Canto 11, Chapter 19
श्रीभगवानुवाचयो विद्याश्रुतसम्पन्न: आत्मवान् नानुमानिक: । मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ १ ॥
śrī-bhagavān uvācayo vidyā-śruta-sampannaḥātmavān nānumānikaḥmāyā-mātram idaṁ jñātvājñānaṁ ca mayi sannyaset
ज्ञानिनस्त्वहमेवेष्ट: स्वार्थो हेतुश्च सम्मत: । स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रिय: ॥ २ ॥
jñāninas tv aham eveṣṭaḥsvārtho hetuś ca sammataḥsvargaś caivāpavargaś canānyo ’rtho mad-ṛte priyaḥ
ज्ञानविज्ञानसंसिद्धा: पदं श्रेष्ठं विदुर्मम । ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ ३ ॥
jñāna-vijñāna-saṁsiddhāḥpadaṁ śreṣṭhaṁ vidur mamajñānī priyatamo ’to mejñānenāsau bibharti mām
तपस्तीर्थं जपो दानं पवित्राणीतराणि च । नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ ४ ॥
tapas tīrthaṁ japo dānaṁpavitrāṇītarāṇi canālaṁ kurvanti tāṁ siddhiṁyā jñāna-kalayā kṛtā
तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव । ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावत: ॥ ५ ॥
tasmāj jñānena sahitaṁjñātvā svātmānam uddhavajñāna-vijñāna-sampannobhaja māṁ bhakti-bhāvataḥ
ज्ञानविज्ञानयज्ञेन मामिष्ट्वात्मानमात्मनि । सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽगमन् ॥ ६ ॥
jñāna-vijñāna-yajñenamām iṣṭvātmānam ātmanisarva-yajña-patiṁ māṁ vaisaṁsiddhiṁ munayo ’gaman
त्वय्युद्धवाश्रयति यस्त्रिविधो विकारोमायान्तरापतति नाद्यपवर्गयोर्यत् । जन्मादयोऽस्य यदमी तव तस्य किं स्यु-राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ ७ ॥
tvayy uddhavāśrayati yas tri-vidho vikāromāyāntarāpatati nādy-apavargayor yatjanmādayo ’sya yad amī tava tasya kiṁ syurādy-antayor yad asato ’sti tad eva madhye
श्रीउद्धव उवाच ज्ञानं विशुद्धं विपुलं यथैत-द्वैराग्यविज्ञानयुतं पुराणम् । आख्याहि विश्वेश्वर विश्वमूर्तेत्वद्भक्तियोगं च महद्विमृग्यम् ॥ ८ ॥
śrī-uddhava uvācajñānaṁ viśuddhaṁ vipulaṁ yathaitadvairāgya-vijñāna-yutaṁ purāṇamākhyāhi viśveśvara viśva-mūrtetvad-bhakti-yogaṁ ca mahad-vimṛgyam
तापत्रयेणाभिहतस्य घोरेसन्तप्यमानस्य भवाध्वनीश । पश्यामि नान्यच्छरणं तवाङ्घ्रि-द्वन्द्वातपत्रादमृताभिवर्षात् ॥ ९ ॥
tāpa-trayeṇābhihatasya ghoresantapyamānasya bhavādhvanīśapaśyāmi nānyac charaṇaṁ tavāṅghri-dvandvātapatrād amṛtābhivarṣāt
दष्टं जनं सम्पतितं बिलेऽस्मिन्कालाहिना क्षुद्रसुखोरुतर्षम् । समुद्धरैनं कृपयापवर्ग्यै-र्वचोभिरासिञ्च महानुभाव ॥ १० ॥
daṣṭaṁ janaṁ sampatitaṁ bile ’sminkālāhinā kṣudra-sukhoru-tarṣamsamuddharainaṁ kṛpayāpavargyairvacobhir āsiñca mahānubhāva
श्रीभगवानुवाचइत्थमेतत् पुरा राजा भीष्मं धर्मभृतां वरम् । अजातशत्रु: पप्रच्छ सर्वेषां नोऽनुशृण्वताम् ॥ ११ ॥
śrī-bhagavān uvācaittham etat purā rājābhīṣmaṁ dharma-bhṛtāṁ varamajāta-śatruḥ papracchasarveṣāṁ no ’nuśṛṇvatām
निवृत्ते भारते युद्धे सुहृन्निधनविह्वल: । श्रुत्वा धर्मान् बहून् पश्चान्मोक्षधर्मानपृच्छत ॥ १२ ॥
nivṛtte bhārate yuddhesuhṛn-nidhana-vihvalaḥśrutvā dharmān bahūn paścānmokṣa-dharmān apṛcchata
तानहं तेऽभिधास्यामि देवव्रतमुखाच्छ्रुतान् । ज्ञानवैराग्यविज्ञानश्रद्धाभक्त्युपबृंहितान् ॥ १३ ॥
tān ahaṁ te ’bhidhāsyāmideva-vrata-mukhāc chrutānjñāna-vairāgya-vijñāna-śraddhā-bhakty-upabṛṁhitān
नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै । ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥ १४ ॥
navaikādaśa pañca trīnbhāvān bhūteṣu yena vaiīkṣetāthaikam apy eṣutaj jñānaṁ mama niścitam
एतदेव हि विज्ञानं न तथैकेन येन यत् । स्थित्युत्पत्त्यप्ययान् पश्येद् भावानां त्रिगुणात्मनाम् ॥ १५ ॥
etad eva hi vijñānaṁna tathaikena yena yatsthity-utpatty-apyayān paśyedbhāvānāṁ tri-guṇātmanām
आदावन्ते च मध्ये च सृज्यात् सृज्यं यदन्वियात् । पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥ १६ ॥
ādāv ante ca madhye casṛjyāt sṛjyaṁ yad anviyātpunas tat-pratisaṅkrāmeyac chiṣyeta tad eva sat
श्रुति: प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् । प्रमाणेष्वनवस्थानाद् विकल्पात् स विरज्यते ॥ १७ ॥
śrutiḥ pratyakṣam aitihyamanumānaṁ catuṣṭayampramāṇeṣv anavasthānādvikalpāt sa virajyate
कर्मणां परिणामित्वादाविरिञ्च्यादमङ्गलम् । विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥ १८ ॥
karmaṇāṁ pariṇāmitvādā-viriñcyād amaṅgalamvipaścin naśvaraṁ paśyedadṛṣṭam api dṛṣṭa-vat
भक्तियोग: पुरैवोक्त: प्रीयमाणाय तेऽनघ । पुनश्च कथयिष्यामि मद्भक्ते: कारणं परं ॥ १९ ॥
bhakti-yogaḥ puraivoktaḥprīyamāṇāya te ’naghapunaś ca kathayiṣyāmimad-bhakteḥ kāraṇaṁ paraṁ
श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभि: स्तवनं मम ॥ २० ॥ आदर: परिचर्यायां सर्वाङ्गैरभिवन्दनम् । मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मति: ॥ २१ ॥ मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम् । मय्यर्पणं च मनस: सर्वकामविवर्जनम् ॥ २२ ॥ मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मदर्थं यद् व्रतं तप: ॥ २३ ॥ एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि सञ्जायते भक्ति: कोऽन्योऽर्थोऽस्यावशिष्यते ॥ २४ ॥
śraddhāmṛta-kathāyāṁ meśaśvan mad-anukīrtanampariniṣṭhā ca pūjāyāṁstutibhiḥ stavanaṁ mama
यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् । धर्मं ज्ञानं सवैराग्यमैश्वर्यं चाभिपद्यते ॥ २५ ॥
yadātmany arpitaṁ cittaṁśāntaṁ sattvopabṛṁhitamdharmaṁ jñānaṁ sa vairāgyamaiśvaryaṁ cābhipadyate
यदर्पितं तद् विकल्पे इन्द्रियै: परिधावति । रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् ॥ २६ ॥
yad arpitaṁ tad vikalpeindriyaiḥ paridhāvatirajas-valaṁ cāsan-niṣṭhaṁcittaṁ viddhi viparyayam
धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् । गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादय: ॥ २७ ॥
dharmo mad-bhakti-kṛt proktojñānaṁ caikātmya-darśanamguṇesv asaṅgo vairāgyamaiśvaryaṁ cāṇimādayaḥ
श्रीउद्धव उवाच यम: कतिविध: प्रोक्तो नियमो वारिकर्षण । क: शम: को दम: कृष्ण का तितिक्षा धृति: प्रभो ॥ २८ ॥ किं दानं किं तप: शौर्यं किम् सत्यमृतमुच्यते । कस्त्याग: किं धनं चेष्टं को यज्ञ: का च दक्षिणा ॥ २९ ॥ पुंस: किं स्विद् बलं श्रीमन् भगो लाभश्च केशव । का विद्या ह्री: परा का श्री: किं सुखं दु:खमेव च ॥ ३० ॥ क: पण्डित: कश्च मूर्ख: क: पन्था उत्पथश्च क: । क: स्वर्गो नरक: क: स्वित् को बन्धुरुत किं गृहम् ॥ ३१ ॥ क आढ्य: को दरिद्रो वा कृपण: क: क ईश्वर: । एतान् प्रश्नान् मम ब्रूहि विपरीतांश्च सत्पते ॥ ३२ ॥
śrī-uddhava uvācayamaḥ kati-vidhaḥ proktoniyamo vāri-karṣaṇakaḥ śamaḥ ko damaḥ kṛṣṇakā titikṣā dhṛtiḥ prabho
श्रीभगवानुवाचअहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चय: । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ ३३ ॥ शौचं जपस्तपो होम: श्रद्धातिथ्यं मदर्चनम् । तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ॥ ३४ ॥ एते यमा: सनियमा उभयोर्द्वादश स्मृता: । पुंसामुपासितास्तात यथाकामं दुहन्ति हि ॥ ३५ ॥
śrī-bhagavān uvācaahiṁsā satyam asteyamasaṅgo hrīr asañcayaḥāstikyaṁ brahmacaryaṁ camaunaṁ sthairyaṁ kṣamābhayam
शमो मन्निष्ठता बुद्धेर्दम इन्द्रियसंयम: । तितिक्षा दु:खसम्मर्षो जिह्वोपस्थजयो धृति: ॥ ३६ ॥ दण्डन्यास: परं दानं कामत्यागस्तप: स्मृतम् । स्वभावविजय: शौर्यं सत्यं च समदर्शनम् ॥ ३७ ॥ अन्यच्च सुनृता वाणी कविभि: परिकीर्तिता । कर्मस्वसङ्गम: शौचं त्याग: सन्न्यास उच्यते ॥ ३८ ॥ धर्म इष्टं धनं नृणां यज्ञोऽहं भगवत्तम: । दक्षिणा ज्ञानसन्देश: प्राणायाम: परं बलम् ॥ ३९ ॥
śamo man-niṣṭhatā buddherdama indriya-saṁyamaḥtitikṣā duḥkha-sammarṣojihvopastha-jayo dhṛtiḥ
भगो म ऐश्वरो भावो लाभो मद्भक्तिरुत्तम: । विद्यात्मनि भिदाबाधो जुगुप्सा ह्रीरकर्मसु ॥ ४० ॥ श्रीर्गुणा नैरपेक्ष्याद्या: सुखं दु:खसुखात्यय: । दु:खं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् ॥ ४१ ॥ मूर्खो देहाद्यहंबुद्धि: पन्था मन्निगम: स्मृत: । उत्पथश्चित्तविक्षेप: स्वर्ग: सत्त्वगुणोदय: ॥ ४२ ॥ नरकस्तमउन्नाहो बन्धुर्गुरुरहं सखे । गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ॥ ४३ ॥ दरिद्रो यस्त्वसन्तुष्ट: कृपणो योऽजितेन्द्रिय: । गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्यय: ॥ ४४ ॥ एत उद्धव ते प्रश्ना: सर्वे साधु निरूपिता: । किं वर्णितेन बहुना लक्षणं गुणदोषयो: । गुणदोषदृशिर्दोषो गुणस्तूभयवर्जित: ॥ ४५ ॥
bhago ma aiśvaro bhāvolābho mad-bhaktir uttamaḥvidyātmani bhidā-bādhojugupsā hrīr akarmasu