathā

Shloka 2

तं ज्ञात्वा मनुजा राजन् पुरस्तादेव सर्वत: । समन्तपञ्चकं क्षेत्रं ययु: श्रेयोविधित्सया ॥ २ ॥

taṁ jñātvā manujā rājanpurastād eva sarvataḥsamanta-pañcakaṁ kṣetraṁyayuḥ śreyo-vidhitsayā

Shloka 3-6

नि:क्षत्रियां महीं कुर्वन् राम: शस्‍त्रभृतां वर: । नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ॥ ३ ॥ ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा । लोकं सङ्ग्राहयन्नीशो यथान्योऽघापनुत्तये ॥ ४ ॥ महत्यां तीर्थयात्रायां तत्रागन् भारती: प्रजा: । वृष्णयश्च तथाक्रूरवसुदेवाहुकादय: ॥ ५ ॥ ययुर्भारत तत् क्षेत्रं स्वमघं क्षपयिष्णव: । गदप्रद्युम्नसाम्बाद्या: सुचन्द्रशुकसारणै: । आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथप: ॥ ६ ॥

niḥkṣatriyāṁ mahīṁ kurvanrāmaḥ śastra-bhṛtāṁ varaḥnṛpāṇāṁ rudhiraugheṇayatra cakre mahā-hradān

Shloka 7-8

ते रथैर्देवधिष्ण्याभैर्हयैश्च तरलप्लवै: । गजैर्नदद्भ‍िरभ्राभैर्नृभिर्विद्याधरद्युभि: ॥ ७ ॥ व्यरोचन्त महातेजा: पथि काञ्चनमालिन: । दिव्यस्रग्वस्‍त्रसन्नाहा: कलत्रै: खेचरा इव ॥ ८ ॥

te rathair deva-dhiṣṇyābhairhayaiś ca tarala-plavaiḥgajair nadadbhir abhrābhairnṛbhir vidyādhara-dyubhiḥ

Shloka 9

तत्र स्‍नात्वा महाभागा उपोष्य सुसमाहिता: । ब्राह्मणेभ्यो ददुर्धेनूर्वास:स्रग्रुक्‍ममालिनी: ॥ ९ ॥

tatra snātvā mahā-bhāgāupoṣya su-samāhitāḥbrāhmaṇebhyo dadur dhenūrvāsaḥ-srag-rukma-mālinīḥ

Shloka 10

रामह्रदेषु विधिवत् पुनराप्लुत्य वृष्णय: । ददु: स्वन्नं द्विजाग्र्‍येभ्य: कृष्णे नो भक्तिरस्त्विति ॥ १० ॥

rāma-hradeṣu vidhi-vatpunar āplutya vṛṣṇayaḥdadaḥ sv-annaṁ dvijāgryebhyaḥkṛṣṇe no bhaktir astv iti

Shloka 11

स्वयं च तदनुज्ञाता वृष्णय: कृष्णदेवता: । भुक्त्वोपविविशु: कामं स्‍निग्धच्छायाङ्‍‍घ्रिपाङ्‍‍घ्रिषु ॥ ११ ॥

svayaṁ ca tad-anujñātāvṛṣṇayaḥ kṛṣṇa-devatāḥbhuktvopaviviśuḥ kāmaṁsnigdha-cchāyāṅghripāṅghriṣu

Shloka 12-13

तत्रागतांस्ते दद‍ृशु: सुहृत्सम्बन्धिनो नृपान् । मत्स्योशीनरकौशल्यविदर्भकुरुसृञ्जयान् । काम्बोजकैकयान् मद्रान् कुन्तीनानर्तकेरलान् ॥ १२ ॥ अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृप । नन्दादीन्सुहृदो गोपान्गोपीश्चोत्कण्ठिताश्चिरम् ॥ १३ ॥

tatrāgatāṁs te dadṛśuḥsuhṛt-sambandhino nṛpānmatsyośīnara-kauśalya-vidarbha-kuru-sṛñjayān

Shloka 14

अन्योन्यसन्दर्शनहर्षरंहसाप्रोत्फुल्ल‍हृद्वक्त्रसरोरुहश्रिय: । आश्लिष्य गाढं नयनै: स्रवज्जलाहृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥ १४ ॥

anyonya-sandarśana-harṣa-raṁhasāprotphulla-hṛd-vaktra-saroruha-śriyaḥāśliṣya gāḍhaṁ nayanaiḥ sravaj-jalāhṛṣyat-tvaco ruddha-giro yayur mudam

Shloka 15

स्‍त्रियश्च संवीक्ष्य मिथोऽतिसौहृद-स्मितामलापाङ्गद‍ृशोऽभिरेभिरे । स्तनै: स्तनान् कुङ्कुमपङ्करूषितान्निहत्य दोर्भि: प्रणयाश्रुलोचना: ॥ १५ ॥

striyaś ca saṁvīkṣya mitho ’ti-sauhṛda-smitāmalāpāṅga-dṛśo ’bhirebhirestanaiḥ stanān kuṅkuma-paṅka-rūṣitānnihatya dorbhiḥ praṇayāśru-locanāḥ

Shloka 16

ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिता: । स्वागतं कुशलं पृष्ट्वा चक्रु: कृष्णकथा मिथ: ॥ १६ ॥

tato ’bhivādya te vṛddhānyaviṣṭhair abhivāditāḥsv-āgataṁ kuśalaṁ pṛṣṭvācakruḥ kṛṣṇa-kathā mithaḥ

Shloka 17

पृथा भ्रातॄन् स्वसृर्वीक्ष्य तत्पुत्रान् पितरावपि । भ्रातॄपत्नीर्मुकुन्दं च जहौ सङ्कथया शुच: ॥ १७ ॥

pṛthā bhrātṝn svasṝr vīkṣyatat-putrān pitarāv apibhrātṛ-patnīr mukundaṁ cajahau saṅkathayā śucaḥ

Shloka 18

कुन्त्युवाचआर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् । यद् वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमा: ॥ १८ ॥

kunty uvācaārya bhrātar ahaṁ manyeātmānam akṛtāśiṣamyad vā āpatsu mad-vārtāṁnānusmaratha sattamāḥ

Shloka 19

सुहृदो ज्ञातय: पुत्रा भ्रातर: पितरावपि । नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् ॥ १९ ॥

suhṛdo jñātayaḥ putrābhrātaraḥ pitarāv apinānusmaranti sva-janaṁyasya daivam adakṣiṇam

Shloka 20

श्रीवसुदेव उवाच अम्ब मास्मानसूयेथा दैवक्रीडनकान् नरान् । ईशस्य हि वशे लोक: कुरुते कार्यतेऽथ वा ॥ २० ॥

śrī-vasudeva uvācaamba māsmān asūyethādaiva-krīḍanakān narānīśasya hi vaśe lokaḥkurute kāryate ’tha vā

Shloka 21

कंसप्रतापिता: सर्वे वयं याता दिशं दिशम् । एतर्ह्येव पुन: स्थानं दैवेनासादिता: स्वस: ॥ २१ ॥

kaṁsa-pratāpitāḥ sarvevayaṁ yātā diśaṁ diśametarhy eva punaḥ sthānaṁdaivenāsāditāḥ svasaḥ

Shloka 22

श्रीशुक उवाच वसुदेवोग्रसेनाद्यैर्यदुभिस्तेऽर्चिता नृपा: । आसन्नच्युतसन्दर्शपरमानन्दनिर्वृता: ॥ २२ ॥

śrī-śuka uvācavasudevograsenādyairyadubhis te ’rcitā nṛpāḥāsann acyuta-sandarśa-paramānanda-nirvṛtāḥ

Shloka 23-26

भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा । सदारा: पाण्डवा: कुन्ती सञ्जयो विदुर: कृप: ॥ २३ ॥ कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान् । पुरुजिद्‌द्रुपद: शल्यो धृष्टकेतु: सकाशिराट् ॥ २४ ॥ दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ । युधामन्यु: सुशर्मा च ससुता बाह्लिकादय: ॥ २५ ॥ राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रता: । श्रीनिकेतं वपु: शौरे: सस्‍त्रीकं वीक्ष्य विस्मिता: ॥ २६ ॥

bhīṣmo droṇo ’mbikā-putrogāndhārī sa-sutā tathāsa-dārāḥ pāṇḍavāḥ kuntīsañjayo viduraḥ kṛpaḥ

Shloka 27

अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणा: । प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २७ ॥

atha te rāma-kṛṣṇābhyāṁsamyak prāpta-samarhaṇāḥpraśaśaṁsur mudā yuktāvṛṣṇīn kṛṣṇa-parigrahān

Shloka 28

अहो भोजपते यूयं जन्मभाजो नृणामिह । यत् पश्यथासकृत् कृष्णं दुर्दर्शमपि योगिनाम् ॥ २८ ॥

aho bhoja-pate yūyaṁjanma-bhājo nṛṇām ihayat paśyathāsakṛt kṛṣṇaṁdurdarśam api yoginām

Shloka 29-30

यद्विश्रुति: श्रुतिनुतेदमलं पुनातिपादावनेजनपयश्च वचश्च शास्‍त्रम् । भू: कालभर्जितभगापि यदङ्‍‍घ्रिपद्म-स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् ॥ २९ ॥ तद्दर्शनस्पर्शनानुपथप्रजल्प-शय्यासनाशनसयौनसपिण्डबन्ध: । येषां गृहे निरयवर्त्मनि वर्ततां व:स्वर्गापवर्गविरम: स्वयमास विष्णु: ॥ ३० ॥

yad-viśrutiḥ śruti-nutedam alaṁ punātipādāvanejana-payaś ca vacaś ca śāstrambhūḥ kāla-bharjita-bhagāpi yad-aṅghri-padma-sparśottha-śaktir abhivarṣati no ’khilārthān

Shloka 31

श्रीशुक उवाच नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् । तत्रागमद् वृतो गोपैरन:स्थार्थैर्दिद‍ृक्षया ॥ ३१ ॥

śrī-śuka uvācanandas tatra yadūn prāptānjñātvā kṛṣṇa-purogamāntatrāgamad vṛto gopairanaḥ-sthārthair didṛkṣayā

Shloka 32

तं द‍ृष्ट्वा वृष्णयो हृष्टास्तन्व: प्राणमिवोत्थिता: । परिषस्वजिरे गाढं चिरदर्शनकातरा: ॥ ३२ ॥

taṁ dṛṣṭvā vṛṣṇayo hṛṣṭāstanvaḥ prāṇam ivotthitāḥpariṣasvajire gāḍhaṁcira-darśana-kātarāḥ

Shloka 33

वसुदेव: परिष्वज्य सम्प्रीत: प्रेमविह्वल: । स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले ॥ ३३ ॥

vasudevaḥ pariṣvajyasamprītaḥ prema-vihvalaḥsmaran kaṁsa-kṛtān kleśānputra-nyāsaṁ ca gokule

Shloka 34

कृष्णरामौ परिष्वज्य पितरावभिवाद्य च । न किञ्चनोचतु: प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ ३४ ॥

kṛṣṇa-rāmau pariṣvajyapitarāv abhivādya cana kiñcanocatuḥ premṇāsāśru-kaṇṭhau kurūdvaha

Shloka 35

तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च । यशोदा च महाभागा सुतौ विजहतु: शुच: ॥ ३५ ॥

tāv ātmāsanam āropyabāhubhyāṁ parirabhya cayaśodā ca mahā-bhāgāsutau vijahatuḥ śucaḥ

Shloka 36

रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् । स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतु: ॥ ३६ ॥

rohiṇī devakī cāthapariṣvajya vrajeśvarīmsmarantyau tat-kṛtāṁ maitrīṁbāṣpa-kaṇṭhyau samūcatuḥ

Shloka 37

का विस्मरेत वां मैत्रीमनिवृत्तां व्रजेश्वरि । अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया ॥ ३७ ॥

kā vismareta vāṁ maitrīmanivṛttāṁ vrajeśvariavāpyāpy aindram aiśvaryaṁyasyā neha pratikriyā

Shloka 38

एतावद‍ृष्टपितरौ युवयो: स्म पित्रो:सम्प्रीणनाभ्युदयपोषणपालनानि । प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णो-र्न्यस्तावकुत्रचभयौ न सतां पर: स्व: ॥ ३८ ॥

etāv adṛṣṭa-pitarau yuvayoḥ sma pitroḥsamprīṇanābhyudaya-poṣaṇa-pālanāniprāpyoṣatur bhavati pakṣma ha yadvad akṣṇornyastāv akutra ca bhayau na satāṁ paraḥ svaḥ

Shloka 39

श्रीशुक उवाच गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टंयत्प्रेक्षणे द‍ृशिषु पक्ष्मकृतं शपन्ति । द‍ृग्भिर्हृदीकृतमलं परिरभ्य सर्वा-स्तद्भ‍ावमापुरपि नित्ययुजां दुरापम् ॥ ३९ ॥

śrī-śuka uvācagopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṁyat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṁ śapantidṛgbhir hṛdī-kṛtam alaṁ parirabhya sarvāstad-bhāvam āpur api nitya-yujāṁ durāpam

Shloka 40

भगवांस्तास्तथाभूता विविक्त उपसङ्गत: । आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ॥ ४० ॥

bhagavāṁs tās tathā-bhūtāvivikta upasaṅgataḥāśliṣyānāmayaṁ pṛṣṭvāprahasann idam abravīt

Shloka 41

अपि स्मरथ न: सख्य: स्वानामर्थचिकीर्षया । गतांश्चिरायिताञ्छत्रुपक्षक्षपणचेतस: ॥ ४१ ॥

api smaratha naḥ sakhyaḥsvānām artha-cikīrṣayāgatāṁś cirāyitāñ chatru-pakṣa-kṣapaṇa-cetasaḥ

Shloka 42

अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया । नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ ४२ ॥

apy avadhyāyathāsmān svidakṛta-jñāviśaṅkayānūnaṁ bhūtāni bhagavānyunakti viyunakti ca

Shloka 43

वायुर्यथा घनानीकं तृणं तूलं रजांसि च । संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत् ॥ ४३ ॥

vāyur yathā ghanānīkaṁtṛṇaṁ tūlaṁ rajāṁsi casaṁyojyākṣipate bhūyastathā bhūtāni bhūta-kṛt

Shloka 44

मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते । दिष्‍ट्या यदासीन्मत्स्‍नेहो भवतीनां मदापन: ॥ ४४ ॥

mayi bhaktir hi bhūtānāmamṛtatvāya kalpatediṣṭyā yad āsīn mat-snehobhavatīnāṁ mad-āpanaḥ

Shloka 45

अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहि: । भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गना: ॥ ४५ ॥

ahaṁ hi sarva-bhūtānāmādir anto ’ntaraṁ bahiḥbhautikānāṁ yathā khaṁ vārbhūr vāyur jyotir aṅganāḥ

Shloka 46

एवं ह्येतानि भूतानि भूतेष्वात्मात्मना तत: । उभयं मय्यथ परे पश्यताभातमक्षरे ॥ ४६ ॥

evaṁ hy etāni bhūtānibhūteṣv ātmātmanā tataḥubhayaṁ mayy atha parepaśyatābhātam akṣare

Shloka 47

श्रीशुक उवाच अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिता: । तदनुस्मरणध्वस्तजीवकोशास्तमध्यगन् ॥ ४७ ॥

śrī-śuka uvācaadhyātma-śikṣayā gopyaevaṁ kṛṣṇena śikṣitāḥtad-anusmaraṇa-dhvasta-jīva-kośās tam adhyagan

Shloka 48

आहुश्च ते नलिननाभ पदारविन्दंयोगेश्वरैर्हृदि विचिन्त्यमगाधबोधै: । संसारकूपपतितोत्तरणावलम्बंगेहं जुषामपि मनस्युदियात् सदा न: ॥ ४८ ॥

āhuś ca te nalina-nābha padāravindaṁyogeśvarair hṛdi vicintyam agādha-bodhaiḥ saṁsāra-kūpa-patitottaraṇāvalambaṁgehaṁ juṣām api manasy udiyāt sadā naḥ

← PrevNext →