Canto 12, Chapter 1
श्रीशुक उवाच योऽन्त्य: पुरञ्जयो नाम भविष्यो बारहद्रथ: । तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम् ॥ १ ॥ प्रद्योतसंज्ञं राजानं कर्ता यत् पालक: सुत: । विशाखयूपस्तत्पुत्रो भविता राजकस्तत: ॥ २ ॥
śrī-śuka uvācayo ’ntyaḥ purañjayo nāmabhaviṣyo bārahadrathaḥtasyāmātyas tu śunakohatvā svāminam ātma-jam
नन्दिवर्धनस्तत्पुत्र: पञ्च प्रद्योतना इमे । अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपा: ॥ ३ ॥
nandivardhanas tat-putraḥpañca pradyotanā imeaṣṭa-triṁśottara-śataṁbhokṣyanti pṛthivīṁ nṛpāḥ
शिशुनागस्ततो भाव्य: काकवर्णस्तु तत्सुत: । क्षेमधर्मा तस्य सुत: क्षेत्रज्ञ: क्षेमधर्मज: ॥ ४ ॥
śiśunāgas tato bhāvyaḥkākavarṇas tu tat-sutaḥkṣemadharmā tasya sutaḥkṣetrajñaḥ kṣemadharma-jaḥ
विधिसार: सुतस्तस्याजातशत्रुर्भविष्यति । दर्भकस्तत्सुतो भावी दर्भकस्याजय: स्मृत: ॥ ५ ॥
vidhisāraḥ sutas tasyā-jātaśatrur bhaviṣyatidarbhakas tat-suto bhāvīdarbhakasyājayaḥ smṛtaḥ
नन्दिवर्धन आजेयो महानन्दि: सुतस्तत: । शिशुनागा दशैवैते सष्ट्युत्तरशतत्रयम् ॥ ६ ॥ समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपा: । महानन्दिसुतो राजन् शूद्रागर्भोद्भवो बली ॥ ७ ॥ महापद्मपति: कश्चिन्नन्द: क्षत्रविनाशकृत् । ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिका: ॥ ८ ॥
nandivardhana ājeyomahānandiḥ sutas tataḥśiśunāgā daśaivaitesaṣṭy-uttara-śata-trayam
स एकच्छत्रां पृथिवीमनुल्लङ्घितशासन: । शासिष्यति महापद्मो द्वितीय इव भार्गव: ॥ ९ ॥
sa eka-cchatrāṁ pṛthivīmanullaṅghita-śāsanaḥśāsiṣyati mahāpadmodvitīya iva bhārgavaḥ
तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखा: सुता: । य इमां भोक्ष्यन्ति महीं राजानश्च शतं समा: ॥ १० ॥
tasya cāṣṭau bhaviṣyantisumālya-pramukhāḥ sutāḥya imāṁ bhokṣyanti mahīṁrājānaś ca śataṁ samāḥ
नव नन्दान् द्विज: कश्चित् प्रपन्नानुद्धरिष्यति । तेषामभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥ ११ ॥
nava nandān dvijaḥ kaścitprapannān uddhariṣyatiteṣām abhāve jagatīṁmauryā bhokṣyanti vai kalau
स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति । तत्सुतो वारिसारस्तु ततश्चाशोकवर्धन: ॥ १२ ॥
sa eva candraguptaṁ vaidvijo rājye ’bhiṣekṣyatitat-suto vārisāras tutataś cāśokavardhanaḥ
सुयशा भविता तस्य सङ्गत: सुयश:सुत: । शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति । शतधन्वा ततस्तस्य भविता तद् बृहद्रथ: ॥ १३ ॥
suyaśā bhavitā tasyasaṅgataḥ suyaśaḥ-sutaḥśāliśūkas tatas tasyasomaśarmā bhaviṣyatiśatadhanvā tatas tasyabhavitā tad-bṛhadrathaḥ
मौर्या ह्येते दश नृपा: सप्तत्रिंशच्छतोत्तरम् । समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह ॥ १४ ॥
mauryā hy ete daśa nṛpāḥsapta-triṁśac-chatottaramsamā bhokṣyanti pṛthivīṁkalau kuru-kulodvaha
अग्निमित्रस्ततस्तस्मात् सुज्येष्ठो भविता तत: । वसुमित्रो भद्रकश्च पुलिन्दो भविता सुत: ॥ १५ ॥ ततो घोष: सुतस्तस्माद् वज्रमित्रो भविष्यति । ततो भागवतस्तस्माद् देवभूति: कुरूद्वह ॥ १६ ॥ शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् । तत: काण्वानियं भूमिर्यास्यत्यल्पगुणान्नृप ॥ १७ ॥
agnimitras tatas tasmātsujyeṣṭho bhavitā tataḥvasumitro bhadrakaś capulindo bhavitā sutaḥ
शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस्तु कामिनम् । स्वयं करिष्यते राज्यं वसुदेवो महामति: ॥ १८ ॥
śuṅgaṁ hatvā devabhūtiṁkāṇvo ’mātyas tu kāminamsvayaṁ kariṣyate rājyaṁvasudevo mahā-matiḥ
तस्य पुत्रस्तु भूमित्रस्तस्य नारायण: सुत: । काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च । शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥ १९ ॥
tasya putras tu bhūmitrastasya nārāyaṇaḥ sutaḥkāṇvāyanā ime bhūmiṁcatvāriṁśac ca pañca caśatāni trīṇi bhokṣyantivarṣāṇāṁ ca kalau yuge
हत्वा काण्वं सुशर्माणं तद् भृत्यो वृषलो बली । गां भोक्ष्यत्यन्ध्रजातीय: कञ्चित् कालमसत्तम: ॥ २० ॥
hatvā kāṇvaṁ suśarmāṇaṁtad-bhṛtyo vṛṣalo balīgāṁ bhokṣyaty andhra-jātīyaḥkañcit kālam asattamaḥ
कृष्णनामाथ तद्भ्राता भविता पृथिवीपति: । श्रीशान्तकर्णस्तत्पुत्र: पौर्णमासस्तु तत्सुत: ॥ २१ ॥ लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृप: । मेघस्वातिश्चिबिलकादटमानस्तु तस्य च ॥ २२ ॥ अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मज: । पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दन: ॥ २३ ॥ चकोरो बहवो यत्र शिवस्वातिररिन्दम: । तस्यापि गोमतीपुत्र: पुरीमान् भविता तत: ॥ २४ ॥ मेदशिरा: शिवस्कन्दो यज्ञश्रीस्तत्सुतस्तत: । विजयस्तत्सुतो भाव्यश्चन्द्रविज्ञ: सलोमधि: ॥ २५ ॥ एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च । षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन ॥ २६ ॥
kṛṣṇa-nāmātha tad-bhrātābhavitā pṛthivī-patiḥśrī-śāntakarṇas tat-putraḥpaurṇamāsas tu tat-sutaḥ
सप्ताभीरा आवभृत्या दश गर्दभिनो नृपा: । कङ्का: षोडश भूपाला भविष्यन्त्यतिलोलुपा: ॥ २७ ॥
saptābhīrā āvabhṛtyādaśa gardabhino nṛpāḥkaṅkāḥ ṣoḍaśa bhū-pālābhaviṣyanty ati-lolupāḥ
ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्कका: । भूयो दश गुरुण्डाश्च मौला एकादशैव तु ॥ २८ ॥
tato ’ṣṭau yavanā bhāvyāścaturdaśa turuṣkakāḥbhūyo daśa guruṇḍāś camaulā ekādaśaiva tu
एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च । नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥ २९ ॥ भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तै: संस्थिते तत: । किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरि: ॥ ३० ॥ शिशुनन्दिश्च तद्भ्राता यशोनन्दि: प्रवीरक: । इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ॥ ३१ ॥
ete bhokṣyanti pṛthivīṁdaśa varṣa-śatāni canavādhikāṁ ca navatiṁmaulā ekādaśa kṣitim
तेषां त्रयोदश सुता भवितारश्च बाह्लिका: । पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च ॥ ३२ ॥ एककाला इमे भूपा: सप्तान्ध्रा: सप्त कौशला: । विदूरपतयो भाव्या निषधास्तत एव हि ॥ ३३ ॥
teṣāṁ trayodaśa sutābhavitāraś ca bāhlikāḥpuṣpamitro ’tha rājanyodurmitro ’sya tathaiva ca
मागधानां तु भविता विश्वस्फूर्जि: पुरञ्जय: । करिष्यत्यपरो वर्णान् पुलिन्दयदुमद्रकान् ॥ ३४ ॥
māgadhānāṁ tu bhavitāviśvasphūrjiḥ purañjayaḥkariṣyaty aparo varṇānpulinda-yadu-madrakān
प्रजाश्चाब्रह्मभूयिष्ठा: स्थापयिष्यति दुर्मति: । वीर्यवान् क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि । अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ॥ ३५ ॥
prajāś cābrahma-bhūyiṣṭhāḥsthāpayiṣyati durmatiḥvīryavān kṣatram utsādyapadmavatyāṁ sa vai purianu-gaṅgam ā-prayāgaṁguptāṁ bhokṣyati medinīm
सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवा: । व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपा: ॥ ३६ ॥
saurāṣṭrāvanty-ābhīrāś caśūrā arbuda-mālavāḥvrātyā dvijā bhaviṣyantiśūdra-prāyā janādhipāḥ
सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम् । भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्चाब्रह्मवर्चस: ॥ ३७ ॥
sindhos taṭaṁ candrabhāgāṁkauntīṁ kāśmīra-maṇḍalambhokṣyanti śūdrā vrātyādyāmlecchāś cābrahma-varcasaḥ
तुल्यकाला इमे राजन् म्लेच्छप्रायाश्च भूभृत: । एतेऽधर्मानृतपरा: फल्गुदास्तीव्रमन्यव: ॥ ३८ ॥
tulya-kālā ime rājanmleccha-prāyāś ca bhū-bhṛtaḥete ’dharmānṛta-parāḥphalgu-dās tīvra-manyavaḥ
स्त्रीबालगोद्विजघ्नाश्च परदारधनादृता: । उदितास्तमितप्राया अल्पसत्त्वाल्पकायुष: ॥ ३९ ॥ असंस्कृता: क्रियाहीना रजसा तमसावृता: । प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिण: ॥ ४० ॥
strī-bāla-go-dvija-ghnāś capara-dāra-dhanādṛtāḥuditāsta-mita-prāyāalpa-sattvālpakāyuṣaḥ
तन्नाथास्ते जनपदास्तच्छीलाचारवादिन: । अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिता: ॥ ४१ ॥
tan-nāthās te janapadāstac-chīlācāra-vādinaḥanyonyato rājabhiś cakṣayaṁ yāsyanti pīḍitāḥ