Canto 11, Chapter 14
श्रीउद्धव उवाच वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिन: । तेषां विकल्पप्राधान्यमुताहो एकमुख्यता ॥ १ ॥
śrī-uddhava uvācavadanti kṛṣṇa śreyāṁsibahūni brahma-vādinaḥteṣāṁ vikalpa-prādhānyamutāho eka-mukhyatā
भवतोदाहृत: स्वामिन् भक्तियोगोऽनपेक्षित: । निरस्य सर्वत: सङ्गं येन त्वय्याविशेन्मन: ॥ २ ॥
bhavatodāhṛtaḥ svāminbhakti-yogo ’napekṣitaḥnirasya sarvataḥ saṅgaṁyena tvayy āviśen manaḥ
श्रीभगवानुवाचकालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मक: ॥ ३ ॥
śrī-bhagavān uvācakālena naṣṭā pralayevāṇīyaṁ veda-saṁjñitāmayādau brahmaṇe proktādharmo yasyāṁ mad-ātmakaḥ
तेन प्रोक्ता स्व पुत्राय मनवे पूर्वजाय सा । ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षय: ॥ ४ ॥
tena proktā sva-putrāyamanave pūrva-jāya sātato bhṛgv-ādayo ’gṛhṇansapta brahma-maharṣayaḥ
तेभ्य: पितृभ्यस्तत्पुत्रा देवदानवगुह्यका: । मनुष्या: सिद्धगन्धर्वा: सविद्याधरचारणा: ॥ ५ ॥ किन्देवा: किन्नरा नागा रक्ष:किम्पुरुषादय: । बह्वयस्तेषां प्रकृतयो रज:सत्त्वतमोभुव: ॥ ६ ॥ याभिर्भूतानि भिद्यन्ते भूतानां पतयस्तथा । यथाप्रकृति सर्वेषां चित्रा वाच: स्रवन्ति हि ॥ ७ ॥
tebhyaḥ pitṛbhyas tat-putrādeva-dānava-guhyakāḥmanuṣyāḥ siddha-gandharvāḥsa-vidyādhara-cāraṇāḥ
एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् । पारम्पर्येण केषाञ्चित् पाषण्डमतयोऽपरे ॥ ८ ॥
evaṁ prakṛti-vaicitryādbhidyante matayo nṛṇāmpāramparyeṇa keṣāñcitpāṣaṇḍa-matayo ’pare
मन्मायामोहितधिय: पुरुषा: पुरुषर्षभ । श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥ ९ ॥
man-māyā-mohita-dhiyaḥpuruṣāḥ puruṣarṣabhaśreyo vadanty anekāntaṁyathā-karma yathā-ruci
धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् । अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् । केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ १० ॥
dharmam eke yaśaś cānyekāmaṁ satyaṁ damaṁ śamamanye vadanti svārthaṁ vāaiśvaryaṁ tyāga-bhojanamkecid yajñaṁ tapo dānaṁvratāni niyamān yamān
आद्यन्तवन्त एवैषां लोका: कर्मविनिर्मिता: । दु:खोदर्कास्तमोनिष्ठा: क्षुद्रा मन्दा: शुचार्पिता: ॥ ११ ॥
ādy-anta-vanta evaiṣāṁlokāḥ karma-vinirmitāḥduḥkhodarkās tamo-niṣṭhāḥkṣudrā mandāḥ śucārpitāḥ
मय्यर्पितात्मन: सभ्य निरपेक्षस्य सर्वत: । मयात्मना सुखं यत्तत् कुत: स्याद् विषयात्मनाम् ॥ १२ ॥
mayy arpitātmanaḥ sabhyanirapekṣasya sarvataḥmayātmanā sukhaṁ yat tatkutaḥ syād viṣayātmanām
अकिञ्चनस्य दान्तस्य शान्तस्य समचेतस: । मया सन्तुष्टमनस: सर्वा: सुखमया दिश: ॥ १३ ॥
akiñcanasya dāntasyaśāntasya sama-cetasaḥmayā santuṣṭa-manasaḥsarvāḥ sukha-mayā diśaḥ
न पारमेष्ठ्यं न महेन्द्रधिष्ण्यंन सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वामय्यर्पितात्मेच्छति मद्विनान्यत् ॥ १४ ॥
na pārameṣṭhyaṁ na mahendra-dhiṣṇyaṁna sārvabhaumaṁ na rasādhipatyamna yoga-siddhīr apunar-bhavaṁ vāmayy arpitātmecchati mad vinānyat
न तथा मे प्रियतम आत्मयोनिर्न शङ्कर: । न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥ १५ ॥
na tathā me priyatamaātma-yonir na śaṅkaraḥna ca saṅkarṣaṇo na śrīrnaivātmā ca yathā bhavān
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभि: ॥ १६ ॥
nirapekṣaṁ muniṁ śāntaṁnirvairaṁ sama-darśanamanuvrajāmy ahaṁ nityaṁpūyeyety aṅghri-reṇubhiḥ
निष्किञ्चना मय्यनुरक्तचेतस:शान्ता महान्तोऽखिलजीववत्सला: । कामैरनालब्धधियो जुषन्ति तेयन्नैरपेक्ष्यं न विदु: सुखं मम ॥ १७ ॥
niṣkiñcanā mayy anurakta-cetasaḥśāntā mahānto ’khila-jīva-vatsalāḥkāmair anālabdha-dhiyo juṣanti teyan nairapekṣyaṁ na viduḥ sukhaṁ mama
बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रिय: । प्राय: प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ १८ ॥
bādhyamāno ’pi mad-bhaktoviṣayair ajitendriyaḥprāyaḥ pragalbhayā bhaktyāviṣayair nābhibhūyate
यथाग्नि: सुसमृद्धार्चि: करोत्येधांसि भस्मसात् । तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नश: ॥ १९ ॥
yathāgniḥ su-samṛddhārciḥkaroty edhāṁsi bhasmasāttathā mad-viṣayā bhaktiruddhavaināṁsi kṛtsnaśaḥ
न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ २० ॥
na sādhayati māṁ yogona sāṅkhyaṁ dharma uddhavana svādhyāyas tapas tyāgoyathā bhaktir mamorjitā
भक्त्याहमेकया ग्राह्य: श्रद्धयात्मा प्रिय: सताम् । भक्ति: पुनाति मन्निष्ठा श्वपाकानपि सम्भवात् ॥ २१ ॥
bhaktyāham ekayā grāhyaḥśraddhayātmā priyaḥ satāmbhaktiḥ punāti man-niṣṭhāśva-pākān api sambhavāt
धर्म: सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥ २२ ॥
dharmaḥ satya-dayopetovidyā vā tapasānvitāmad-bhaktyāpetam ātmānaṁna samyak prapunāti hi
कथं विना रोमहर्षं द्रवता चेतसा विना । विनानन्दाश्रुकलया शुध्येद् भक्त्या विनाशय: ॥ २३ ॥
kathaṁ vinā roma-harṣaṁdravatā cetasā vināvinānandāśru-kalayāśudhyed bhaktyā vināśayaḥ
वाग् गद्गदा द्रवते यस्य चित्तंरुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते चमद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥
vāg gadgadā dravate yasya cittaṁrudaty abhīkṣṇaṁ hasati kvacic cavilajja udgāyati nṛtyate camad-bhakti-yukto bhuvanaṁ punāti
यथाग्निना हेम मलं जहातिध्मातं पुन: स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूयमद्भक्तियोगेन भजत्यथो माम् ॥ २५ ॥
yathāgninā hema malaṁ jahātidhmātaṁ punaḥ svaṁ bhajate ca rūpamātmā ca karmānuśayaṁ vidhūyamad-bhakti-yogena bhajaty atho mām
यथा यथात्मा परिमृज्यतेऽसौमत्पुण्यगाथाश्रवणाभिधानै: । तथा तथा पश्यति वस्तु सूक्ष्मंचक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥ २६ ॥
yathā yathātmā parimṛjyate ’saumat-puṇya-gāthā-śravaṇābhidhānaiḥtathā tathā paśyati vastu sūkṣmaṁcakṣur yathaivāñjana-samprayuktam
विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते । मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ २७ ॥
viṣayān dhyāyataś cittaṁviṣayeṣu viṣajjatemām anusmarataś cittaṁmayy eva pravilīyate
तस्मादसदभिध्यानं यथा स्वप्नमनोरथम् । हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥ २८ ॥
tasmād asad-abhidhyānaṁyathā svapna-manorathamhitvā mayi samādhatsvamano mad-bhāva-bhāvitam
स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् । क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रित: ॥ २९ ॥
strīṇāṁ strī-saṅgināṁ saṅgaṁtyaktvā dūrata ātmavānkṣeme vivikta āsīnaścintayen mām atandritaḥ
न तथास्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गत: । योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गत: ॥ ३० ॥
na tathāsya bhavet kleśobandhaś cānya-prasaṅgataḥyoṣit-saṅgād yathā puṁsoyathā tat-saṅgi-saṅgataḥ
श्रीउद्धव उवाच यथा त्वामरविन्दाक्ष यादृशं वा यदात्मकम् । ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ ३१ ॥
śrī-uddhava uvācayathā tvām aravindākṣayādṛśaṁ vā yad-ātmakamdhyāyen mumukṣur etan medhyānaṁ tvaṁ vaktum arhasi
श्रीभगवानुवाचसम आसन आसीन: समकायो यथासुखम् । हस्तावुत्सङ्ग आधाय स्वनासाग्रकृतेक्षण: ॥ ३२ ॥ प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकै: । विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रिय: ॥ ३३ ॥
śrī-bhagavān uvācasama āsana āsīnaḥsama-kāyo yathā-sukhamhastāv utsaṅga ādhāyasva-nāsāgra-kṛtekṣaṇaḥ
हृद्यविच्छिन्नमोङ्कारं घण्टानादं बिसोर्णवत् । प्राणेनोदीर्य तत्राथ पुन: संवेशयेत् स्वरम् ॥ ३४ ॥
hṛdy avicchinam oṁkāraṁghaṇṭā-nādaṁ bisorṇa-vatprāṇenodīrya tatrāthapunaḥ saṁveśayet svaram
एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् । दशकृत्वस्त्रिषवणं मासादर्वाग् जितानिल: ॥ ३५ ॥
evaṁ praṇava-saṁyuktaṁprāṇam eva samabhyasetdaśa-kṛtvas tri-ṣavaṇaṁmāsād arvāg jitānilaḥ
हृत्पुण्डरीकमन्त:स्थमूर्ध्वनालमधोमुखम् । ध्यात्वोर्ध्वमुखमुन्निद्रमष्टपत्रं सकर्णिकम् । कर्णिकायां न्यसेत् सूर्यसोमाग्नीनुत्तरोत्तरम् ॥ ३६ ॥ वह्निमध्ये स्मरेद् रूपं ममैतद् ध्यानमङ्गलम् । समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ॥ ३७ ॥ सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् । समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् ॥ ३८ ॥ हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् । शङ्खचक्रगदापद्मवनमालाविभूषितम् ॥ ३९ ॥ नूपुरैर्विलसत्पादं कौस्तुभप्रभया युतम् । द्युमत्किरीटकटककटिसूत्राङ्गदायुतम् ॥ ४० ॥ सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखेक्षणम् । सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ ४१ ॥ इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन्मन: । बुद्ध्या सारथिना धीर: प्रणयेन्मयि सर्वत: ॥ ४२ ॥
hṛt-puṇḍarīkam antaḥ-sthamūrdhva-nālam adho-mukhamdhyātvordhva-mukham unnidramaṣṭa-patraṁ sa-karṇikam
तत् सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् । नान्यानि चिन्तयेद् भूय: सुस्मितं भावयेन्मुखम् ॥ ४३ ॥
tat sarva-vyāpakaṁ cittamākṛṣyaikatra dhārayetnānyāni cintayed bhūyaḥsu-smitaṁ bhāvayen mukham
तत्र लब्धपदं चित्तमाकृष्य व्योम्नि धारयेत् । तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥
tatra labdha-padaṁ cittamākṛṣya vyomni dhārayettac ca tyaktvā mad-ārohona kiñcid api cintayet
एवं समाहितमतिर्मामेवात्मानमात्मनि । विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥
evaṁ samāhita-matirmām evātmānam ātmanivicaṣṭe mayi sarvātmanjyotir jyotiṣi saṁyutam
ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मन: । संयास्यत्याशु निर्वाणं द्रव्य ज्ञानक्रियाभ्रम: ॥ ४६ ॥
dhyānenetthaṁ su-tīvreṇayuñjato yogino manaḥsaṁyāsyaty āśu nirvāṇaṁdravya jñāna-kriyā-bhramaḥ