Canto 10, Chapter 89
श्रीशुक उवाच सरस्वत्यास्तटे राजन्नृषय: सत्रमासत । वितर्क: समभूत्तेषां त्रिष्वधीशेषु को महान् ॥ १ ॥
śrī-śuka uvācasarasvatyās taṭe rājannṛṣayaḥ satram āsatavitarkaḥ samabhūt teṣāṁtriṣv adhīśeṣu ko mahān
तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप । तज्ज्ञप्त्यै प्रेषयामासु: सोऽभ्यगाद् ब्रह्मण: सभाम् ॥ २ ॥
tasya jijñāsayā te vaibhṛguṁ brahma-sutaṁ nṛpataj-jñaptyai preṣayām āsuḥso ’bhjagād brahmaṇaḥ sabhām
न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया । तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥ ३ ॥
na tasmai prahvaṇaṁ stotraṁcakre sattva-parīkṣayātasmai cukrodha bhagavānprajvalan svena tejasā
स आत्मन्युत्थितं मन्युमात्मजायात्मना प्रभु: । अशीशमद् यथा वह्निं स्वयोन्या वारिणात्मभू: ॥ ४ ॥
sa ātmany utthitam manyumātmajāyātmanā prabhuḥaśīśamad yathā vahniṁsva-yonyā vāriṇātma-bhūḥ
तत: कैलासमगमत् स तं देवो महेश्वर: । परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा ॥ ५ ॥
tataḥ kailāsam agamatsa taṁ devo maheśvaraḥparirabdhuṁ samārebhautthāya bhrātaraṁ mudā
नैच्छत्त्वमस्युत्पथग इति देवश्चुकोप ह । शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचन: ॥ ६ ॥ पतित्वा पादयोर्देवी सान्त्वयामास तं गिरा । अथो जगाम वैकुण्ठं यत्र देवो जनार्दन: ॥ ७ ॥
naicchat tvam asy utpatha-gaiti devaś cukopa haśūlam udyamya taṁ hantumārebhe tigma-locanaḥ
शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत् । तत उत्थाय भगवान् सह लक्ष्म्या सतां गति: ॥ ८ ॥ स्वतल्पादवरुह्याथ ननाम शिरसा मुनिम् । आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् । अजानतामागतान् व: क्षन्तुमर्हथ न: प्रभो ॥ ९ ॥
śayānaṁ śriya utsaṅgepadā vakṣasy atāḍayattata utthāya bhagavānsaha lakṣmyā satāṁ gatiḥ
पुनीहि सहलोकं मां लोकपालांश्च मद्गतान् । पादोदकेन भवतस्तीर्थानां तीर्थकारिणा ॥ १० ॥ अद्याहं भगवँल्लक्ष्म्या आसमेकान्तभाजनम् । वत्स्यत्युरसि मे भूतिर्भवत्पादहतांहस: ॥ ११ ॥
punīhi saha-lokaṁ māṁloka-pālāṁś ca mad-gatānpādodakena bhavatastīrthānāṁ tīrtha-kāriṇā
श्रीशुक उवाच एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा । निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचन: ॥ १२ ॥
śrī-śuka uvācaevaṁ bruvāṇe vaikuṇṭhebhṛgus tan-mandrayā girānirvṛtas tarpitas tūṣṇīṁbhakty-utkaṇṭho ’śru-locanaḥ
पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम् । स्वानुभूतमशेषेण राजन् भृगुरवर्णयत् ॥ १३ ॥
punaś ca satram āvrajyamunīnāṁ brahma-vādināmsvānubhūtam aśeṣeṇarājan bhṛgur avarṇayat
तन्निशम्याथ मुनयो विस्मिता मुक्तसंशया: । भूयांसं श्रद्दधुर्विष्णुं यत: शान्तिर्यतोऽभयम् ॥ १४ ॥ धर्म: साक्षाद् यतो ज्ञानं वैराग्यं च तदन्वितम् । ऐश्वर्यं चाष्टधा यस्माद् यशश्चात्ममलापहम् ॥ १५ ॥ मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम् । अकिञ्चनानां साधूनां यमाहु: परमां गतिम् ॥ १६ ॥ सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवता: । भजन्त्यनाशिष: शान्ता यं वा निपुणबुद्धय: ॥ १७ ॥
tan niśamyātha munayovismitā mukta-saṁśayāḥbhūyāṁsaṁ śraddadhur viṣṇuṁyataḥ śāntir yato ’bhayam
त्रिविधाकृतयस्तस्य राक्षसा असुरा: सुरा: । गुणिन्या मायया सृष्टा: सत्त्वं तत्तीर्थसाधनम् ॥ १८ ॥
tri-vidhākṛtayas tasyarākṣasā asurāḥ surāḥguṇinyā māyayā sṛṣṭāḥsattvaṁ tat tīrtha-sādhanam
श्रीशुक उवाच इत्थं सारस्वता विप्रा नृणां संशयनुत्तये । पुरुषस्य पदाम्भोजसेवया तद्गतिं गता: ॥ १९ ॥
śrī-śuka uvācaitthaṁ sārasvatā viprānṛṇām saṁśaya-nuttayepuruṣasya padāmbhoja-sevayā tad-gatiṁ gatāḥ
श्रीसूत उवाच इत्येतन्मुनितनयास्यपद्मगन्ध-पीयूषं भवभयभित् परस्य पुंस: । सुश्लोकं श्रवणपुटै: पिबत्यभीक्ष्णंपान्थोऽध्वभ्रमणपरिश्रमं जहाति ॥ २० ॥
śrī-sūta uvācaity etan muni-tanayāsya-padma-gandhapīyūṣaṁ bhava-bhaya-bhit parasya puṁsaḥsu-ślokaṁ śravaṇa-puṭaiḥ pibaty abhīkṣṇampāntho ’dhva-bhramaṇa-pariśramaṁ jahāti
श्रीशुक उवाच एकदा द्वारवत्यां तु विप्रपत्न्या: कुमारक: । जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत ॥ २१ ॥
śrī-śuka uvācaekadā dvāravatyāṁ tuvipra-patnyāḥ kumārakaḥjāta-mātro bhuvaṁ spṛṣṭvāmamāra kila bhārata
विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय स: । इदं प्रोवाच विलपन्नातुरो दीनमानस: ॥ २२ ॥
vipro gṛhītvā mṛtakaṁrāja-dvāry upadhāya saḥidaṁ provāca vilapannāturo dīna-mānasaḥ
ब्रह्मद्विष: शठधियो लुब्धस्य विषयात्मन: । क्षत्रबन्धो: कर्मदोषात् पञ्चत्वं मे गतोऽर्भक: ॥ २३ ॥
brahma-dviṣaḥ śaṭha-dhiyolubdhasya viṣayātmanaḥkṣatra-bandhoḥ karma-doṣātpañcatvaṁ me gato ’rbhakaḥ
हिंसाविहारं नृपतिं दु:शीलमजितेन्द्रियम् । प्रजा भजन्त्य: सीदन्ति दरिद्रा नित्यदु:खिता: ॥ २४ ॥
hiṁsā-vihāraṁ nṛpatiṁduḥśīlam ajitendriyamprajā bhajantyaḥ sīdantidaridrā nitya-duḥkhitāḥ
एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च । विसृज्य स नृपद्वारि तां गाथां समगायत ॥ २५ ॥
evaṁ dvitīyaṁ viprarṣistṛtīyaṁ tv evam eva cavisṛjya sa nṛpa-dvāritāṁ gāthāṁ samagāyata
तामर्जुन उपश्रुत्य कर्हिचित् केशवान्तिके । परेते नवमे बाले ब्राह्मणं समभाषत ॥ २६ ॥ किंस्विद् ब्रह्मंस्त्वन्निवासे इह नास्ति धनुर्धर: । राजन्यबन्धुरेते वै ब्राह्मणा: सत्रमासते ॥ २७ ॥
tām arjuna upaśrutyakarhicit keśavāntikeparete navame bālebrāhmaṇaṁ samabhāṣata
धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणा: । ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भरा: ॥ २८ ॥
dhana-dārātmajāpṛktāyatra śocanti brāhmaṇāḥte vai rājanya-veṣeṇanaṭā jīvanty asum-bharāḥ
अहं प्रजा: वां भगवन् रक्षिष्ये दीनयोरिह । अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मष: ॥ २९ ॥
ahaṁ prajāḥ vāṁ bhagavanrakṣiṣye dīnayor ihaanistīrṇa-pratijño ’gniṁpravekṣye hata-kalmaṣaḥ
श्रीब्राह्मण उवाच सङ्कर्षणो वासुदेव: प्रद्युम्नो धन्विनां वर: । अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥ ३० ॥ तत् कथं नु भवान् कर्म दुष्करं जगदीश्वरै: । त्वं चिकीर्षसि बालिश्यात् तन्न श्रद्दध्महे वयम् ॥ ३१ ॥
śrī-brāhmaṇa uvācasaṅkarṣaṇo vāsudevaḥpradyumno dhanvināṁ varaḥaniruddho ’prati-rathona trātuṁ śaknuvanti yat
श्रीअर्जुन उवाच नाहं सङ्कर्षणो ब्रह्मन् न कृष्ण: कार्ष्णिरेव च । अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनु: ॥ ३२ ॥
śrī-arjuna uvācanāhaṁ saṅkarṣaṇo brahmanna kṛṣṇaḥ kārṣṇir eva caahaṁ vā arjuno nāmagāṇḍīvaṁ yasya vai dhanuḥ
मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बकतोषणम् । मृत्युं विजित्य प्रधने आनेष्ये ते प्रजा: प्रभो ॥ ३३ ॥
māvamaṁsthā mama brahmanvīryaṁ tryambaka-toṣaṇammṛtyuṁ vijitya pradhaneāneṣye te prajāḥ prabho
एवं विश्रम्भितो विप्र: फाल्गुनेन परन्तप । जगाम स्वगृहं प्रीत: पार्थवीर्यं निशामयन् ॥ ३४ ॥
evaṁ viśrambhito vipraḥphālgunena parantapajagāma sva-gṛhaṁ prītaḥpārtha-vīryaṁ niśāmayan
प्रसूतिकाल आसन्ने भार्याया द्विजसत्तम: । पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुर: ॥ ३५ ॥
prasūti-kāla āsannebhāryāyā dvija-sattamaḥpāhi pāhi prajāṁ mṛtyority āhārjunam āturaḥ
स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम् । दिव्यान्यस्त्राणि संस्मृत्य सज्यं गाण्डीवमाददे ॥ ३६ ॥
sa upaspṛśya śucy ambhonamaskṛtya maheśvaramdivyāny astrāṇi saṁsmṛtyasajyaṁ gāṇḍīvam ādade
न्यरुणत् सूतिकागारं शरैर्नानास्त्रयोजितै: । तिर्यगूर्ध्वमध: पार्थश्चकार शरपञ्जरम् ॥ ३७ ॥
nyaruṇat sūtikāgāraṁśarair nānāstra-yojitaiḥtiryag ūrdhvam adhaḥ pārthaścakāra śara-pañjaram
तत: कुमार: सञ्जातो विप्रपत्न्या रुदन्मुहु: । सद्योऽदर्शनमापेदे सशरीरो विहायसा ॥ ३८ ॥
tataḥ kumāraḥ sañjātovipra-patnyā rudan muhuḥsadyo ’darśanam āpedesa-śarīro vihāyasā
तदाह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ । मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ॥ ३९ ॥
tadāha vipro vijayaṁvinindan kṛṣṇa-sannidhaumauḍhyaṁ paśyata me yo ’haṁśraddadhe klība-katthanam
न प्रद्युम्नो नानिरुद्धो न रामो न च केशव: । यस्य शेकु: परित्रातुं कोऽन्यस्तदवितेश्वर: ॥ ४० ॥
na pradyumno nāniruddhona rāmo na ca keśavaḥyasya śekuḥ paritrātuṁko ’nyas tad-aviteśvaraḥ
धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनु: । दैवोपसृष्टं यो मौढ्यादानिनीषति दुर्मति: ॥ ४१ ॥
dhig arjunaṁ mṛṣā-vādaṁdhig ātma-ślāghino dhanuḥdaivopasṛṣṭaṁ yo mauḍhyādāninīṣati durmatiḥ
एवं शपति विप्रर्षौ विद्यामास्थाय फाल्गुन: । ययौ संयमनीमाशु यत्रास्ते भगवान् यम: ॥ ४२ ॥
evaṁ śapati viprarṣauvidyām āsthāya phālgunaḥyayau saṁyamanīm āśuyatrāste bhagavān yamaḥ
विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात् पुरीम् । आग्नेयीं नैऋर्तीं सौम्यां वायव्यां वारुणीमथ । रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुध: ॥ ४३ ॥ ततोऽलब्धद्विजसुतो ह्यनिस्तीर्णप्रतिश्रुत: । अग्निं विविक्षु: कृष्णेन प्रत्युक्त: प्रतिषेधता ॥ ४४ ॥
viprāpatyam acakṣāṇastata aindrīm agāt purīmāgneyīṁ nairṛtīṁ saumyāṁvāyavyāṁ vāruṇīm atharasātalaṁ nāka-pṛṣṭhaṁdhiṣṇyāny anyāny udāyudhaḥ
दर्शये द्विजसूनूंस्ते मावज्ञात्मानमात्मना । ये ते न: कीर्तिं विमलां मनुष्या: स्थापयिष्यन्ति ॥ ४५ ॥
darśaye dvija-sūnūṁs temāvajñātmānam ātmanāye te naḥ kīrtiṁ vimalāṁmanuṣyāḥ sthāpayiṣyanti
इति सम्भाष्य भगवानर्जुनेन सहेश्वर: । दिव्यं स्वरथमास्थाय प्रतीचीं दिशमाविशत् ॥ ४६ ॥
iti sambhāṣya bhagavānarjunena saheśvaraḥdivyaṁ sva-ratham āsthāyapratīcīṁ diśam āviśat
सप्त द्वीपान् ससिन्धूंश्च सप्तसप्तगिरीनथ । लोकालोकं तथातीत्य विवेश सुमहत्तम: ॥ ४७ ॥
sapta dvīpān sa-sindhūṁś casapta sapta girīn athalokālokaṁ tathātītyaviveśa su-mahat tamaḥ
तत्राश्वा: शैब्यसुग्रीवमेघपुष्पबलाहका: । तमसि भ्रष्टगतयो बभूवुर्भरतर्षभ ॥ ४८ ॥ तान् दृष्ट्वा भगवान् कृष्णो महायोगेश्वरेश्वर: । सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत् पुर: ॥ ४९ ॥
tatrāśvāḥ śaibya-sugrīva-meghapuṣpa-balāhakāḥtamasi bhraṣṭa-gatayobabhūvur bharatarṣabha
तम: सुघोरं गहनं कृतं महद्विदारयद् भूरितरेण रोचिषा । मनोजवं निर्विविशे सुदर्शनंगुणच्युतो रामशरो यथा चमू: ॥ ५० ॥
tamaḥ su-ghoraṁ gahanaṁ kṛtaṁ mahadvidārayad bhūri-tareṇa rociṣāmano-javaṁ nirviviśe sudarśanaṁguṇa-cyuto rāma-śaro yathā camūḥ
द्वारेण चक्रानुपथेन तत्तम:परं परं ज्योतिरनन्तपारम् । समश्नुवानं प्रसमीक्ष्य फाल्गुन:प्रताडिताक्षो पिदधेऽक्षिणी उभे ॥ ५१ ॥
dvāreṇa cakrānupathena tat tamaḥparaṁ paraṁ jyotir ananta-pāramsamaśnuvānaṁ prasamīkṣya phālgunaḥpratāḍitākṣo pidadhe ’kṣiṇī ubhe
तत: प्रविष्ट: सलिलं नभस्वताबलीयसैजद् बृहदूर्मिभूषणम् । तत्राद्भुतं वै भवनं द्युमत्तमंभ्राजन्मणिस्तम्भसहस्रशोभितम् ॥ ५२ ॥
tataḥ praviṣṭaḥ salilaṁ nabhasvatābalīyasaijad-bṛhad-ūrmi-bhūṣaṇamtatrādbhutaṁ vai bhavanaṁ dyumat-tamaṁ bhrājan-maṇi-stambha-sahasra-śobhitam
तस्मिन् महाभोगमनन्तमद्भुतंसहस्रमूर्धन्यफणामणिद्युभि: । विभ्राजमानं द्विगुणेक्षणोल्बणंसिताचलाभं शितिकण्ठजिह्वम् ॥ ५३ ॥
tasmin mahā-bhogam anantam adbhutaṁsahasra-mūrdhanya-phaṇā-maṇi-dyubhiḥvibhrājamānaṁ dvi-guṇekṣaṇolbaṇaṁsitācalābhaṁ śiti-kaṇṭha-jihvam
ददर्श तद्भोगसुखासनं विभुंमहानुभावं पुरुषोत्तमोत्तमम् । सान्द्राम्बुदाभं सुपिशङ्गवाससंप्रसन्नवक्त्रं रुचिरायतेक्षणम् ॥ ५४ ॥ महामणिव्रातकिरीटकुण्डल-प्रभापरिक्षिप्तसहस्रकुन्तलम् । प्रलम्बचार्वष्टभुजं सकौस्तुभंश्रीवत्सलक्ष्मं वनमालया वृतम् ॥ ५५ ॥ सुनन्दनन्दप्रमुखै: स्वपार्षदै-श्चक्रादिभिर्मूर्तिधरैर्निजायुधै: । पुष्ट्या श्रिया कीर्त्यजयाखिलर्धिभि-र्निषेव्यमानं परमेष्ठिनां पतिम् ॥ ५६ ॥
dadarśa tad-bhoga-sukhāsanaṁ vibhuṁmahānubhāvaṁ puruṣottamottamamsāndrāmbudābhaṁ su-piśaṅga-vāsasaṁprasanna-vaktraṁ rucirāyatekṣaṇam
ववन्द आत्मानमनन्तमच्युतोजिष्णुश्च तद्दर्शनजातसाध्वस: । तावाह भूमा परमेष्ठिनां प्रभु-र्बद्धाञ्जली सस्मितमूर्जया गिरा ॥ ५७ ॥
vavanda ātmānam anantam acyutojiṣṇuś ca tad-darśana-jāta-sādhvasaḥtāv āha bhūmā parameṣṭhināṁ prabhurbeddhāñjalī sa-smitam ūrjayā girā
द्विजात्मजा मे युवयोर्दिदृक्षुणामयोपनीता भुवि धर्मगुप्तये । कलावतीर्णाववनेर्भरासुरान्हत्वेह भूयस्त्वरयेतमन्ति मे ॥ ५८ ॥
dvijātmajā me yuvayor didṛkṣuṇāmayopanītā bhuvi dharma-guptayekalāvatīrṇāv avaner bharāsurānhatveha bhūyas tvarayetam anti me
पूर्णकामावपि युवां नरनारायणावृषी । धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ॥ ५९ ॥
pūrṇa-kāmāv api yuvāṁnara-nārāyaṇāv ṛṣīdharmam ācaratāṁ sthityaiṛṣabhau loka-saṅgraham
इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना । ॐ इत्यानम्य भूमानमादाय द्विजदारकान् ॥ ६० ॥ न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथागतम् । विप्राय ददतु: पुत्रान् यथारूपं यथावय: ॥ ६१ ॥
ity ādiṣṭau bhagavatātau kṛṣṇau parame-ṣṭhināom ity ānamya bhūmānamādāya dvija-dārakān
निशाम्य वैष्णवं धाम पार्थ: परमविस्मित: । यत्किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ ६२ ॥
niśāmya vaiṣṇavaṁ dhāmapārthaḥ parama-vismitaḥyat kiñcit pauruṣaṁ puṁsāṁmene kṛṣṇānukampitam
इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन् । बुभुजे विषयान् ग्राम्यानीजे चात्युर्जितैर्मखै: ॥ ६३ ॥
itīdṛśāny anekānivīryāṇīha pradarśayanbubhuje viṣayān grāmyānīje cāty-urjitair makhaiḥ
प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु । यथाकालं यथैवेन्द्रो भगवान् श्रैष्ठ्यमास्थित: ॥ ६४ ॥
pravavarṣākhilān kāmānprajāsu brāhmaṇādiṣuyathā-kālaṁ yathaivendrobhagavān śraiṣṭhyam āsthitaḥ
हत्वा नृपानधर्मिष्ठान् घातयित्वार्जुनादिभि: । अञ्जसा वर्तयामास धर्मं धर्मसुतादिभि: ॥ ६५ ॥
hatvā nṛpān adharmiṣṭhānghāṭayitvārjunādibhiḥañjasā vartayām āsadharmaṁ dharma-sutādibhiḥ