Canto 11, Chapter 18
श्रीभगवानुवाचवनं विविक्षु: पुत्रेषु भार्यां न्यस्य सहैव वा । वन एव वसेच्छान्तस्तृतीयं भागमायुष: ॥ १ ॥
śrī-bhagavān uvācavanaṁ vivikṣuḥ putreṣubhāryāṁ nyasya sahaiva vāvana eva vasec chāntastṛtīyaṁ bhāgam āyuṣaḥ
कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं प्रकल्पयेत् । वसीत वल्कलं वासस्तृणपर्णाजिनानि वा ॥ २ ॥
kanda-mūla-phalair vanyairmedhyair vṛttiṁ prakalpayetvasīta valkalaṁ vāsastṛṇa-parṇājināni vā
केशरोमनखश्मश्रुमलानि बिभृयाद् दत: । न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशय: ॥ ३ ॥
keśa-roma-nakha-śmaśru-malāni bibhṛyād dataḥna dhāved apsu majjetatri kālaṁ sthaṇḍile-śayaḥ
ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड्जले । आकण्ठमग्न: शिशिर एवंवृत्तस्तपश्चरेत् ॥ ४ ॥
grīṣme tapyeta pañcāgnīnvarṣāsv āsāra-ṣāḍ jaleākaṇtha-magnaḥ śiśiraevaṁ vṛttas tapaś caret
अग्निपक्वं समश्नीयात् कालपक्वमथापि वा । उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ॥ ५ ॥
agni-pakvaṁ samaśnīyātkāla-pakvam athāpi vāulūkhalāśma-kuṭṭo vādantolūkhala eva vā
स्वयं सञ्चिनुयात् सर्वमात्मनो वृत्तिकारणम् । देशकालबलाभिज्ञो नाददीतान्यदाहृतम् ॥ ६ ॥
svayaṁ sañcinuyāt sarvamātmano vṛtti-kāraṇamdeśa-kāla-balābhijñonādadītānyadāhṛtam
वन्यैश्चरुपुरोडाशैर्निर्वपेत् कालचोदितान् । न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७ ॥
vanyaiś caru-puroḍāśairnirvapet kāla-coditānna tu śrautena paśunāmāṁ yajeta vanāśramī
अग्निहोत्रं च दर्शश्च पौर्णमासश्च पूर्ववत् । चातुर्मास्यानि च मुनेराम्नातानि च नैगमै: ॥ ८ ॥
agnihotraṁ ca darśaś capaurṇamāsaś ca pūrva-vatcāturmāsyāni ca munerāmnātāni ca naigamaiḥ
एवं चीर्णेन तपसा मुनिर्धमनिसन्तत: । मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ॥ ९ ॥
evaṁ cīrṇena tapasāmunir dhamani-santataḥmāṁ tapo-mayam ārādhyaṛṣi-lokād upaiti mām
यस्त्वेतत् कृच्छ्रतश्चीर्णं तपो नि:श्रेयसं महत् । कामायाल्पीयसे युञ्ज्याद् बालिश: कोऽपरस्तत: ॥ १० ॥
yas tv etat kṛcchrataś cīrṇaṁtapo niḥśreyasaṁ mahatkāmāyālpīyase yuñjyādbāliśaḥ ko ’paras tataḥ
यदासौ नियमेऽकल्पो जरया जातवेपथु: । आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत् ॥ ११ ॥
yadāsau niyame ’kalpojarayā jāta-vepathuḥātmany agnīn samāropyamac-citto ’gniṁ samāviśet
यदा कर्मविपाकेषु लोकेषु निरयात्मसु । विरागो जायते सम्यङ् न्यस्ताग्नि: प्रव्रजेत्तत: ॥ १२ ॥
yadā karma-vipākeṣulokeṣu nirayātmasuvirāgo jāyate samyaṅnyastāgniḥ pravrajet tataḥ
इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे । अग्नीन् स्वप्राण आवेश्य निरपेक्ष: परिव्रजेत् ॥ १३ ॥
iṣṭvā yathopadeśaṁ māṁdattvā sarva-svam ṛtvijeagnīn sva-prāṇa āveśyanirapekṣaḥ parivrajet
विप्रस्य वै सन्न्यसतो देवा दारादिरूपिण: । विघ्नान् कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात् परम् ॥ १४ ॥
viprasya vai sannyasatodevā dārādi-rūpiṇaḥvighnān kurvanty ayaṁ hy asmānākramya samiyāt param
बिभृयाच्चेन्मुनिर्वास: कौपीनाच्छादनं परम् । त्यक्तं न दण्डपात्राभ्यामन्यत् किञ्चिदनापदि ॥ १५ ॥
bibhṛyāc cen munir vāsaḥkaupīnācchādanaṁ paramtyaktaṁ na daṇḍa-pātrābhyāmanyat kiñcid anāpadi
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेज्जलम् । सत्यपूतां वदेद् वाचं मन:पूतं समाचरेत् ॥ १६ ॥
dṛṣṭi-pūtaṁ nyaset pādaṁvastra-pūtaṁ pibej jalamsatya-pūtāṁ vaded vācaṁmanaḥ-pūtaṁ samācaret
मौनानीहानिलायामा दण्डा वाग्देहचेतसाम् । न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद् यति: ॥ १७ ॥
maunānīhānilāyāmādaṇḍā vāg-deha-cetasāmna hy ete yasya santy aṅgaveṇubhir na bhaved yatiḥ
भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश्चरेत् । सप्तागारानसङ्क्लृप्तांस्तुष्येल्लब्धेन तावता ॥ १८ ॥
bhikṣāṁ caturṣu varṇeṣuvigarhyān varjayaṁś caretsaptāgārān asaṅkḷptāṁstuṣyel labdhena tāvatā
बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यत: । विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् ॥ १९ ॥
bahir jalāśayaṁ gatvātatropaspṛśya vāg-yataḥvibhajya pāvitaṁ śeṣaṁbhuñjītāśeṣam āhṛtam
एकश्चरेन्महीमेतां नि:सङ्ग: संयतेन्द्रिय: । आत्मक्रीड आत्मरत आत्मवान् समदर्शन: ॥ २० ॥
ekaś caren mahīm etāṁniḥsaṅgaḥ saṁyatendriyaḥātma-krīḍa ātma-rataātma-vān sama-darśanaḥ
विविक्तक्षेमशरणो मद्भावविमलाशय: । आत्मानं चिन्तयेदेकमभेदेन मया मुनि: ॥ २१ ॥
vivikta-kṣema-śaraṇomad-bhāva-vimalāśayaḥātmānaṁ cintayed ekamabhedena mayā muniḥ
अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया । बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयम: ॥ २२ ॥
anvīkṣetātmano bandhaṁmokṣaṁ ca jñāna-niṣṭhayābandha indriya-vikṣepomokṣa eṣāṁ ca saṁyamaḥ
तस्मान्नियम्य षड्वर्गं मद्भावेन चरेन्मुनि: । विरक्त: क्षुद्रकामेभ्यो लब्ध्वात्मनि सुखं महत् ॥ २३ ॥
tasmān niyamya ṣaḍ-vargaṁmad-bhāvena caren muniḥviraktaḥ kṣudra-kāmebhyolabdhvātmani sukhaṁ mahat
पुरग्रामव्रजान्सार्थान् भिक्षार्थं प्रविशंश्चरेत् । पुण्यदेशसरिच्छैलवनाश्रमवतीं महीम् ॥ २४ ॥
pura-grāma-vrajān sārthānbhikṣārthaṁ praviśaṁś caretpuṇya-deśa-saric-chaila-vanāśrama-vatīṁ mahīm
वानप्रस्थाश्रमपदेष्वभीक्ष्णं भैक्ष्यमाचरेत् । संसिध्यत्याश्वसम्मोह: शुद्धसत्त्व: शिलान्धसा ॥ २५ ॥
vānaprasthāśrama-padeṣvabhīkṣṇaṁ bhaikṣyam ācaretsaṁsidhyaty āśv asammohaḥśuddha-sattvaḥ śilāndhasā
नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति । असक्तचित्तो विरमेदिहामुत्र चिकीर्षितात् ॥ २६ ॥
naitad vastutayā paśyeddṛśyamānaṁ vinaśyatiasakta-citto viramedihāmutra-cikīrṣitāt
यदेतदात्मनि जगन्मनोवाक्प्राणसंहतम् । सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत् स्मरेत् ॥ २७ ॥
yad etad ātmani jaganmano-vāk-prāṇa-saṁhatamsarvaṁ māyeti tarkeṇasva-sthas tyaktvā na tat smaret
ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षक: । सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचर: ॥ २८ ॥
jñāna-niṣṭho virakto vāmad-bhakto vānapekṣakaḥsa-liṅgān āśramāṁs tyaktvācared avidhi-gocaraḥ
बुधो बालकवत् क्रीडेत् कुशलो जडवच्चरेत् । वदेदुन्मत्तवद् विद्वान् गोचर्यां नैगमश्चरेत् ॥ २९ ॥
budho bālaka-vat krīḍetkuśalo jaḍa-vac caretvaded unmatta-vad vidvāngo-caryāṁ naigamaś caret
वेदवादरतो न स्यान्न पाषण्डी न हैतुक: । शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ ३० ॥
veda-vāda-rato na syānna pāṣaṇḍī na haitukaḥśuṣka-vāda-vivāde nakañcit pakṣaṁ samāśrayet
नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन्न तु । अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । देहमुद्दिश्य पशुवद् वैरं कुर्यान्न केनचित् ॥ ३१ ॥
nodvijeta janād dhīrojanaṁ codvejayen na tuati-vādāṁs titikṣetanāvamanyeta kañcanadeham uddiśya paśu-vadvairaṁ kuryān na kenacit
एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थित: । यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च ॥ ३२ ॥
eka eva paro hy ātmābhūteṣv ātmany avasthitaḥyathendur uda-pātreṣubhūtāny ekātmakāni ca
अलब्ध्वा न विषीदेत काले कालेऽशनं क्वचित् । लब्ध्वा न हृष्येद् धृतिमानुभयं दैवतन्त्रितम् ॥ ३३ ॥
alabdhvā na viṣīdetakāle kāle ’śanaṁ kvacitlabdhvā na hṛṣyed dhṛtimānubhayaṁ daiva-tantritam
आहारार्थं समीहेत युक्तं तत् प्राणधारणम् । तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ ३४ ॥
āhārārthaṁ samīhetayuktaṁ tat-prāṇa-dhāraṇamtattvaṁ vimṛśyate tenatad vijñāya vimucyate
यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम् । तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनि: ॥ ३५ ॥
yadṛcchayopapannānnamadyāc chreṣṭham utāparamtathā vāsas tathā śayyāṁprāptaṁ prāptaṁ bhajen muniḥ
शौचमाचमनं स्नानं न तु चोदनया चरेत् । अन्यांश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वर: ॥ ३६ ॥
śaucam ācamanaṁ snānaṁna tu codanayā caretanyāṁś ca niyamāñ jñānīyathāhaṁ līlayeśvaraḥ
न हि तस्य विकल्पाख्या या च मद्वीक्षया हता । आदेहान्तात् क्वचित् ख्यातिस्तत: सम्पद्यते मया ॥ ३७ ॥
na hi tasya vikalpākhyāyā ca mad-vīkṣayā hatāā-dehāntāt kvacit khyātistataḥ sampadyate mayā
दु:खोदर्केषु कामेषु जातनिर्वेद आत्मवान् । अजिज्ञासितमद्धर्मो मुनिं गुरुमुपव्रजेत् ॥ ३८ ॥
duḥkhodarkeṣu kāmeṣujāta-nirveda ātmavānajijñāsita-mad-dharmomuniṁ gurum upavrajet
तावत् परिचरेद् भक्त: श्रद्धावाननसूयक: । यावद् ब्रह्म विजानीयान्मामेव गुरुमादृत: ॥ ३९ ॥
tāvat paricared bhaktaḥśraddhāvān anasūyakaḥyāvad brahma vijānīyānmām eva gurum ādṛtaḥ
यस्त्वसंयतषड्वर्ग: प्रचण्डेन्द्रियसारथि: । ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति ॥ ४० ॥ सुरानात्मानमात्मस्थं निह्नुते मां च धर्महा । अविपक्वकषायोऽस्मादमुष्माच्च विहीयते ॥ ४१ ॥
yas tv asaṁyata-ṣaḍ-vargaḥpracaṇḍendriya-sārathiḥjñāna-vairāgya-rahitastridaṇḍam upajīvati
भिक्षोर्धर्म: शमोऽहिंसा तप ईक्षा वनौकस: । गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ ४२ ॥
bhikṣor dharmaḥ śamo ’hiṁsātapa īkṣā vanaukasaḥgṛhiṇo bhūta-rakṣejyādvijasyācārya-sevanam
ब्रह्मचर्यं तप: शौचं सन्तोषो भूतसौहृदम् । गृहस्थस्याप्यृतौ गन्तु: सर्वेषां मदुपासनम् ॥ ४३ ॥
brahmacaryaṁ tapaḥ śaucaṁsantoṣo bhūta-sauhṛdamgṛhasthasyāpy ṛtau gantuḥsarveṣāṁ mad-upāsanam
इति मां य: स्वधर्मेण भजेन् नित्यमनन्यभाक् । सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृढाम् ॥ ४४ ॥
iti māṁ yaḥ sva-dharmeṇabhajen nityam ananya-bhāksarva-bhūteṣu mad-bhāvomad-bhaktiṁ vindate dṛḍhām
भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् । सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति स: ॥ ४५ ॥
bhaktyoddhavānapāyinyāsarva-loka-maheśvaramsarvotpatty-apyayaṁ brahmakāraṇaṁ mopayāti saḥ
इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गति: । ज्ञानविज्ञानसम्पन्नो नचिरात् समुपैति माम् ॥ ४६ ॥
iti sva-dharma-nirṇikta-sattvo nirjñāta-mad-gatiḥjñāna-vijñāna-sampannona cirāt samupaiti mām
वर्णाश्रमवतां धर्म एष आचारलक्षण: । स एव मद्भक्तियुतो नि:श्रेयसकर: पर: ॥ ४७ ॥
varṇāśramavatāṁ dharmaeṣa ācāra-lakṣaṇaḥsa eva mad-bhakti-yutoniḥśreyasa-karaḥ paraḥ
एतत्तेऽभिहितं साधो भवान् पृच्छति यच्च माम् । यथा स्वधर्मसंयुक्तो भक्तो मां समियात् परम् ॥ ४८ ॥
etat te ’bhihitaṁ sādhobhavān pṛcchati yac ca māmyathā sva-dharma-saṁyuktobhakto māṁ samiyāt param