← Canto 11

Canto 11, Chapter 10

Shloka 1

श्रीभगवानुवाचमयोदितेष्ववहित: स्वधर्मेषु मदाश्रय: । वर्णाश्रमकुलाचारमकामात्मा समाचरेत् ॥ १ ॥

śrī-bhagavān uvācamayoditeṣv avahitaḥsva-dharmeṣu mad-āśrayaḥvarṇāśrama-kulācāramakāmātmā samācaret

Shloka 2

अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् । गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ २ ॥

anvīkṣeta viśuddhātmādehināṁ viṣayātmanāmguṇeṣu tattva-dhyānenasarvārambha-viparyayam

Shloka 3

सुप्तस्य विषयालोको ध्यायतो वा मनोरथ: । नानात्मकत्वाद् विफलस्तथा भेदात्मधीर्गुणै: ॥ ३ ॥

suptasya viṣayālokodhyāyato vā manorathaḥnānātmakatvād viphalastathā bhedātma-dhīr guṇaiḥ

Shloka 4

निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् । जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ ४ ॥

nivṛttaṁ karma sevetapravṛttaṁ mat-paras tyajetjijñāsāyāṁ sampravṛttonādriyet karma-codanām

Shloka 5

यमानभीक्ष्णं सेवेत नियमान् मत्पर: क्व‍‍चित् । मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५ ॥

yamān abhīkṣṇaṁ sevetaniyamān mat-paraḥ kvacitmad-abhijñaṁ guruṁ śāntamupāsīta mad-ātmakam

Shloka 6

अमान्यमत्सरो दक्षो निर्ममोद‍ृढसौहृद: । असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ॥ ६ ॥

amāny amatsaro dakṣonirmamo dṛḍha-sauhṛdaḥasatvaro ’rtha-jijñāsuranasūyur amogha-vāk

Shloka 7

जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु । उदासीन: समं पश्यन् सर्वेष्वर्थमिवात्मन: ॥ ७ ॥

jāyāpatya-gṛha-kṣetra-svajana-draviṇādiṣuudāsīnaḥ samaṁ paśyansarveṣv artham ivātmanaḥ

Shloka 8

विलक्षण: स्थूलसूक्ष्माद् देहादात्मेक्षिता स्वद‍ृक् । यथाग्निर्दारुणो दाह्याद् दाहकोऽन्य: प्रकाशक: ॥ ८ ॥

vilakṣaṇaḥ sthūla-sūkṣmāddehād ātmekṣitā sva-dṛkyathāgnir dāruṇo dāhyāddāhako ’nyaḥ prakāśakaḥ

Shloka 9

निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् । अन्त:प्रविष्ट आधत्त एवं देहगुणान् पर: ॥ ९ ॥

nirodhotpatty-aṇu-bṛhan-nānātvaṁ tat-kṛtān guṇānantaḥ praviṣṭa ādhattaevaṁ deha-guṇān paraḥ

Shloka 10

योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि । संसारस्तन्निबन्धोऽयं पुंसो विद्याच्छिदात्मन: ॥ १० ॥

yo ’sau guṇair viracitodeho ’yaṁ puruṣasya hisaṁsāras tan-nibandho ’yaṁpuṁso vidyā cchid ātmanaḥ

Shloka 11

तस्माज्जिज्ञासयात्मानमात्मस्थं केवलं परम् । सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११ ॥

tasmāj jijñāsayātmānamātma-sthaṁ kevalaṁ paramsaṅgamya nirased etadvastu-buddhiṁ yathā-kramam

Shloka 12

आचार्योऽरणिराद्य: स्यादन्तेवास्युत्तरारणि: । तत्सन्धानं प्रवचनं विद्यासन्धि: सुखावह: ॥ १२ ॥

ācāryo ’raṇir ādyaḥ syādante-vāsy uttarāraṇiḥtat-sandhānaṁ pravacanaṁvidyā-sandhiḥ sukhāvahaḥ

Shloka 13

वैशारदी सातिविशुद्धबुद्धि-र्धुनोति मायां गुणसम्प्रसूताम् । गुणांश्च सन्दह्य यदात्ममेतत्स्वयं च शाम्यत्यसमिद् यथाग्नि: ॥ १३ ॥

vaiśāradī sāti-viśuddha-buddhirdhunoti māyāṁ guṇa-samprasūtāmgunāṁś ca sandahya yad-ātmam etatsvayaṁ ca śāṁyaty asamid yathāgniḥ

Shloka 14-16

अथैषाम् कर्मकर्तृणां भोक्तृणां सुखदु:खयो: । नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४ ॥ मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी यथा । तत्तदाकृतिभेदेन जायते भिद्यते च धी: ॥ १५ ॥ एवमप्यङ्ग सर्वेषां देहिनां देहयोगत: । कालावयवत: सन्ति भावा जन्मादयोऽसकृत् ॥ १६ ॥

athaiṣām karma-kartṝṇāṁbhoktṝṇāṁ sukha-duḥkhayoḥnānātvam atha nityatvaṁloka-kālāgamātmanām

Shloka 17

तत्रापि कर्मणां कर्तुरस्वातन्‍त्र्‍यं च लक्ष्यते । भोक्तुश्च दु:खसुखयो: को न्वर्थो विवशं भजेत् ॥ १७ ॥

tatrāpi karmaṇāṁ karturasvātantryaṁ ca lakṣyatebhoktuś ca duḥkha-sukhayoḥko nv artho vivaśaṁ bhajet

Shloka 18

न देहिनां सुखं किञ्चिद् विद्यते विदुषामपि । तथा च दु:खं मूढानां वृथाहङ्करणं परम् ॥ १८ ॥

na dehināṁ sukhaṁ kiñcidvidyate viduṣām apitathā ca duḥkhaṁ mūḍhānāṁvṛthāhaṅkaraṇaṁ param

Shloka 19

यदि प्राप्तिं विघातं च जानन्ति सुखदु:खयो: । तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद् यथा ॥ १९ ॥

yadi prāptiṁ vighātaṁ cajānanti sukha-duḥkhayoḥte ’py addhā na vidur yogaṁmṛtyur na prabhaved yathā

Shloka 20

कोऽन्वर्थ: सुखयत्येनं कामो वा मृत्युरन्तिके । आघातं नीयमानस्य वध्यस्येव न तुष्टिद: ॥ २० ॥

ko ’nv arthaḥ sukhayaty enaṁkāmo vā mṛtyur antikeāghātaṁ nīyamānasyavadhyasyeva na tuṣṭi-daḥ

Shloka 21

श्रुतं च द‍ृष्टवद् दुष्टं स्पर्धासूयात्ययव्ययै: । बह्वन्तरायकामत्वात् कृषिवच्चापि निष्फलम् ॥ २१ ॥

śrutaṁ ca dṛṣṭa-vad duṣṭaṁspardhāsūyātyaya-vyayaiḥbahv-antarāya-kāmatvātkṛṣi-vac cāpi niṣphalam

Shloka 22

अन्तरायैरविहितो यदि धर्म: स्वनुष्ठित: । तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु ॥ २२ ॥

antarāyair avihitoyadi dharmaḥ sv-anuṣṭhitaḥtenāpi nirjitaṁ sthānaṁyathā gacchati tac chṛṇu

Shloka 23

इष्ट्वेह देवता यज्ञै: स्वर्लोकं याति याज्ञिक: । भुञ्जीत देववत्तत्र भोगान् दिव्यान् निजार्जितान् ॥ २३ ॥

iṣṭveha devatā yajñaiḥsvar-lokaṁ yāti yājñikaḥbhuñjīta deva-vat tatrabhogān divyān nijārjitān

Shloka 24

स्वपुण्योपचिते शुभ्रे विमान उपगीयते । गन्धर्वैर्विहरन् मध्ये देवीनां हृद्यवेषधृक् ॥ २४ ॥

sva-puṇyopacite śubhrevimāna upagīyategandharvair viharan madhyedevīnāṁ hṛdya-veṣa-dhṛk

Shloka 25

स्त्रीभि: कामगयानेन किङ्किणीजालमालिना । क्रीडन् न वेदात्मपातं सुराक्रीडेषु निर्वृत: ॥ २५ ॥

strībhiḥ kāmaga-yānenakiṅkinī-jāla-mālinākrīḍan na vedātma-pātaṁsurākrīḍeṣu nirvṛtaḥ

Shloka 26

तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते । क्षीणपुण्य: पतत्यर्वागनिच्छन् कालचालित: ॥ २६ ॥

tāvat sa modate svargeyāvat puṇyaṁ samāpyatekṣīṇa-puṇyaḥ pataty arvāganicchan kāla-cālitaḥ

Shloka 27-29

यद्यधर्मरत: सङ्गादसतां वाजितेन्द्रिय: । कामात्मा कृपणो लुब्ध: स्त्रैणो भूतविहिंसक: ॥ २७ ॥ पशूनविधिनालभ्य प्रेतभूतगणान् यजन् । नरकानवशो जन्तुर्गत्वा यात्युल्बणं तम: ॥ २८ ॥ कर्माणि दु:खोदर्काणि कुर्वन् देहेन तै: पुन: । देहमाभजते तत्र किं सुखं मर्त्यधर्मिण: ॥ २९ ॥

yady adharma-rataḥ saṅgādasatāṁ vājitendriyaḥkāmātmā kṛpaṇo lubdhaḥstraiṇo bhūta-vihiṁsakaḥ

Shloka 30

लोकानां लोकपालानां मद्भ‍यं कल्पजीविनाम् । ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुष: ॥ ३० ॥

lokānāṁ loka-pālānāṁmad bhayaṁ kalpa-jīvināmbrahmaṇo ’pi bhayaṁ mattodvi-parārdha-parāyuṣaḥ

Shloka 31

गुणा: सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् । जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१ ॥

guṇāḥ sṛjanti karmāṇiguṇo ’nusṛjate guṇānjīvas tu guṇa-saṁyuktobhuṅkte karma-phalāny asau

Shloka 32

यावत् स्याद् गुणवैषम्यं तावन्नानात्वमात्मन: । नानात्वमात्मनो यावत् पारतन्‍त्र्‍यं तदैव हि ॥ ३२ ॥

yāvat syād guṇa-vaiṣamyaṁtāvan nānātvam ātmanaḥnānātvam ātmano yāvatpāratantryaṁ tadaiva hi

Shloka 33

यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् । य एतत् समुपासीरंस्ते मुह्यन्ति शुचार्पिता: ॥ ३३ ॥

yāvad asyāsvatantratvaṁtāvad īśvarato bhayamya etat samupāsīraṁste muhyanti śucārpitāḥ

Shloka 34

काल आत्मागमो लोक: स्वभावो धर्म एव च । इति मां बहुधा प्राहुर्गुणव्यतिकरे सति ॥ ३४ ॥

kāla ātmāgamo lokaḥsvabhāvo dharma eva caiti māṁ bahudhā prāhurguṇa-vyatikare sati

Shloka 35

श्रीउद्धव उवाच गुणेषु वर्तमानोऽपि देहजेष्वनपावृत: । गुणैर्न बध्यते देही बध्यते वा कथं विभो ॥ ३५ ॥

śrī-uddhava uvācaguṇeṣu vartamāno ’pideha-jeṣv anapāvṛtaḥguṇair na badhyate dehībadhyate vā kathaṁ vibho

Shloka 36-37

कथं वर्तेत विहरेत् कैर्वा ज्ञायेत लक्षणै: । किं भुञ्जीतोत विसृजेच्छयीतासीत याति वा ॥ ३६ ॥ एतदच्युत मे ब्रूहि प्रश्न‍ं प्रश्न‍‌विदां वर । नित्यबद्धो नित्यमुक्त एक एवेति मे भ्रम: ॥ ३७ ॥

kathaṁ varteta viharetkair vā jñāyeta lakṣaṇaiḥkiṁ bhuñjītota visṛjecchayītāsīta yāti vā

← PrevNext →