Canto 11, Chapter 10
श्रीभगवानुवाचमयोदितेष्ववहित: स्वधर्मेषु मदाश्रय: । वर्णाश्रमकुलाचारमकामात्मा समाचरेत् ॥ १ ॥
śrī-bhagavān uvācamayoditeṣv avahitaḥsva-dharmeṣu mad-āśrayaḥvarṇāśrama-kulācāramakāmātmā samācaret
अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् । गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ २ ॥
anvīkṣeta viśuddhātmādehināṁ viṣayātmanāmguṇeṣu tattva-dhyānenasarvārambha-viparyayam
सुप्तस्य विषयालोको ध्यायतो वा मनोरथ: । नानात्मकत्वाद् विफलस्तथा भेदात्मधीर्गुणै: ॥ ३ ॥
suptasya viṣayālokodhyāyato vā manorathaḥnānātmakatvād viphalastathā bhedātma-dhīr guṇaiḥ
निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् । जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ ४ ॥
nivṛttaṁ karma sevetapravṛttaṁ mat-paras tyajetjijñāsāyāṁ sampravṛttonādriyet karma-codanām
यमानभीक्ष्णं सेवेत नियमान् मत्पर: क्वचित् । मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५ ॥
yamān abhīkṣṇaṁ sevetaniyamān mat-paraḥ kvacitmad-abhijñaṁ guruṁ śāntamupāsīta mad-ātmakam
अमान्यमत्सरो दक्षो निर्ममोदृढसौहृद: । असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ॥ ६ ॥
amāny amatsaro dakṣonirmamo dṛḍha-sauhṛdaḥasatvaro ’rtha-jijñāsuranasūyur amogha-vāk
जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु । उदासीन: समं पश्यन् सर्वेष्वर्थमिवात्मन: ॥ ७ ॥
jāyāpatya-gṛha-kṣetra-svajana-draviṇādiṣuudāsīnaḥ samaṁ paśyansarveṣv artham ivātmanaḥ
विलक्षण: स्थूलसूक्ष्माद् देहादात्मेक्षिता स्वदृक् । यथाग्निर्दारुणो दाह्याद् दाहकोऽन्य: प्रकाशक: ॥ ८ ॥
vilakṣaṇaḥ sthūla-sūkṣmāddehād ātmekṣitā sva-dṛkyathāgnir dāruṇo dāhyāddāhako ’nyaḥ prakāśakaḥ
निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् । अन्त:प्रविष्ट आधत्त एवं देहगुणान् पर: ॥ ९ ॥
nirodhotpatty-aṇu-bṛhan-nānātvaṁ tat-kṛtān guṇānantaḥ praviṣṭa ādhattaevaṁ deha-guṇān paraḥ
योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि । संसारस्तन्निबन्धोऽयं पुंसो विद्याच्छिदात्मन: ॥ १० ॥
yo ’sau guṇair viracitodeho ’yaṁ puruṣasya hisaṁsāras tan-nibandho ’yaṁpuṁso vidyā cchid ātmanaḥ
तस्माज्जिज्ञासयात्मानमात्मस्थं केवलं परम् । सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११ ॥
tasmāj jijñāsayātmānamātma-sthaṁ kevalaṁ paramsaṅgamya nirased etadvastu-buddhiṁ yathā-kramam
आचार्योऽरणिराद्य: स्यादन्तेवास्युत्तरारणि: । तत्सन्धानं प्रवचनं विद्यासन्धि: सुखावह: ॥ १२ ॥
ācāryo ’raṇir ādyaḥ syādante-vāsy uttarāraṇiḥtat-sandhānaṁ pravacanaṁvidyā-sandhiḥ sukhāvahaḥ
वैशारदी सातिविशुद्धबुद्धि-र्धुनोति मायां गुणसम्प्रसूताम् । गुणांश्च सन्दह्य यदात्ममेतत्स्वयं च शाम्यत्यसमिद् यथाग्नि: ॥ १३ ॥
vaiśāradī sāti-viśuddha-buddhirdhunoti māyāṁ guṇa-samprasūtāmgunāṁś ca sandahya yad-ātmam etatsvayaṁ ca śāṁyaty asamid yathāgniḥ
अथैषाम् कर्मकर्तृणां भोक्तृणां सुखदु:खयो: । नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४ ॥ मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी यथा । तत्तदाकृतिभेदेन जायते भिद्यते च धी: ॥ १५ ॥ एवमप्यङ्ग सर्वेषां देहिनां देहयोगत: । कालावयवत: सन्ति भावा जन्मादयोऽसकृत् ॥ १६ ॥
athaiṣām karma-kartṝṇāṁbhoktṝṇāṁ sukha-duḥkhayoḥnānātvam atha nityatvaṁloka-kālāgamātmanām
तत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते । भोक्तुश्च दु:खसुखयो: को न्वर्थो विवशं भजेत् ॥ १७ ॥
tatrāpi karmaṇāṁ karturasvātantryaṁ ca lakṣyatebhoktuś ca duḥkha-sukhayoḥko nv artho vivaśaṁ bhajet
न देहिनां सुखं किञ्चिद् विद्यते विदुषामपि । तथा च दु:खं मूढानां वृथाहङ्करणं परम् ॥ १८ ॥
na dehināṁ sukhaṁ kiñcidvidyate viduṣām apitathā ca duḥkhaṁ mūḍhānāṁvṛthāhaṅkaraṇaṁ param
यदि प्राप्तिं विघातं च जानन्ति सुखदु:खयो: । तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद् यथा ॥ १९ ॥
yadi prāptiṁ vighātaṁ cajānanti sukha-duḥkhayoḥte ’py addhā na vidur yogaṁmṛtyur na prabhaved yathā
कोऽन्वर्थ: सुखयत्येनं कामो वा मृत्युरन्तिके । आघातं नीयमानस्य वध्यस्येव न तुष्टिद: ॥ २० ॥
ko ’nv arthaḥ sukhayaty enaṁkāmo vā mṛtyur antikeāghātaṁ nīyamānasyavadhyasyeva na tuṣṭi-daḥ
श्रुतं च दृष्टवद् दुष्टं स्पर्धासूयात्ययव्ययै: । बह्वन्तरायकामत्वात् कृषिवच्चापि निष्फलम् ॥ २१ ॥
śrutaṁ ca dṛṣṭa-vad duṣṭaṁspardhāsūyātyaya-vyayaiḥbahv-antarāya-kāmatvātkṛṣi-vac cāpi niṣphalam
अन्तरायैरविहितो यदि धर्म: स्वनुष्ठित: । तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु ॥ २२ ॥
antarāyair avihitoyadi dharmaḥ sv-anuṣṭhitaḥtenāpi nirjitaṁ sthānaṁyathā gacchati tac chṛṇu
इष्ट्वेह देवता यज्ञै: स्वर्लोकं याति याज्ञिक: । भुञ्जीत देववत्तत्र भोगान् दिव्यान् निजार्जितान् ॥ २३ ॥
iṣṭveha devatā yajñaiḥsvar-lokaṁ yāti yājñikaḥbhuñjīta deva-vat tatrabhogān divyān nijārjitān
स्वपुण्योपचिते शुभ्रे विमान उपगीयते । गन्धर्वैर्विहरन् मध्ये देवीनां हृद्यवेषधृक् ॥ २४ ॥
sva-puṇyopacite śubhrevimāna upagīyategandharvair viharan madhyedevīnāṁ hṛdya-veṣa-dhṛk
स्त्रीभि: कामगयानेन किङ्किणीजालमालिना । क्रीडन् न वेदात्मपातं सुराक्रीडेषु निर्वृत: ॥ २५ ॥
strībhiḥ kāmaga-yānenakiṅkinī-jāla-mālinākrīḍan na vedātma-pātaṁsurākrīḍeṣu nirvṛtaḥ
तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते । क्षीणपुण्य: पतत्यर्वागनिच्छन् कालचालित: ॥ २६ ॥
tāvat sa modate svargeyāvat puṇyaṁ samāpyatekṣīṇa-puṇyaḥ pataty arvāganicchan kāla-cālitaḥ
यद्यधर्मरत: सङ्गादसतां वाजितेन्द्रिय: । कामात्मा कृपणो लुब्ध: स्त्रैणो भूतविहिंसक: ॥ २७ ॥ पशूनविधिनालभ्य प्रेतभूतगणान् यजन् । नरकानवशो जन्तुर्गत्वा यात्युल्बणं तम: ॥ २८ ॥ कर्माणि दु:खोदर्काणि कुर्वन् देहेन तै: पुन: । देहमाभजते तत्र किं सुखं मर्त्यधर्मिण: ॥ २९ ॥
yady adharma-rataḥ saṅgādasatāṁ vājitendriyaḥkāmātmā kṛpaṇo lubdhaḥstraiṇo bhūta-vihiṁsakaḥ
लोकानां लोकपालानां मद्भयं कल्पजीविनाम् । ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुष: ॥ ३० ॥
lokānāṁ loka-pālānāṁmad bhayaṁ kalpa-jīvināmbrahmaṇo ’pi bhayaṁ mattodvi-parārdha-parāyuṣaḥ
गुणा: सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् । जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१ ॥
guṇāḥ sṛjanti karmāṇiguṇo ’nusṛjate guṇānjīvas tu guṇa-saṁyuktobhuṅkte karma-phalāny asau
यावत् स्याद् गुणवैषम्यं तावन्नानात्वमात्मन: । नानात्वमात्मनो यावत् पारतन्त्र्यं तदैव हि ॥ ३२ ॥
yāvat syād guṇa-vaiṣamyaṁtāvan nānātvam ātmanaḥnānātvam ātmano yāvatpāratantryaṁ tadaiva hi
यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् । य एतत् समुपासीरंस्ते मुह्यन्ति शुचार्पिता: ॥ ३३ ॥
yāvad asyāsvatantratvaṁtāvad īśvarato bhayamya etat samupāsīraṁste muhyanti śucārpitāḥ
काल आत्मागमो लोक: स्वभावो धर्म एव च । इति मां बहुधा प्राहुर्गुणव्यतिकरे सति ॥ ३४ ॥
kāla ātmāgamo lokaḥsvabhāvo dharma eva caiti māṁ bahudhā prāhurguṇa-vyatikare sati
श्रीउद्धव उवाच गुणेषु वर्तमानोऽपि देहजेष्वनपावृत: । गुणैर्न बध्यते देही बध्यते वा कथं विभो ॥ ३५ ॥
śrī-uddhava uvācaguṇeṣu vartamāno ’pideha-jeṣv anapāvṛtaḥguṇair na badhyate dehībadhyate vā kathaṁ vibho
कथं वर्तेत विहरेत् कैर्वा ज्ञायेत लक्षणै: । किं भुञ्जीतोत विसृजेच्छयीतासीत याति वा ॥ ३६ ॥ एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर । नित्यबद्धो नित्यमुक्त एक एवेति मे भ्रम: ॥ ३७ ॥
kathaṁ varteta viharetkair vā jñāyeta lakṣaṇaiḥkiṁ bhuñjītota visṛjecchayītāsīta yāti vā