Canto 11, Chapter 24
श्रीभगवानुवाचअथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितम् । यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥ १ ॥
śrī-bhagavān uvācaatha te sampravakṣyāmisāṅkhyaṁ pūrvair viniścitamyad vijñāya pumān sadyojahyād vaikalpikaṁ bhramam
आसीज्ज्ञानमथो अर्थ एकमेवाविकल्पितम् । यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे ॥ २ ॥
āsīj jñānam atho arthaekam evāvikalpitamyadā viveka-nipuṇāādau kṛta-yuge ’yuge
तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोऽगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥
tan māyā-phala-rūpeṇakevalaṁ nirvikalpitamvāṅ-mano-’gocaraṁ satyaṁdvidhā samabhavad bṛhat
तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ॥ ४ ॥
tayor ekataro hy arthaḥprakṛtiḥ sobhayātmikājñānaṁ tv anyatamo bhāvaḥpuruṣaḥ so ’bhidhīyate
तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ ५ ॥
tamo rajaḥ sattvam itiprakṛter abhavan guṇāḥmayā prakṣobhyamāṇāyāḥpuruṣānumatena ca
तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः । ततो विकुर्वतो जातो योऽहङ्कारो विमोहनः ॥ ६ ॥
tebhyaḥ samabhavat sūtraṁmahān sūtreṇa saṁyutaḥtato vikurvato jātoyo ’haṅkāro vimohanaḥ
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् । तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥
vaikārikas taijasaś catāmasaś cety ahaṁ tri-vṛttan-mātrendriya-manasāṁkāraṇaṁ cid-acin-mayaḥ
अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च । तैजसाद् देवता आसन्नेकादश च वैकृतात् ॥ ८ ॥
arthas tan-mātrikāj jajñetāmasād indriyāṇi cataijasād devatā āsannekādaśa ca vaikṛtāt
मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः । अण्डमुत्पादयामासुर्ममायतनमुत्तमम् ॥ ९ ॥
mayā sañcoditā bhāvāḥsarve saṁhatya-kāriṇaḥaṇḍam utpādayām āsurmamāyatanam uttamam
तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ । मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चात्मभूः ॥ १० ॥
tasminn ahaṁ samabhavamaṇḍe salila-saṁsthitaumama nābhyām abhūt padmaṁviśvākhyaṁ tatra cātma-bhūḥ
सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् । लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति त्रिधा ॥ ११ ॥
so ’sṛjat tapasā yuktorajasā mad-anugrahātlokān sa-pālān viśvātmābhūr bhuvaḥ svar iti tridhā
देवानामोक आसीत् स्वर्भूतानां च भुवः पदम् । मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम् ॥ १२ ॥
devānām oka āsīt svarbhūtānāṁ ca bhuvaḥ padammartyādīnāṁ ca bhūr lokaḥsiddhānāṁ tritayāt param
अधोऽसुराणां नागानां भूमेरोकोऽसृजत् प्रभुः । त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ १३ ॥
adho ’surāṇāṁ nāgānāṁbhūmer oko ’sṛjat prabhuḥtri-lokyāṁ gatayaḥ sarvāḥkarmaṇāṁ tri-guṇātmanām
योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः । महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४ ॥
yogasya tapasaś caivanyāsasya gatayo ’malāḥmahar janas tapaḥ satyaṁbhakti-yogasya mad-gatiḥ
मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् । गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति ॥ १५ ॥
mayā kālātmanā dhātrākarma-yuktam idaṁ jagatguṇa-pravāha etasminnunmajjati nimajjati
अणुर्बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति । सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६ ॥
aṇur bṛhat kṛśaḥ sthūloyo yo bhāvaḥ prasidhyatisarvo ’py ubhaya-saṁyuktaḥprakṛtyā puruṣeṇa ca
यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन् । विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥
yas tu yasyādir antaś casa vai madhyaṁ ca tasya sanvikāro vyavahārārthoyathā taijasa-pārthivāḥ
यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम् । आदिरन्तो यदा यस्य तत् सत्यमभिधीयते ॥ १८ ॥
yad upādāya pūrvas tubhāvo vikurute ’paramādir anto yadā yasyatat satyam abhidhīyate
प्रकृतिर्यस्योपादानमाधारः पुरुषः परः । सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम् ॥ १९ ॥
prakṛtir yasyopādānamādhāraḥ puruṣaḥ paraḥsato ’bhivyañjakaḥ kālobrahma tat tritayaṁ tv aham
सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः । महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥
sargaḥ pravartate tāvatpaurvāparyeṇa nityaśaḥmahān guṇa-visargārthaḥsthity-anto yāvad īkṣaṇam
विराण्मयासाद्यमानो लोककल्पविकल्पकः । पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१ ॥
virāṇ mayāsādyamānoloka-kalpa-vikalpakaḥpañcatvāya viśeṣāyakalpate bhuvanaiḥ saha
अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते । धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥ अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे । लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ २३ ॥ रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे । अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥ २४ ॥ योनिर्वैकारिके सौम्य लीयते मनसीश्वरे । शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥ स लीयते महान् स्वेषु गुणेषु गुणवत्तमः । तेऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयतेऽव्यये ॥ २६ ॥ कालो मायामये जीवे जीव आत्मनि मय्यजे । आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥
anne pralīyate martyamannaṁ dhānāsu līyatedhānā bhūmau pralīyantebhūmir gandhe pralīyate
एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः । मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ २८ ॥
evam anvīkṣamāṇasyakathaṁ vaikalpiko bhramaḥmanaso hṛdi tiṣṭhetavyomnīvārkodaye tamaḥ
एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः । प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥ २९ ॥
eṣa sāṅkhya-vidhiḥ proktaḥsaṁśaya-granthi-bhedanaḥpratilomānulomābhyāṁparāvara-dṛśā mayā