← Canto 11

Canto 11, Chapter 25

Shloka 1

श्रीभगवानुवाचगुणानामसम्मिश्राणां पुमान् येन यथा भवेत् । तन्मे पुरुषवर्येदमुपधारय शंसत: ॥ १ ॥

śrī-bhagavān uvācaguṇānām asammiśrāṇāṁpumān yena yathā bhavettan me puruṣa-varyedamupadhāraya śaṁsataḥ

Shloka 2-5

शमो दमस्तितिक्षेक्षा तप: सत्यं दया स्मृति: । तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादि: स्वनिर्वृति: ॥ २ ॥ काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम् । मदोत्साहो यश:प्रीतिर्हास्यं वीर्यं बलोद्यम: ॥ ३ ॥ क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भ: क्लम: कलि: । शोकमोहौ विषादार्ती निद्राशा भीरनुद्यम: ॥ ४ ॥ सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वश: । वृत्तयो वर्णितप्राया: सन्निपातमथो श‍ृणु ॥ ५ ॥

śamo damas titikṣekṣātapaḥ satyaṁ dayā smṛtiḥtuṣṭis tyāgo ’spṛhā śraddhāhrīr dayādiḥ sva-nirvṛtiḥ

Shloka 6

सन्निपातस्त्वहमिति ममेत्युद्धव या मति: । व्यवहार: सन्निपातो मनोमात्रेन्द्रियासुभि: ॥ ६ ॥

sannipātas tv aham itimamety uddhava yā matiḥvyavahāraḥ sannipātomano-mātrendriyāsubhiḥ

Shloka 7

धर्मे चार्थे च कामे च यदासौ परिनिष्ठित: । गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावह: ॥ ७ ॥

dharme cārthe ca kāme cayadāsau pariniṣṭhitaḥguṇānāṁ sannikarṣo ’yaṁśraddhā-rati-dhanāvahaḥ

Shloka 8

प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे । स्वधर्मे चानुतिष्ठेत गुणानां समितिर्हि सा ॥ ८ ॥

pravṛtti-lakṣaṇe niṣṭhāpumān yarhi gṛhāśramesva-dharme cānu tiṣṭhetaguṇānāṁ samitir hi sā

Shloka 9

पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभि: । कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसा युतम् ॥ ९ ॥

puruṣaṁ sattva-saṁyuktamanumīyāc chamādibhiḥkāmādibhī rajo-yuktaṁkrodhādyais tamasā yutam

Shloka 10

यदा भजति मां भक्त्या निरपेक्ष: स्वकर्मभि: । तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्‍त्रियमेव वा ॥ १० ॥

yadā bhajati māṁ bhaktyānirapekṣaḥ sva-karmabhiḥtaṁ sattva-prakṛtiṁ vidyātpuruṣaṁ striyam eva vā

Shloka 11

यदा आशिष आशास्य मां भजेत स्वकर्मभि: । तं रज:प्रकृतिं विद्यात् हिंसामाशास्य तामसम् ॥ ११ ॥

yadā āśiṣa āśāsyamāṁ bhajeta sva-karmabhiḥtaṁ rajaḥ-prakṛtiṁ vidyāthiṁsām āśāsya tāmasam

Shloka 12

सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे । चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते ॥ १२ ॥

sattvaṁ rajas tama itiguṇā jīvasya naiva mecitta-jā yais tu bhūtānāṁsajjamāno nibadhyate

Shloka 13

यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्मज्ञानादिभि: पुमान् ॥ १३ ॥

yadetarau jayet sattvaṁbhāsvaraṁ viśadaṁ śivamtadā sukhena yujyetadharma-jñānādibhiḥ pumān

Shloka 14

यदा जयेत्तम: सत्त्वं रज: सङ्गं भिदा चलम् । तदा दु:खेन युज्येत कर्मणा यशसा श्रिया ॥ १४ ॥

yadā jayet tamaḥ sattvaṁrajaḥ saṅgaṁ bhidā calamtadā duḥkhena yujyetakarmaṇā yaśasā śriyā

Shloka 15

यदा जयेद् रज: सत्त्वं तमो मूढं लयं जडम् । युज्येत शोकमोहाभ्यां निद्रयाहिंसयाशया ॥ १५ ॥

yadā jayed rajaḥ sattvaṁtamo mūḍhaṁ layaṁ jaḍamyujyeta śoka-mohābhyāṁnidrayā hiṁsayāśayā

Shloka 16

यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृति: । देहेऽभयं मनोऽसङ्गं तत् सत्त्वं विद्धि मत्पदम् ॥ १६ ॥

yadā cittaṁ prasīdetaindriyāṇāṁ ca nirvṛtiḥdehe ’bhayaṁ mano-’saṅgaṁtat sattvaṁ viddhi mat-padam

Shloka 17

विकुर्वन् क्रियया चाधीरनिवृत्तिश्च चेतसाम् । गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर्निशामय ॥ १७ ॥

vikurvan kriyayā cā-dhīranivṛttiś ca cetasāmgātrāsvāsthyaṁ mano bhrāntaṁraja etair niśāmaya

Shloka 18

सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् । मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय ॥ १८ ॥

sīdac cittaṁ vilīyetacetaso grahaṇe ’kṣamammano naṣṭaṁ tamo glānistamas tad upadhāraya

Shloka 19

एधमाने गुणे सत्त्वे देवानां बलमेधते । असुराणां च रजसि तमस्युद्धव रक्षसाम् ॥ १९ ॥

edhamāne guṇe sattvedevānāṁ balam edhateasurāṇāṁ ca rajasitamasy uddhava rakṣasām

Shloka 20

सत्त्वाज्जागरणं विद्याद् रजसा स्वप्नमादिशेत् । प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् ॥ २० ॥

sattvāj jāgaraṇaṁ vidyādrajasā svapnam ādiśetprasvāpaṁ tamasā jantosturīyaṁ triṣu santatam

Shloka 21

उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जना: । तमसाधोऽध आमुख्याद् रजसान्तरचारिण: ॥ २१ ॥

upary upari gacchantisattvena brāhmaṇā janāḥtamasādho ’dha ā-mukhyādrajasāntara-cāriṇaḥ

Shloka 22

सत्त्वे प्रलीना: स्वर्यान्ति नरलोकं रजोलया: । तमोलयास्तु निरयं यान्ति मामेव निर्गुणा: ॥ २२ ॥

sattve pralīnāḥ svar yāntinara-lokaṁ rajo-layāḥtamo-layās tu nirayaṁyānti mām eva nirguṇāḥ

Shloka 23

मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् । राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ २३ ॥

mad-arpaṇaṁ niṣphalaṁ vāsāttvikaṁ nija-karma tatrājasaṁ phala-saṅkalpaṁhiṁsā-prāyādi tāmasam

Shloka 24

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४ ॥

kaivalyaṁ sāttvikaṁ jñānaṁrajo vaikalpikaṁ ca yatprākṛtaṁ tāmasaṁ jñānaṁman-niṣṭhaṁ nirguṇaṁ smṛtam

Shloka 25

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥ २५ ॥

vanaṁ tu sāttviko vāsogrāmo rājasa ucyatetāmasaṁ dyūta-sadanaṁman-niketaṁ tu nirguṇam

Shloka 26

सात्त्विक: कारकोऽसङ्गी रागान्धो राजस: स्मृत: । तामस: स्मृतिविभ्रष्टो निर्गुणो मदपाश्रय: ॥ २६ ॥

sāttvikaḥ kārako ’saṅgīrāgāndho rājasaḥ smṛtaḥtāmasaḥ smṛti-vibhraṣṭonirguṇo mad-apāśrayaḥ

Shloka 27

सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७ ॥

sāttviky ādhyātmikī śraddhākarma-śraddhā tu rājasītāmasy adharme yā śraddhāmat-sevāyāṁ tu nirguṇā

Shloka 28

पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् । राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि ॥ २८ ॥

pathyaṁ pūtam anāyastamāhāryaṁ sāttvikaṁ smṛtamrājasaṁ cendriya-preṣṭhaṁtāmasaṁ cārti-dāśuci

Shloka 29

सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ २९ ॥

sāttvikaṁ sukham ātmotthaṁviṣayotthaṁ tu rājasamtāmasaṁ moha-dainyotthaṁnirguṇaṁ mad-apāśrayam

Shloka 30

द्रव्यं देश: फलं कालो ज्ञानं कर्म च कारक: । श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्य: सर्व एव हि ॥ ३० ॥

dravyaṁ deśaḥ phalaṁ kālojñānaṁ karma ca kārakaḥśraddhāvasthākṛtir niṣṭhātrai-guṇyaḥ sarva eva hi

Shloka 31

सर्वे गुणमया भावा: पुरुषाव्यक्तधिष्ठिता: । द‍ृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥ ३१ ॥

sarve guṇa-mayā bhāvāḥpuruṣāvyakta-dhiṣṭhitāḥdṛṣṭaṁ śrutam anudhyātaṁbuddhyā vā puruṣarṣabha

Shloka 32

एता: संसृतय: पुंसो गुणकर्मनिबन्धना: । येनेमे निर्जिता: सौम्य गुणा जीवेन चित्तजा: । भक्तियोगेन मन्निष्ठो मद्भ‍ावाय प्रपद्यते ॥ ३२ ॥

etāḥ saṁsṛtayaḥ puṁsoguṇa-karma-nibandhanāḥyeneme nirjitāḥ saumyaguṇā jīvena citta-jāḥbhakti-yogena man-niṣṭhomad-bhāvāya prapadyate

Shloka 33

तस्माद् देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् । गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणा: ॥ ३३ ॥

tasmād deham imaṁ labdhvājñāna-vijñāna-sambhavamguṇa-saṅgaṁ vinirdhūyamāṁ bhajantu vicakṣaṇāḥ

Shloka 34

नि:सङ्गो मां भजेद् विद्वानप्रमत्तो जितेन्द्रिय: । रजस्तमश्चाभिजयेत् सत्त्वसंसेवया मुनि: ॥ ३४ ॥

niḥsaṅgo māṁ bhajed vidvānapramatto jitendriyaḥrajas tamaś cābhijayetsattva-saṁsevayā muniḥ

Shloka 35

सत्त्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्तधी: । सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् ॥ ३५ ॥

sattvaṁ cābhijayed yuktonairapekṣyeṇa śānta-dhīḥsampadyate guṇair muktojīvo jīvaṁ vihāya mām

Shloka 36

जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवै: । मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत् ॥ ३६ ॥

jīvo jīva-vinirmuktoguṇaiś cāśaya-sambhavaiḥmayaiva brahmaṇā pūrṇona bahir nāntaraś caret

← PrevNext →