Canto 11, Chapter 27
श्रीउद्धव उवाच क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो । यस्मात्त्वां ये यथार्चन्ति सात्वता: सात्वतर्षभ ॥ १ ॥
śrī-uddhava uvācakriyā-yogaṁ samācakṣvabhavad-ārādhanaṁ prabhoyasmāt tvāṁ ye yathārcantisātvatāḥ sātvatarṣabha
एतद् वदन्ति मुनयो मुहुर्नि:श्रेयसं नृणाम् । नारदो भगवान् व्यास आचार्योऽङ्गिरस: सुत: ॥ २ ॥
etad vadanti munayomuhur niḥśreyasaṁ nṛṇāmnārado bhagavān vyāsaācāryo ’ṅgirasaḥ sutaḥ
नि:सृतं ते मुखाम्भोजाद् यदाह भगवानज: । पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भव: ॥ ३ ॥ एतद् वै सर्ववर्णानामाश्रमाणां च सम्मतम् । श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४ ॥
niḥsṛtaṁ te mukhāmbhojādyad āha bhagavān ajaḥputrebhyo bhṛgu-mukhyebhyodevyai ca bhagavān bhavaḥ
एतत् कमलपत्राक्ष कर्मबन्धविमोचनम् । भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ ५ ॥
etat kamala-patrākṣakarma-bandha-vimocanambhaktāya cānuraktāyabrūhi viśveśvareśvara
श्रीभगवानुवाचन ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव । सङ्क्षिप्तं वर्णयिष्यामि यथावदनुपूर्वश: ॥ ६ ॥
śrī-bhagavān uvācana hy anto ’nanta-pārasyakarma-kāṇḍasya coddhavasaṅkṣiptaṁ varṇayiṣyāmiyathāvad anupūrvaśaḥ
वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मख: । त्रयाणामीप्सितेनैव विधिना मां समर्चरेत् ॥ ७ ॥
vaidikas tāntriko miśraiti me tri-vidho makhaḥtrayāṇām īpsitenaivavidhinā māṁ samarcaret
यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुष: । यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥ ८ ॥
yadā sva-nigamenoktaṁdvijatvaṁ prāpya pūruṣaḥyathā yajeta māṁ bhaktyāśraddhayā tan nibodha me
अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विज: । द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ ९ ॥
arcāyāṁ sthaṇḍile ’gnau vāsūrye vāpsu hṛdi dvijaḥdravyeṇa bhakti-yukto ’rcetsva-guruṁ mām amāyayā
पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये । उभयैरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिना ॥ १० ॥
pūrvaṁ snānaṁ prakurvītadhauta-danto ’ṅga-śuddhayeubhayair api ca snānaṁmantrair mṛd-grahaṇādinā
सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे । पूजां तै: कल्पयेत् सम्यक् सङ्कल्प: कर्मपावनीम् ॥ ११ ॥
sandhyopāstyādi-karmāṇivedenācoditāni mepūjāṁ taiḥ kalpayet samyak-saṅkalpaḥ karma-pāvanīm
शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ १२ ॥
śailī dāru-mayī lauhīlepyā lekhyā ca saikatīmano-mayī maṇi-mayīpratimāṣṭa-vidhā smṛtā
चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् । उद्वासावाहने न स्त: स्थिरायामुद्धवार्चने ॥ १३ ॥
calācaleti dvi-vidhāpratiṣṭhā jīva-mandiramudvāsāvāhane na staḥsthirāyām uddhavārcane
अस्थिरायां विकल्प: स्यात् स्थण्डिले तु भवेद् द्वयम् । स्नपनं त्वविलेप्यायामन्यत्र परिमार्जनम् ॥ १४ ॥
asthirāyāṁ vikalpaḥ syātsthaṇḍile tu bhaved dvayamsnapanaṁ tv avilepyāyāmanyatra parimārjanam
द्रव्यै: प्रसिद्धैर्मद्याग: प्रतिमादिष्वमायिन: । भक्तस्य च यथालब्धैर्हृदि भावेन चैव हि ॥ १५ ॥
dravyaiḥ prasiddhair mad-yāgaḥpratimādiṣv amāyinaḥbhaktasya ca yathā-labdhairhṛdi bhāvena caiva hi
स्नानालङ्करणं प्रेष्ठमर्चायामेव तूद्धव । स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हवि: ॥ १६ ॥ सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभि: । श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ॥ १७ ॥
snānālaṅkaraṇaṁ preṣṭhamarcāyām eva tūddhavasthaṇḍile tattva-vinyāsovahnāv ājya-plutaṁ haviḥ
भूर्यप्यभक्तोपाहृतं न मे तोषाय कल्पते । गन्धो धूप: सुमनसो दीपोऽन्नाद्यं च किं पुन: ॥ १८ ॥
bhūry apy abhaktopāhṛtaṁna me toṣāya kalpategandho dhūpaḥ sumanasodīpo ’nnādyaṁ ca kiṁ punaḥ
शुचि: सम्भृतसम्भार: प्राग्दर्भै: कल्पितासन: । आसीन: प्रागुदग् वार्चेदर्चायां त्वथ सम्मुख: ॥ १९ ॥
śuciḥ sambhṛta-sambhāraḥprāg-darbhaiḥ kalpitāsanaḥāsīnaḥ prāg udag vārcedarcāyāṁ tv atha sammukhaḥ
कृतन्यास: कृतन्यासां मदर्चां पाणिना मृजेत् । कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ॥ २० ॥
kṛta-nyāsaḥ kṛta-nyāsāṁmad-arcāṁ pāṇināmṛjetkalaśaṁ prokṣaṇīyaṁ cayathāvad upasādhayet
तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च । प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैश्च साधयेत् ॥ २१ ॥
tad-adbhir deva-yajanaṁdravyāṇy ātmānam eva caprokṣya pātrāṇi trīṇy adbhistais tair dravyaiś ca sādhayet
पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि देशिक: । हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ २२ ॥
pādyārghyācamanīyārthaṁtrīṇi pātrāṇi deśikaḥhṛdā śīrṣṇātha śikhayāgāyatryā cābhimantrayet
पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम । अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम् ॥ २३ ॥
piṇḍe vāyv-agni-saṁśuddhehṛt-padma-sthāṁ parāṁ mamaaṇvīṁ jīva-kalāṁ dhyāyennādānte siddha-bhāvitām
तयात्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मय: । आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २४ ॥
tayātma-bhūtayā piṇḍevyāpte sampūjya tan-mayaḥāvāhyārcādiṣu sthāpyanyastāṅgaṁ māṁ prapūjayet
पाद्योपस्पर्शार्हणादीनुपचारान् प्रकल्पयेत् । धर्मादिभिश्च नवभि: कल्पयित्वासनं मम ॥ २५ ॥ पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् । उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ २६ ॥
pādyopasparśārhaṇādīnupacārān prakalpayetdharmādibhiś ca navabhiḥkalpayitvāsanaṁ mama
सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् । मुषलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ २७ ॥
sudarśanaṁ pāñcajanyaṁgadāsīṣu-dhanur-halānmuṣalaṁ kaustubhaṁ mālāṁśrīvatsaṁ cānupūjayet
नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च । महाबलं बलं चैव कुमुदं कमुदेक्षणम् ॥ २८ ॥
nandaṁ sunandaṁ garuḍaṁpracaṇḍaṁ caṇḍam eva camahābalaṁ balaṁ caivakumudaṁ kumudekṣaṇam
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून्सुरान् । स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभि: ॥ २९ ॥
durgāṁ vināyakaṁ vyāsaṁviṣvaksenaṁ gurūn surānsve sve sthāne tv abhimukhānpūjayet prokṣaṇādibhiḥ
चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितै: । सलिलै: स्नापयेन्मन्त्रैर्नित्यदा विभवे सति ॥ ३० ॥ स्वर्णघर्मानुवाकेन महापुरुषविद्यया । पौरुषेणापि सूक्तेन सामभी राजनादिभि: ॥ ३१ ॥
candanośīra-karpūra-kuṅkumāguru-vāsitaiḥsalilaiḥ snāpayen mantrairnityadā vibhave sati
वस्त्रोपवीताभरणपत्रस्रग्गन्धलेपनै: । अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् ॥ ३२ ॥
vastropavītābharaṇa-patra-srag-gandha-lepanaiḥalaṅkurvīta sa-premamad-bhakto māṁ yathocitam
पाद्यमाचमनीयं च गन्धं सुमनसोऽक्षतान् । धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चक: ॥ ३३ ॥
pādyam ācamanīyaṁ cagandhaṁ sumanaso ’kṣatāndhūpa-dīpopahāryāṇidadyān me śraddhayārcakaḥ
गुडपायससर्पींषि शष्कुल्यापूपमोदकान् । संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत् ॥ ३४ ॥
guḍa-pāyasa-sarpīṁṣiśaṣkuly-āpūpa-modakānsaṁyāva-dadhi-sūpāṁś canaivedyaṁ sati kalpayet
अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् । अन्नाद्यगीतनृत्यानि पर्वणि स्युरुतान्वहम् ॥ ३५ ॥
abhyaṅgonmardanādarśa-danta-dhāvābhiṣecanamannādya-gīta-nṛtyāniparvaṇi syur utānv-aham
विधिना विहिते कुण्डे मेखलागर्तवेदिभि: । अग्निमाधाय परित: समूहेत् पाणिनोदितम् ॥ ३६ ॥
vidhinā vihite kuṇḍemekhalā-garta-vedibhiḥagnim ādhāya paritaḥsamūhet pāṇinoditam
परिस्तीर्याथ पर्युक्षेदन्वाधाय यथाविधि । प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७ ॥
paristīryātha paryukṣedanvādhāya yathā-vidhiprokṣaṇyāsādya dravyāṇiprokṣyāgnau bhāvayeta mām
तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजै: । लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८ ॥ स्फुरत्किरीटकटककटिसूत्रवराङ्गदम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ३९ ॥ ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च । प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हवि: ॥ ४० ॥ जुहुयान्मूलमन्त्रेण षोडशर्चावदानत: । धर्मादिभ्यो यथान्यायं मन्त्रै: स्विष्टिकृतं बुध: ॥ ४१ ॥
tapta-jāmbūnada-prakhyaṁśaṅkha-cakra-gadāmbujaiḥlasac-catur-bhujaṁ śāntaṁpadma-kiñjalka-vāsasam
अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् । मूलमन्त्रं जपेद् ब्रह्म स्मरन्नारायणात्मकम् ॥ ४२ ॥
abhyarcyātha namaskṛtyapārṣadebhyo baliṁ haretmūla-mantraṁ japed brahmasmaran nārāyaṇātmakam
दत्त्वाचमनमुच्छेषं विष्वक्सेनाय कल्पयेत् । मुखवासं सुरभिमत् ताम्बूलाद्यमथार्हयेत् ॥ ४३ ॥
dattvācamanam uccheṣaṁviṣvaksenāya kalpayetmukha-vāsaṁ surabhimattāmbūlādyam athārhayet
उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम । मत्कथा: श्रावयन् शृण्वन् मुहूर्तं क्षणिको भवेत् ॥ ४४ ॥
upagāyan gṛṇan nṛtyankarmāṇy abhinayan mamamat-kathāḥ śrāvayan śṛṇvanmuhūrtaṁ kṣaṇiko bhavet
स्तवैरुच्चावचै: स्तोत्रै: पौराणै: प्राकृतैरपि । स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् ॥ ४५ ॥
stavair uccāvacaiḥ stotraiḥpaurāṇaiḥ prākṛtair apistutvā prasīda bhagavanniti vandeta daṇḍa-vat
शिरो मत्पादयो: कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥ ४६ ॥
śiro mat-pādayoḥ kṛtvābāhubhyāṁ ca parasparamprapannaṁ pāhi mām īśabhītaṁ mṛtyu-grahārṇavāt
इति शेषां मया दत्तां शिरस्याधाय सादरम् । उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि तत् पुन: ॥ ४७ ॥
iti śeṣāṁ mayā dattāṁśirasy ādhāya sādaramudvāsayec ced udvāsyaṁjyotir jyotiṣi tat punaḥ
अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् । सर्वभूतेष्वात्मनि च सर्वात्माहमवस्थित: ॥ ४८ ॥
arcādiṣu yadā yatraśraddhā māṁ tatra cārcayetsarva-bhūteṣv ātmani casarvātmāham avasthitaḥ
एवं क्रियायोगपथै: पुमान् वैदिकतान्त्रिकै: । अर्चन्नुभयत: सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ४९ ॥
evaṁ kriyā-yoga-pathaiḥpumān vaidika-tāntrikaiḥarcann ubhayataḥ siddhiṁmatto vindaty abhīpsitām
मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् । पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् ॥ ५० ॥
mad-arcāṁ sampratiṣṭhāpyamandiraṁ kārayed dṛḍhampuṣpodyānāni ramyāṇipūjā-yātrotsavāśritān
पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् । क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात् ॥ ५१ ॥
pūjādīnāṁ pravāhārthaṁmahā-parvasv athānv-ahamkṣetrāpaṇa-pura-grāmāndattvā mat-sārṣṭitām iyāt
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५२ ॥
pratiṣṭhayā sārvabhaumaṁsadmanā bhuvana-trayampūjādinā brahma-lokaṁtribhir mat-sāmyatām iyāt
मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं स लभत एवं य: पूजयेत माम् ॥ ५३ ॥
mām eva nairapekṣyeṇabhakti-yogena vindatibhakti-yogaṁ sa labhataevaṁ yaḥ pūjayeta mām
य: स्वदत्तां परैर्दत्तां हरेत सुरविप्रयो: । वृत्तिं स जायते विड्भुग् वर्षाणामयुतायुतम् ॥ ५४ ॥
yaḥ sva-dattāṁ parair dattāṁhareta sura-viprayoḥvṛttiṁ sa jāyate viḍ-bhugvarṣāṇām ayutāyutam
कर्तुश्च सारथेर्हेतोरनुमोदितुरेव च । कर्मणां भागिन: प्रेत्य भूयो भूयसि तत् फलम् ॥ ५५ ॥
kartuś ca sārather hetoranumoditur eva cakarmaṇāṁ bhāginaḥ pretyabhūyo bhūyasi tat-phalam