← Canto 11

Canto 11, Chapter 1

Shloka 1

श्रीशुक उवाच कृत्वा दैत्यवधं कृष्ण: सरामो यदुभिर्वृत: । भुवोऽवतारयद् भारं जविष्ठं जनयन् कलिम् ॥ १ ॥

śrī-śuka uvācakṛtvā daitya-vadhaṁ kṛṣṇaḥsa-rāmo yadubhir vṛtaḥbhuvo ’vatārayad bhāraṁjaviṣṭhaṁ janayan kalim

Shloka 2

ये कोपिता: सुबहु पाण्डुसुता: सपत्नै-र्दुर्द्यूतहेलनकचग्रहणादिभिस्तान् । कृत्वा निमित्तमितरेतरत: समेतान्हत्वा नृपान् निरहरत् क्षितिभारमीश: ॥ २ ॥

ye kopitāḥ su-bahu pāṇḍu-sutāḥ sapatnairdurdyūta-helana-kaca-grahaṇādibhis tānkṛtvā nimittam itaretarataḥ sametānhatvā nṛpān niraharat kṣiti-bhāram īśaḥ

Shloka 3

भूभारराजपृतना यदुभिर्निरस्यगुप्तै: स्वबाहुभिरचिन्तयदप्रमेय: । मन्येऽवनेर्ननु गतोऽप्यगतं हि भारंयद् यादवं कुलमहो अविषह्यमास्ते ॥ ३ ॥

bhū-bhāra-rāja-pṛtanā yadubhir nirasyaguptaiḥ sva-bāhubhir acintayad aprameyaḥmanye ’vaner nanu gato ’py agataṁ hi bhāraṁyad yādavaṁ kulam aho aviṣahyam āste

Shloka 4

नैवान्यत: परिभवोऽस्य भवेत् कथञ्चिन्मत्संश्रयस्य विभवोन्नहनस्य नित्यम् । अन्त:कलिं यदुकुलस्य विधाय वेणु-स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥ ४ ॥

naivānyataḥ paribhavo ’sya bhavet kathañcinmat-saṁśrayasya vibhavonnahanasya nityamantaḥ kaliṁ yadu-kulasya vidhāya veṇu-stambasya vahnim iva śāntim upaimi dhāma

Shloka 5

एवं व्यवसितो राजन् सत्यसङ्कल्प ईश्वर: । शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभु: ॥ ५ ॥

evaṁ vyavasito rājansatya-saṅkalpa īśvaraḥśāpa-vyājena viprāṇāṁsañjahre sva-kulaṁ vibhuḥ

Shloka 6-7

स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् । गीर्भिस्ता: स्मरतां चित्तं पदैस्तानीक्षतां क्रिया: ॥ ६ ॥ आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ । तमोऽनया तरिष्यन्तीत्यगात् स्वं पदमीश्वर: ॥ ७ ॥

sva-mūrtyā loka-lāvaṇya-nirmuktyā locanaṁ nṛṇāmgīrbhis tāḥ smaratāṁ cittaṁpadais tān īkṣatāṁ kriyāḥ

Shloka 8

श्रीराजोवाचब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् । विप्रशाप: कथमभूद् वृष्णीनां कृष्णचेतसाम् ॥ ८ ॥

śrī-rājovācabrahmaṇyānāṁ vadānyānāṁnityaṁ vṛddhopasevināmvipra-śāpaḥ katham abhūdvṛṣṇīnāṁ kṛṣṇa-cetasām

Shloka 9

यन्निमित्त: स वै शापो याद‍ृशो द्विजसत्तम । कथमेकात्मनां भेद एतत् सर्वं वदस्व मे ॥ ९ ॥

yan-nimittaḥ sa vai śāpoyādṛśo dvija-sattamakatham ekātmanāṁ bhedaetat sarvaṁ vadasva me

Shloka 10

श्रीबादरायणिरुवाचबिभ्रद् वपु: सकलसुन्दरसन्निवेशंकर्माचरन् भुवि सुमङ्गलमाप्तकाम: । आस्थाय धाम रममाण उदारकीर्ति:संहर्तुमैच्छत कुलं स्थितकृत्यशेष: ॥ १० ॥

śrī-bādarāyaṇir uvācabibhrad vapuḥ sakala-sundara-sanniveśaṁkarmācaran bhuvi su-maṅgalam āpta-kāmaḥāsthāya dhāma ramamāṇa udāra-kīṛtiḥsaṁhartum aicchata kulaṁ sthita-kṛtya-śeṣaḥ

Shloka 11-12

कर्माणि पुण्यनिवहानि सुमङ्गलानिगायज्जगत्कलिमलापहराणि कृत्वा । कालात्मना निवसता यदुदेवगेहेपिण्डारकं समगमन् मुनयो निसृष्टा: ॥ ११ ॥ विश्वामित्रोऽसित: कण्वो दुर्वासा भृगुरङ्गिरा: । कश्यपो वामदेवोऽत्रिर्वसिष्ठो नारदादय: ॥ १२ ॥

karmāni puṇya-nivahāni su-maṅgalānigāyaj-jagat-kali-malāpaharāṇi kṛtvākālātmanā nivasatā yadu-deva-gehepiṇḍārakaṁ samagaman munayo nisṛṣṭāḥ

Shloka 13-15

क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दना: । उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् ॥ १३ ॥ ते वेषयित्वा स्त्रीवेषै: साम्बं जाम्बवतीसुतम् । एषा पृच्छति वो विप्रा अन्तर्वत्न्‍यसितेक्षणा ॥ १४ ॥ प्रष्टुं विलज्जती साक्षात् प्रब्रूतामोघदर्शना: । प्रसोष्यन्ती पुत्रकामा किंस्वित् सञ्जनयिष्यति ॥ १५ ॥

krīḍantas tān upavrajyakumārā yadu-nandanāḥupasaṅgṛhya papracchuravinītā vinīta-vat

Shloka 16

एवं प्रलब्धा मुनयस्तानूचु: कुपिता नृप । जनयिष्यति वो मन्दा मुषलं कुलनाशनम् ॥ १६ ॥

evaṁ pralabdhā munayastān ūcuḥ kupitā nṛpajanayiṣyati vo mandāmuṣalaṁ kula-nāśanam

Shloka 17

तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् । साम्बस्य दद‍ृशुस्तस्मिन् मुषलं खल्वयस्मयम् ॥ १७ ॥

tac chrutvā te ’ti-santrastāvimucya sahasodaramsāmbasya dadṛśus tasminmuṣalaṁ khalv ayasmayam

Shloka 18

किं कृतं मन्दभाग्यैर्न: किं वदिष्यन्ति नो जना: । इति विह्वलिता गेहानादाय मुषलं ययु: ॥ १८ ॥

kiṁ kṛtaṁ manda-bhāgyair naḥkiṁ vadiṣyanti no janāḥiti vihvalitā gehānādāya muṣalaṁ yayuḥ

Shloka 19

तच्चोपनीय सदसि परिम्‍लानमुखश्रिय: । राज्ञ आवेदयांचक्रु: सर्वयादवसन्निधौ ॥ १९ ॥

tac copanīya sadasiparimlāna-mukha-śriyaḥrājña āvedayāṁ cakruḥsarva-yādava-sannidhau

Shloka 20

श्रुत्वामोघं विप्रशापं द‍ृष्ट्वा च मुषलं नृप । विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकस: ॥ २० ॥

śrutvāmoghaṁ vipra-śāpaṁdṛṣṭvā ca muṣalaṁ nṛpavismitā bhaya-santrastābabhūvur dvārakaukasaḥ

Shloka 21

तच्चूर्णयित्वा मुषलं यदुराज: स आहुक: । समुद्रसलिले प्रास्यल्ल‍ोहं चास्यावशेषितम् ॥ २१ ॥

tac cūrṇayitvā muṣalaṁyadu-rājaḥ sa āhukaḥsamudra-salile prāsyallohaṁ cāsyāvaśeṣitam

Shloka 22

कश्चिन्मत्स्योऽग्रसील्ल‍ोहं चूर्णानि तरलैस्तत: । उह्यमानानि वेलायां लग्नान्यासन् किलैरका: ॥ २२ ॥

kaścin matsyo ’grasīl lohaṁcūrṇāni taralais tataḥuhyamānāni velāyāṁlagnāny āsan kilairakāḥ

Shloka 23

मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यै: सहार्णवे । तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥ २३ ॥

matsyo gṛhīto matsya-ghnairjālenānyaiḥ sahārṇavetasyodara-gataṁ lohaṁsa śalye lubdhako ’karot

Shloka 24

भगवाञ्ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा । कर्तुं नैच्छद् विप्रशापं कालरूप्यन्वमोदत ॥ २४ ॥

bhagavān jñāta-sarvārthaīśvaro ’pi tad-anyathākartuṁ naicchad vipra-śāpaṁkāla-rūpy anvamodata

← PrevNext →