Canto 11, Chapter 17
श्रीउद्धव उवाच यस्त्वयाभिहित: पूर्वं धर्मस्त्वद्भक्तिलक्षण: । वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥ १ ॥ यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् । स्वधर्मेणारविन्दाक्ष तन् ममाख्यातुमर्हसि ॥ २ ॥
śrī-uddhava uvācayas tvayābhihitaḥ pūrvaṁdharmas tvad-bhakti-lakṣaṇaḥvarṇāśramācāravatāṁsarveṣāṁ dvi-padām api
पुरा किल महाबाहो धर्मं परमकं प्रभो । यत्तेन हंसरूपेण ब्रह्मणेऽभ्यात्थ माधव ॥ ३ ॥ स इदानीं सुमहता कालेनामित्रकर्शन । न प्रायो भविता मर्त्यलोके प्रागनुशासित: ॥ ४ ॥
purā kila mahā-bāhodharmaṁ paramakaṁ prabhoyat tena haṁsa-rūpeṇabrahmaṇe ’bhyāttha mādhava
वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि । सभायामपि वैरिञ्च्यां यत्र मूर्तिधरा: कला: ॥ ५ ॥ कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते महीतले देव विनष्टं क: प्रवक्ष्यति ॥ ६ ॥
vaktā kartāvitā nānyodharmasyācyuta te bhuvisabhāyām api vairiñcyāṁyatra mūrti-dharāḥ kalāḥ
तत्त्वं न: सर्वधर्मज्ञ धर्मस्त्वद्भक्तिलक्षण: । यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७ ॥
tat tvaṁ naḥ sarva-dharma-jñadharmas tvad-bhakti-lakṣaṇaḥyathā yasya vidhīyetatathā varṇaya me prabho
श्रीशुक उवाच इत्थं स्वभृत्यमुख्येन पृष्ट: स भगवान् हरि: । प्रीत: क्षेमाय मर्त्यानां धर्मानाह सनातनान् ॥ ८ ॥
śrī-śuka uvācaitthaṁ sva-bhṛtya-mukhyenapṛṣṭaḥ sa bhagavān hariḥprītaḥ kṣemāya martyānāṁdharmān āha sanātanān
श्रीभगवानुवाचधर्म्य एष तव प्रश्नो नै:श्रेयसकरो नृणाम् । वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥ ९ ॥
śrī-bhagavān uvācadharmya eṣa tava praśnonaiḥśreyasa-karo nṛṇāmvarṇāśramācāravatāṁtam uddhava nibodha me
आदौ कृतयुगे वर्णो नृणां हंस इति स्मृत: । कृतकृत्या: प्रजा जात्या तस्मात् कृतयुगं विदु: ॥ १० ॥
ādau kṛta-yuge varṇonṛṇāṁ haṁsa iti smṛtaḥkṛta-kṛtyāḥ prajā jātyātasmāt kṛta-yugaṁ viduḥ
वेद: प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् । उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषा: ॥ ११ ॥
vedaḥ praṇava evāgredharmo ’haṁ vṛṣa-rūpa-dhṛkupāsate tapo-niṣṭhāhaṁsaṁ māṁ mukta-kilbiṣāḥ
त्रेतामुखे महाभाग प्राणान्मे हृदयात्त्रयी । विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मख: ॥ १२ ॥
tretā-mukhe mahā-bhāgaprāṇān me hṛdayāt trayīvidyā prādurabhūt tasyāaham āsaṁ tri-vṛn makhaḥ
विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजा: । वैराजात् पुरुषाज्जाता य आत्माचारलक्षणा: ॥ १३ ॥
vipra-kṣatriya-viṭ-śūdrāmukha-bāhūru-pāda-jāḥvairājāt puruṣāj jātāya ātmācāra-lakṣaṇāḥ
गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम । वक्ष:स्थलाद्वनेवास: संन्यास: शिरसि स्थित: ॥ १४ ॥
gṛhāśramo jaghanatobrahmacaryaṁ hṛdo mamavakṣaḥ-sthalād vane-vāsaḥsannyāsaḥ śirasi sthitaḥ
वर्णानामाश्रमाणां च जन्मभूम्यनुसारिणी: । आसन् प्रकृतयो नृणां नीचैर्नीचोत्तमोत्तमा: ॥ १५ ॥
varṇānām āśramāṇāṁ cajanma-bhūmy-anusāriṇīḥāsan prakṛtayo nṝnāṁnīcair nīcottamottamāḥ
शमो दमस्तप: शौचं सन्तोष: क्षान्तिरार्जवम् । मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमा: ॥ १६ ॥
śamo damas tapaḥ śaucaṁsantoṣaḥ kṣāntir ārjavammad-bhaktiś ca dayā satyaṁbrahma-prakṛtayas tv imāḥ
तेजो बलं धृति: शौर्यं तितिक्षौदार्यमुद्यम: । स्थैर्यं ब्रह्मण्यमैश्वर्यं क्षत्रप्रकृतयस्त्विमा: ॥ १७ ॥
tejo balaṁ dhṛtiḥ śauryaṁtitikṣaudāryam udyamaḥsthairyaṁ brahmanyam aiśvaryaṁkṣatra-prakṛtayas tv imāḥ
आस्तिक्यं दाननिष्ठा च अदम्भो ब्रह्मसेवनम् । अतुष्टिरर्थोपचयैर्वैश्यप्रकृतयस्त्विमा: ॥ १८ ॥
āstikyaṁ dāna-niṣṭhā caadambho brahma-sevanamatuṣṭir arthopacayairvaiśya-prakṛtayas tv imāḥ
शुश्रूषणं द्विजगवां देवानां चाप्यमायया । तत्र लब्धेन सन्तोष: शूद्रप्रकृतयस्त्विमा: ॥ १९ ॥
śuśrūṣaṇaṁ dvija-gavāṁdevānāṁ cāpy amāyayātatra labdhena santoṣaḥśūdra-prakṛtayas tv imāḥ
अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रह: । काम: क्रोधश्च तर्षश्च स भावोऽन्त्यावसायिनाम् ॥ २० ॥
aśaucam anṛtaṁ steyaṁnāstikyaṁ śuṣka-vigrahaḥkāmaḥ krodhaś ca tarṣaś casa bhāvo ’ntyāvasāyinām
अहिंसा सत्यमस्तेयमकामक्रोधलोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिक: ॥ २१ ॥
ahiṁsā satyam asteyamakāma-krodha-lobhatābhūta-priya-hitehā cadharmo ’yaṁ sārva-varṇikaḥ
द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विज: । वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूत: ॥ २२ ॥
dvitīyaṁ prāpyānupūrvyājjanmopanayanaṁ dvijaḥvasan gurukule dāntobrahmādhīyīta cāhūtaḥ
मेखलाजिनदण्डाक्षब्रह्मसूत्रकमण्डलून् । जटिलोऽधौतदद्वासोऽरक्तपीठ: कुशान् दधत् ॥ २३ ॥
mekhalājina-daṇḍākṣa-brahma-sūtra-kamaṇḍalūnjaṭilo ’dhauta-dad-vāso’rakta-pīṭhaḥ kuśān dadhat
स्नानभोजनहोमेषु जपोच्चारे च वाग्यत: । न च्छिन्द्यान्नखरोमाणि कक्षोपस्थगतान्यपि ॥ २४ ॥
snāna-bhojana-homeṣujapoccāre ca vāg-yataḥna cchindyān nakha-romāṇikakṣopastha-gatāny api
रेतो नावकिरेज्जातु ब्रह्मव्रतधर: स्वयम् । अवकीर्णेऽवगाह्याप्सु यतासुस्त्रिपदां जपेत् ॥ २५ ॥
reto nāvakirej jātubrahma-vrata-dharaḥ svayamavakīrṇe ’vagāhyāpsuyatāsus tri-padāṁ japet
अग्न्यर्काचार्यगोविप्रगुरुवृद्धसुराञ्शुचि: । समाहित उपासीत सन्ध्ये द्वे यतवाग् जपन् ॥ २६ ॥
agny-arkācārya-go-vipra-guru-vṛddha-surāñ śuciḥsamāhita upāsītasandhye dve yata-vāg japan
आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् । न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरु: ॥ २७ ॥
ācāryaṁ māṁ vijānīyānnavamanyeta karhicitna martya-buddhyāsūyetasarva-deva-mayo guruḥ
सायं प्रातरुपानीय भैक्ष्यं तस्मै निवेदयेत् । यच्चान्यदप्यनुज्ञातमुपयुञ्जीत संयत: ॥ २८ ॥
sāyaṁ prātar upānīyabhaikṣyaṁ tasmai nivedayetyac cānyad apy anujñātamupayuñjīta saṁyataḥ
शुश्रूषमाण आचार्यं सदोपासीत नीचवत् । यानशय्यासनस्थानैर्नातिदूरे कृताञ्जलि: ॥ २९ ॥
śuśrūṣamāṇa ācāryaṁsadopāsīta nīca-vatyāna-śayyāsana-sthānairnāti-dūre kṛtāñjaliḥ
एवंवृत्तो गुरुकुले वसेद् भोगविवर्जित: । विद्या समाप्यते यावद् बिभ्रद् व्रतमखण्डितम् ॥ ३० ॥
evaṁ-vṛtto gurukulevased bhoga-vivarjitaḥvidyā samāpyate yāvadbibhrad vratam akhaṇḍitam
यद्यसौ छन्दसां लोकमारोक्ष्यन् ब्रह्मविष्टपम् । गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्व्रत: ॥ ३१ ॥
yady asau chandasāṁ lokamārokṣyan brahma-viṣṭapamgurave vinyased dehaṁsvādhyāyārthaṁ bṛhad-vrataḥ
अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम् । अपृथग्धीरुपासीत ब्रह्मवर्चस्व्यकल्मष: ॥ ३२ ॥
agnau gurāv ātmani casarva-bhūteṣu māṁ paramapṛthag-dhīr upasītabrahma-varcasvy akalmaṣaḥ
स्त्रीणां निरीक्षणस्पर्शसंलापक्ष्वेलनादिकम् । प्राणिनो मिथुनीभूतानगृहस्थोऽग्रतस्त्यजेत् ॥ ३३ ॥
strīṇāṁ nirīkṣaṇa-sparśa-saṁlāpa-kṣvelanādikamprāṇino mithunī-bhūtānagṛhastho ’gratas tyajet
शौचमाचमनं स्नानं सन्ध्योपास्तिर्ममार्चनम् । तीर्थसेवा जपोऽस्पृश्याभक्ष्यासम्भाष्यवर्जनम् ॥ ३४ ॥ सर्वाश्रमप्रयुक्तोऽयं नियम: कुलनन्दन । मद्भाव: सर्वभूतेषु मनोवाक्कायसंयम: ॥ ३५ ॥
śaucam ācamanaṁ snānaṁsandhyopāstir mamārcanamtīrtha-sevā japo ’spṛśyā-bhakṣyāsambhāṣya-varjanam
एवं बृहद्व्रतधरो ब्राह्मणोऽग्निरिव ज्वलन् । मद्भक्तस्तीव्रतपसा दग्धकर्माशयोऽमल: ॥ ३६ ॥
evaṁ bṛhad-vrata-dharobrāhmaṇo ’gnir iva jvalanmad-bhaktas tīvra-tapasādagdha-karmāśayo ’malaḥ
अथानन्तरमावेक्ष्यन् यथा जिज्ञासितागम: । गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्वनुमोदित: ॥ ३७ ॥
athānantaram āvekṣyanyathā-jijñāsitāgamaḥgurave dakṣiṇāṁ dattvāsnāyād gurv-anumoditaḥ
गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तम: । आश्रमादाश्रमं गच्छेन्नान्यथामत्परश्चरेत् ॥ ३८ ॥
gṛhaṁ vanaṁ vopaviśetpravrajed vā dvijottamaḥāśramād āśramaṁ gacchennānyathāmat-paraś caret
गृहार्थी सदृशीं भार्यामुद्वहेदजुगुप्सिताम् । यवीयसीं तु वयसा यां सवर्णामनुक्रमात् ॥ ३९ ॥
gṛhārthī sadṛśīṁ bhāryāmudvahed ajugupsitāmyavīyasīṁ tu vayasāyāṁ sa-varṇām anu kramāt
इज्याध्ययनदानानि सर्वेषां च द्विजन्मनाम् । प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥ ४० ॥
ijyādhyayana-dānānisarveṣāṁ ca dvi-janmanāmpratigraho ’dhyāpanaṁ cabrāhmaṇasyaiva yājanam
प्रतिग्रहं मन्यमानस्तपस्तेजोयशोनुदम् । अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयो: ॥ ४१ ॥
pratigrahaṁ manyamānastapas-tejo-yaśo-nudamanyābhyām eva jīvetaśilair vā doṣa-dṛk tayoḥ
ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते । कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ ४२ ॥
brāhmaṇasya hi deho ’yaṁkṣudra-kāmāya neṣyatekṛcchrāya tapase cehapretyānanta-sukhāya ca
शिलोञ्छवृत्त्या परितुष्टचित्तोधर्मं महान्तं विरजं जुषाण: । मय्यर्पितात्मा गृह एव तिष्ठ-न्नातिप्रसक्त: समुपैति शान्तिम् ॥ ४३ ॥
śiloñcha-vṛttyā parituṣṭa-cittodharmaṁ mahāntaṁ virajaṁ juṣāṇaḥmayy arpitātmā gṛha eva tiṣṭhannāti-prasaktaḥ samupaiti śāntim
समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् । तानुद्धरिष्ये नचिरादापद्भ्यो नौरिवार्णवात् ॥ ४४ ॥
samuddharanti ye vipraṁsīdantaṁ mat-parāyaṇamtān uddhariṣye na cirādāpadbhyo naur ivārṇavāt
सर्वा: समुद्धरेद् राजा पितेव व्यसनात् प्रजा: । आत्मानमात्मना धीरो यथा गजपतिर्गजान् ॥ ४५ ॥
sarvāḥ samuddhared rājāpiteva vyasanāt prajāḥātmānam ātmanā dhīroyathā gaja-patir gajān
एवंविधो नरपतिर्विमानेनार्कवर्चसा । विधूयेहाशुभं कृत्स्नमिन्द्रेण सह मोदते ॥ ४६ ॥
evaṁ-vidho nara-patirvimānenārka-varcasāvidhūyehāśubhaṁ kṛtsnamindreṇa saha modate
सीदन् विप्रो वणिग्वृत्त्या पण्यैरेवापदं तरेत् । खड्गेन वापदाक्रान्तो न श्ववृत्त्या कथञ्चन ॥ ४७ ॥
sīdan vipro vaṇig-vṛttyāpaṇyair evāpadaṁ taretkhaḍgena vāpadākrāntona śva-vṛttyā kathañcana
वैश्यवृत्त्या तु राजन्यो जीवेन्मृगययापदि । चरेद् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८ ॥
vaiśya-vṛttyā tu rājanyojīven mṛgayayāpadicared vā vipra-rūpeṇana śva-vṛttyā kathañcana
शूद्रवृत्तिं भजेद् वैश्य: शूद्र: कारुकटक्रियाम् । कृच्छ्रान्मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९ ॥
śūdra-vṛttiṁ bhajed vaiśyaḥśūdraḥ kāru-kaṭa-kriyāmkṛcchrān mukto na garhyeṇavṛttiṁ lipseta karmaṇā
वेदाध्यायस्वधास्वाहाबल्यन्नाद्यैर्यथोदयम् । देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् ॥ ५० ॥
vedādhyāya-svadhā-svāhā-baly-annādyair yathodayamdevarṣi-pitṛ-bhūtānimad-rūpāṇy anv-ahaṁ yajet
यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा । धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून् ॥ ५१ ॥
yadṛcchayopapannenaśuklenopārjitena vādhanenāpīḍayan bhṛtyānnyāyenaivāharet kratūn
कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्यपि । विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥ ५२ ॥
kuṭumbeṣu na sajjetana pramādyet kuṭumby apivipaścin naśvaraṁ paśyedadṛṣṭam api dṛṣṭa-vat
पुत्रदाराप्तबन्धूनां सङ्गम: पान्थसङ्गम: । अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा ॥ ५३ ॥
putra-dārāpta-bandhūnāṁsaṅgamaḥ pāntha-saṅgamaḥanu-dehaṁ viyanty etesvapno nidrānugo yathā
इत्थं परिमृशन्मुक्तो गृहेष्वतिथिवद् वसन् । न गृहैरनुबध्येत निर्ममो निरहङ्कृत: ॥ ५४ ॥
itthaṁ parimṛśan muktogṛheṣv atithi-vad vasanna gṛhair anubadhyetanirmamo nirahaṅkṛtaḥ
कर्मभिगृहमेधीयैरिष्ट्वा मामेव भक्तिमान् । तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ ५५ ॥
karmabhir gṛha-medhīyairiṣṭvā mām eva bhaktimāntiṣṭhed vanaṁ vopaviśetprajāvān vā parivrajet
यस्त्वासक्तमतिर्गेहे पुत्रवित्तैषणातुर: । स्त्रैण: कृपणधीर्मूढो ममाहमिति बध्यते ॥ ५६ ॥
yas tv āsakta-matir geheputra-vittaiṣaṇāturaḥstraiṇaḥ kṛpaṇa-dhīr mūḍhomamāham iti badhyate
अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजा: । अनाथा मामृते दीना: कथं जीवन्ति दु:खिता: ॥ ५७ ॥
aho me pitarau vṛddhaubhāryā bālātmajātmajāḥanāthā mām ṛte dīnāḥkathaṁ jīvanti duḥkhitāḥ
एवं गृहाशयाक्षिप्तहृदयो मूढधीरयम् । अतृप्तस्ताननुध्यायन् मृतोऽन्धं विशते तम: ॥ ५८ ॥
evaṁ gṛhāśayākṣipta-hṛdayo mūḍha-dhīr ayamatṛptas tān anudhyāyanmṛto ’ndhaṁ viśate tamaḥ