Canto 11, Chapter 12
श्रीभगवानुवाचन रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ १ ॥ व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमा: । यथावरुन्धे सत्सङ्ग: सर्वसङ्गापहो हि माम् ॥ २ ॥
śrī-bhagavān uvācana rodhayati māṁ yogona sāṅkhyaṁ dharma eva cana svādhyāyas tapas tyāgoneṣṭā-pūrtaṁ na dakṣiṇā
सत्सङ्गेन हि दैतेया यातुधाना मृगा: खगा: । गन्धर्वाप्सरसो नागा: सिद्धाश्चारणगुह्यका: ॥ ३ ॥ विद्याधरा मनुष्येषु वैश्या: शूद्रा: स्त्रियोऽन्त्यजा: । रजस्तम:प्रकृतयस्तस्मिंस्तस्मिन् युगे युगे ॥ ४ ॥ बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादय: । वृषपर्वा बलिर्बाणो मयश्चाथ विभीषण: ॥ ५ ॥ सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथ: । व्याध: कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे ॥ ६ ॥
sat-saṅgena hi daiteyāyātudhānā mṛgāḥ khagāḥgandharvāpsaraso nāgāḥsiddhāś cāraṇa-guhyakāḥ
ते नाधीतश्रुतिगणा नोपासितमहत्तमा: । अव्रतातप्ततपस: मत्सङ्गान्मामुपागता: ॥ ७ ॥
te nādhīta-śruti-gaṇānopāsita-mahattamāḥavratātapta-tapasaḥmat-saṅgān mām upāgatāḥ
केवलेन हि भावेन गोप्यो गावो नगा मृगा: । येऽन्ये मूढधियो नागा: सिद्धा मामीयुरञ्जसा ॥ ८ ॥
kevalena hi bhāvenagopyo gāvo nagā mṛgāḥye ’nye mūḍha-dhiyo nāgāḥsiddhā mām īyur añjasā
यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरै: । व्याख्यास्वाध्यायसन्न्यासै: प्राप्नुयाद् यत्नवानपि ॥ ९ ॥
yaṁ na yogena sāṅkhyenadāna-vrata-tapo-’dhvaraiḥvyākhyā-svādhyāya-sannyāsaiḥprāpnuyād yatnavān api
रामेण सार्धं मथुरां प्रणीतेश्वाफल्किना मय्यनुरक्तचित्ता: । विगाढभावेन न मे वियोग-तीव्राधयोऽन्यं ददृशु: सुखाय ॥ १० ॥
rāmeṇa sārdhaṁ mathurāṁ praṇīteśvāphalkinā mayy anurakta-cittāḥvigāḍha-bhāvena na me viyoga-tīvrādhayo ’nyaṁ dadṛśuḥ sukhāya
तास्ता: क्षपा: प्रेष्ठतमेन नीतामयैव वृन्दावनगोचरेण । क्षणार्धवत्ता: पुनरङ्ग तासांहीना मया कल्पसमा बभूवु: ॥ ११ ॥
tās tāḥ kṣapāḥ preṣṭhatamena nītāmayaiva vṛndāvana-gocareṇakṣaṇārdha-vat tāḥ punar aṅga tāsāṁhīnā mayā kalpa-samā babhūvuḥ
ता नाविदन् मय्यनुषङ्गबद्ध-धिय: स्वमात्मानमदस्तथेदम् । यथा समाधौ मुनयोऽब्धितोयेनद्य: प्रविष्टा इव नामरूपे ॥ १२ ॥
tā nāvidan mayy anuṣaṅga-baddha-dhiyaḥ svam ātmānam adas tathedamyathā samādhau munayo ’bdhi-toyenadyaḥ praviṣṭā iva nāma-rūpe
मत्कामा रमणं जारमस्वरूपविदोऽबला: । ब्रह्म मां परमं प्रापु: सङ्गाच्छतसहस्रश: ॥ १३ ॥
mat-kāmā ramaṇaṁ jāramasvarūpa-vido ’balāḥbrahma māṁ paramaṁ prāpuḥsaṅgāc chata-sahasraśaḥ
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥ १४ ॥ मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्या ह्यकुतोभय: ॥ १५ ॥
tasmāt tvam uddhavotsṛjyacodanāṁ praticodanāmpravṛttiṁ ca nivṛttiṁ caśrotavyaṁ śrutam eva ca
श्रीउद्धव उवाच संशय: शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ्राम्यति मे मन: ॥ १६ ॥
śrī-uddhava uvācasaṁśayaḥ śṛṇvato vācaṁtava yogeśvareśvarana nivartata ātma-sthoyena bhrāmyati me manaḥ
श्रीभगवानुवाचस एष जीवो विवरप्रसूति:प्राणेन घोषेण गुहां प्रविष्ट: । मनोमयं सूक्ष्ममुपेत्य रूपंमात्रा स्वरो वर्ण इति स्थविष्ठ: ॥ १७ ॥
śrī-bhagavān uvācasa eṣa jīvo vivara-prasūtiḥprāṇena ghoṣeṇa guhāṁ praviṣṭaḥmano-mayaṁ sūkṣmam upetya rūpaṁmātrā svaro varṇa iti sthaviṣṭhaḥ
यथानल: खेऽनिलबन्धुरुष्माबलेन दारुण्यधिमथ्यमान: । अणु: प्रजातो हविषा समेधतेतथैव मे व्यक्तिरियं हि वाणी ॥ १८ ॥
yathānalaḥ khe ’nila-bandhur uṣmābalena dāruṇy adhimathyamānaḥaṇuḥ prajāto haviṣā samedhatetathaiva me vyaktir iyaṁ hi vāṇī
एवं गदि: कर्म गतिर्विसर्गोघ्राणो रसो दृक् स्पर्श: श्रुतिश्च । सङ्कल्पविज्ञानमथाभिमान:सूत्रं रज:सत्त्वतमोविकार: ॥ १९ ॥
evaṁ gadiḥ karma gatir visargoghrāṇo raso dṛk sparśaḥ śrutiś casaṅkalpa-vijñānam athābhimānaḥsūtraṁ rajaḥ-sattva-tamo-vikāraḥ
अयं हि जीवस्त्रिवृदब्जयोनि-रव्यक्त एको वयसा स आद्य: । विश्लिष्टशक्तिर्बहुधेव भातिबीजानि योनिं प्रतिपद्य यद्वत् ॥ २० ॥
ayaṁ hi jīvas tri-vṛd abja-yoniravyakta eko vayasā sa ādyaḥviśliṣṭa-śaktir bahudheva bhātibījāni yoniṁ pratipadya yadvat
यस्मिन्निदं प्रोतमशेषमोतंपटो यथा तन्तुवितानसंस्थ: । य एष संसारतरु: पुराण:कर्मात्मक: पुष्पफले प्रसूते ॥ २१ ॥
yasminn idaṁ protam aśeṣam otaṁpaṭo yathā tantu-vitāna-saṁsthaḥya eṣa saṁsāra-taruḥ purāṇaḥkarmātmakaḥ puṣpa-phale prasūte
द्वे अस्य बीजे शतमूलस्त्रिनाल:पञ्चस्कन्ध: पञ्चरसप्रसूति: । दशैकशाखो द्विसुपर्णनीड-स्त्रिवल्कलो द्विफलोऽर्कं प्रविष्ट: ॥ २२ ॥ अदन्ति चैकं फलमस्य गृध्राग्रामेचरा एकमरण्यवासा: । हंसा य एकं बहुरूपमिज्यै-र्मायामयं वेद स वेद वेदम् ॥ २३ ॥
dve asya bīje śata-mūlas tri-nālaḥpañca-skandhaḥ pañca-rasa-prasūtiḥdaśaika-śākho dvi-suparṇa-nīḍastri-valkalo dvi-phalo ’rkaṁ praviṣṭaḥ
एवं गुरूपासनयैकभक्त्याविद्याकुठारेण शितेन धीर: । विवृश्च्य जीवाशयमप्रमत्त:सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४ ॥
evaṁ gurūpāsanayaika-bhaktyāvidyā-kuṭhāreṇa śitena dhīraḥvivṛścya jīvāśayam apramattaḥsampadya cātmānam atha tyajāstram