← Canto 11

Canto 11, Chapter 11

Shloka 1

श्रीभगवानुवाचबद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुत: । गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् ॥ १ ॥

śrī-bhagavān uvācabaddho mukta iti vyākhyāguṇato me na vastutaḥguṇasya māyā-mūlatvānna me mokṣo na bandhanam

Shloka 2

शोकमोहौ सुखं दु:खं देहापत्तिश्च मायया । स्वप्नो यथात्मन: ख्याति: संसृतिर्न तु वास्तवी ॥ २ ॥

śoka-mohau sukhaṁ duḥkhaṁdehāpattiś ca māyayāsvapno yathātmanaḥ khyātiḥsaṁsṛtir na tu vāstavī

Shloka 3

विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् । मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३ ॥

vidyāvidye mama tanūviddhy uddhava śarīriṇāmmokṣa-bandha-karī ādyemāyayā me vinirmite

Shloka 4

एकस्यैव ममांशस्य जीवस्यैव महामते । बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतर: ॥ ४ ॥

ekasyaiva mamāṁśasyajīvasyaiva mahā-matebandho ’syāvidyayānādirvidyayā ca tathetaraḥ

Shloka 5

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते । विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ॥ ५ ॥

atha baddhasya muktasyavailakṣaṇyaṁ vadāmi teviruddha-dharmiṇos tātasthitayor eka-dharmiṇi

Shloka 6

सुपर्णावेतौ सद‍ृशौ सखायौयद‍ृच्छयैतौ कृतनीडौ च वृक्षे । एकस्तयो: खादति पिप्पलान्न-मन्यो निरन्नोऽपि बलेन भूयान् ॥ ६ ॥

suparṇāv etau sadṛśau sakhāyauyadṛcchayaitau kṛta-nīḍau ca vṛkṣeekas tayoḥ khādati pippalānnamanyo niranno ’pi balena bhūyān

Shloka 7

आत्मानमन्यं च स वेद विद्वा-नपिप्पलादो न तु पिप्पलाद: । योऽविद्यया युक् स तु नित्यबद्धोविद्यामयो य: स तु नित्यमुक्त: ॥ ७ ॥

ātmānam anyaṁ ca sa veda vidvānapippalādo na tu pippalādaḥyo ’vidyayā yuk sa tu nitya-baddhovidyā-mayo yaḥ sa tu nitya-muktaḥ

Shloka 8

देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थित: । अदेहस्थोऽपि देहस्थ: कुमति: स्वप्नद‍ृग् यथा ॥ ८ ॥

deha-stho ’pi na deha-sthovidvān svapnād yathotthitaḥadeha-stho ’pi deha-sthaḥkumatiḥ svapna-dṛg yathā

Shloka 9

इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च । गृह्यमाणेष्वहं कुर्यान्न विद्वान् यस्त्वविक्रिय: ॥ ९ ॥

indriyair indriyārtheṣuguṇair api guṇeṣu cagṛhyamāṇeṣv ahaṁ kuryānna vidvān yas tv avikriyaḥ

Shloka 10

दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा । वर्तमानोऽबुधस्तत्र कर्तास्मीति निबध्यते ॥ १० ॥

daivādhīne śarīre ’sminguṇa-bhāvyena karmaṇāvartamāno ’budhas tatrakartāsmīti nibadhyate

Shloka 11

एवं विरक्त: शयन आसनाटनमज्जने । दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु । न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् ॥ ११ ॥

evaṁ viraktaḥ śayanaāsanāṭana-majjanedarśana-sparśana-ghrāṇa-bhojana-śravaṇādiṣuna tathā badhyate vidvāntatra tatrādayan guṇān

Shloka 12-13

प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिल: । वैशारद्येक्षयासङ्गशितया छिन्नसंशय: ॥ १२ ॥ प्रतिबुद्ध इव स्वप्नान्नानात्वाद् विनिवर्तते ॥ १३ ॥

prakṛti-stho ’py asaṁsaktoyathā khaṁ savitānilaḥvaiśāradyekṣayāsaṅga-śitayā chinna-saṁśayaḥpratibuddha iva svapnānnānātvād vinivartate

Shloka 14

यस्य स्युर्वीतसङ्कल्पा: प्राणेन्द्रियमनोधियाम् । वृत्तय: स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणै: ॥ १४ ॥

yasya syur vīta-saṅkalpāḥprāṇendriya-mano-dhiyāmvṛttayaḥ sa vinirmuktodeha-stho ’pi hi tad-guṇaiḥ

Shloka 15

यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद् यद‍ृच्छया । अर्च्यते वा क्व‍‍चित्तत्र न व्यतिक्रियते बुध: ॥ १५ ॥

yasyātmā hiṁsyate hiṁsrairyena kiñcid yadṛcchayāarcyate vā kvacit tatrana vyatikriyate budhaḥ

Shloka 16

न स्तुवीत न निन्देत कुर्वत: साध्वसाधु वा । वदतो गुणदोषाभ्यां वर्जित: समद‍ृङ्‍मुनि: ॥ १६ ॥

na stuvīta na nindetakurvataḥ sādhv asādhu vāvadato guṇa-doṣābhyāṁvarjitaḥ sama-dṛṅ muniḥ

Shloka 17

न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनि: ॥ १७ ॥

na kuryān na vadet kiñcinna dhyāyet sādhv asādhu vāātmārāmo ’nayā vṛttyāvicarej jaḍa-van muniḥ

Shloka 18

शब्दब्रह्मणि निष्णातो न निष्णायात् परे यदि । श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षत: ॥ १८ ॥

śabda-brahmaṇi niṣṇātona niṣṇāyāt pare yadiśramas tasya śrama-phalohy adhenum iva rakṣataḥ

Shloka 19

गां दुग्धदोहामसतीं च भार्यांदेहं पराधीनमसत्प्रजां च । वित्तं त्वतीर्थीकृतमङ्ग वाचंहीनां मया रक्षति दु:खदु:खी ॥ १९ ॥

gāṁ dugdha-dohām asatīṁ ca bhāryāṁdehaṁ parādhīnam asat-prajāṁ cavittaṁ tv atīrthī-kṛtam aṅga vācaṁhīnāṁ mayā rakṣati duḥkha-duḥkhī

Shloka 20

यस्यां न मे पावनमङ्ग कर्मस्थित्युद्भ‍वप्राणनिरोधमस्य । लीलावतारेप्सितजन्म वा स्याद्वन्ध्यां गिरं तां बिभृयान्न धीर: ॥ २० ॥

yasyāṁ na me pāvanam aṅga karmasthity-udbhava-prāṇa-nirodham asyalīlāvatārepsita-janma vā syādvandhyāṁ giraṁ tāṁ bibhṛyān na dhīraḥ

Shloka 21

एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि । उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ २१ ॥

evaṁ jijñāsayāpohyanānātva-bhramam ātmaniupārameta virajaṁmano mayy arpya sarva-ge

Shloka 22

यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्ष: समाचर ॥ २२ ॥

yady anīśo dhārayituṁmano brahmaṇi niścalammayi sarvāṇi karmāṇinirapekṣaḥ samācara

Shloka 23-24

श्रद्धालुर्मत्कथा: श‍ृण्वन् सुभद्रा लोकपावनी: । गायन्ननुस्मरन् कर्म जन्म चाभिनयन् मुहु: ॥ २३ ॥ मदर्थे धर्मकामार्थानाचरन् मदपाश्रय: । लभते निश्चलां भक्तिं मय्युद्धव सनातने ॥ २४ ॥

śraddhālur mat-kathāḥ śṛṇvansu-bhadrā loka-pāvanīḥgāyann anusmaran karmajanma cābhinayan muhuḥ

Shloka 25

सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता । स वै मे दर्शितं सद्भ‍िरञ्जसा विन्दते पदम् ॥ २५ ॥

sat-saṅga-labdhayā bhaktyāmayi māṁ sa upāsitāsa vai me darśitaṁ sadbhirañjasā vindate padam

Shloka 26-27

श्रीउद्धव उवाच साधुस्तवोत्तमश्लोक मत: कीद‍ृग्विध: प्रभो । भक्तिस्त्वय्युपयुज्येत कीद‍ृशी सद्भ‍िराद‍ृता ॥ २६ ॥ एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो । प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् ॥ २७ ॥

śrī-uddhava uvācasādhus tavottama-ślokamataḥ kīdṛg-vidhaḥ prabhobhaktis tvayy upayujyetakīdṛśī sadbhir ādṛtā

Shloka 28

त्वं ब्रह्म परमं व्योम पुरुष: प्रकृते: पर: । अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपु: ॥ २८ ॥

tvaṁ brahma paramaṁ vyomapuruṣaḥ prakṛteḥ paraḥavatīrno ’si bhagavansvecchopātta-pṛthag-vapuḥ

Shloka 29-32

श्रीभगवानुवाचकृपालुरकृतद्रोहस्तितिक्षु: सर्वदेहिनाम् । सत्यसारोऽनवद्यात्मा सम: सर्वोपकारक: ॥ २९ ॥ कामैरहतधीर्दान्तो मृदु: शुचिरकिञ्चन: । अनीहो मितभुक् शान्त: स्थिरो मच्छरणो मुनि: ॥ ३० ॥ अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्‍गुण: । अमानी मानद: कल्यो मैत्र: कारुणिक: कवि: ॥ ३१ ॥ आज्ञायैवं गुणान् दोषान् मयादिष्टानपि स्वकान् । धर्मान् सन्त्यज्य य: सर्वान् मां भजेत स तु सत्तम: ॥ ३२ ॥

śrī-bhagavān uvācakṛpālur akṛta-drohastitikṣuḥ sarva-dehināmsatya-sāro ’navadyātmāsamaḥ sarvopakārakaḥ

Shloka 33

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि याद‍ृश: । भजन्त्यनन्यभावेन ते मे भक्ततमा मता: ॥ ३३ ॥

jñātvājñātvātha ye vai māṁyāvān yaś cāsmi yādṛśaḥbhajanty ananya-bhāvenate me bhaktatamā matāḥ

Shloka 34-41

मल्लिङ्गमद्भ‍क्तजनदर्शनस्पर्शनार्चनम् । परिचर्या स्तुति: प्रह्वगुणकर्मानुकीर्तनम् ॥ ३४ ॥ मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव । सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ॥ ३५ ॥ मज्जन्मकर्मकथनं मम पर्वानुमोदनम् । गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सव: ॥ ३६ ॥ यात्रा बलिविधानं च सर्ववार्षिकपर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ ३७ ॥ ममार्चास्थापने श्रद्धा स्वत: संहत्य चोद्यम: । उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि ॥ ३८ ॥ सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनै: । गृहशुश्रूषणं मह्यं दासवद् यदमायया ॥ ३९ ॥ अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥ ४० ॥ यद् यदिष्टतमं लोके यच्चातिप्रियमात्मन: । तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ ४१ ॥

mal-liṅga-mad-bhakta-jana-darśana-sparśanārcanamparicaryā stutiḥ prahva-guṇa-karmānukīrtanam

Shloka 42

सूर्योऽग्निर्ब्राह्मणा गावो वैष्णव: खं मरुज्जलम् । भूरात्मा सर्वभूतानि भद्र पूजापदानि मे ॥ ४२ ॥

sūryo ’gnir brāhmaṇā gāvovaiṣṇavaḥ khaṁ maruj jalambhūr ātmā sarva-bhūtānibhadra pūjā-padāni me

Shloka 43-45

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्‍ये गोष्वङ्ग यवसादिना ॥ ४३ ॥ वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया । वायौ मुख्यधिया तोये द्रव्यैस्तोयपुर:सरै: ॥ ४४ ॥ स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि । क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५ ॥

sūrye tu vidyayā trayyāhaviṣāgnau yajeta māmātithyena tu viprāgryegoṣv aṅga yavasādinā

Shloka 46

धिष्ण्येष्वित्येषु मद्रूपं शङ्खचक्रगदाम्बुजै: । युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहित: ॥ ४६ ॥

dhiṣṇyeṣv ity eṣu mad-rūpaṁśaṅkha-cakra-gadāmbujaiḥyuktaṁ catur-bhujaṁ śāntaṁdhyāyann arcet samāhitaḥ

Shloka 47

इष्टापूर्तेन मामेवं यो यजेत समाहित: । लभते मयि सद्भ‍‍क्तिं मत्स्मृति: साधुसेवया ॥ ४७ ॥

iṣṭā-pūrtena mām evaṁyo yajeta samāhitaḥlabhate mayi sad-bhaktiṁmat-smṛtiḥ sādhu-sevayā

Shloka 48

प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव । नोपायो विद्यते सम्यक् प्रायणं हि सतामहम् ॥ ४८ ॥

prāyeṇa bhakti-yogenasat-saṅgena vinoddhavanopāyo vidyate samyakprāyaṇaṁ hi satām aham

Shloka 49

अथैतत् परमं गुह्यं श‍ृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्य: सुहृत् सखा ॥ ४९ ॥

athaitat paramaṁ guhyaṁśṛṇvato yadu-nandanasu-gopyam api vakṣyāmitvaṁ me bhṛtyaḥ suhṛt sakhā

← PrevNext →