← Canto 12

Canto 12, Chapter 2

Shloka 1

श्रीशुक उवाच ततश्चानुदिनं धर्म: सत्यं शौचं क्षमा दया । कालेन बलिना राजन् नङ्‌क्ष्यत्यायुर्बलं स्मृति: ॥ १ ॥

śrī-śuka uvācatataś cānu-dinaṁ dharmaḥsatyaṁ śaucaṁ kṣamā dayākālena balinā rājannaṅkṣyaty āyur balaṁ smṛtiḥ

Shloka 2

वित्तमेव कलौ नृणां जन्माचारगुणोदय: । धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥ २ ॥

vittam eva kalau nṝṇāṁjanmācāra-guṇodayaḥdharma-nyāya-vyavasthāyāṁkāraṇaṁ balam eva hi

Shloka 3

दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके । स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि ॥ ३ ॥

dāmpatye ’bhirucir heturmāyaiva vyāvahārikestrītve puṁstve ca hi ratirvipratve sūtram eva hi

Shloka 4

लिङ्गमेवाश्रमख्यातावन्योन्यापत्तिकारणम् । अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वच: ॥ ४ ॥

liṅgam evāśrama-khyātāvanyonyāpatti-kāraṇamavṛttyā nyāya-daurbalyaṁpāṇḍitye cāpalaṁ vacaḥ

Shloka 5

अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु । स्वीकार एव चोद्वाहे स्न‍ानमेव प्रसाधनम् ॥ ५ ॥

anāḍhyataivāsādhutvesādhutve dambha eva tusvīkāra eva codvāhesnānam eva prasādhanam

Shloka 6

दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् । उदरंभरता स्वार्थ: सत्यत्वे धार्ष्ट्यमेव हि । दाक्ष्यं कुटुम्बभरणं यशोऽर्थे धर्मसेवनम् ॥ ६ ॥

dūre vāry-ayanaṁ tīrthaṁlāvaṇyaṁ keśa-dhāraṇamudaraṁ-bharatā svārthaḥsatyatve dhārṣṭyam eva hidākṣyaṁ kuṭumba-bharaṇaṁyaśo ’rthe dharma-sevanam

Shloka 7

एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले । ब्रह्मविट्‍क्षत्रशूद्राणां यो बली भविता नृप: ॥ ७ ॥

evaṁ prajābhir duṣṭābhirākīrṇe kṣiti-maṇḍalebrahma-viṭ-kṣatra-śūdrāṇāṁyo balī bhavitā nṛpaḥ

Shloka 8

प्रजा हि लुब्धै राजन्यैर्निर्घृणैर्दस्युधर्मभि: । आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ॥ ८ ॥

prajā hi lubdhai rājanyairnirghṛṇair dasyu-dharmabhiḥācchinna-dāra-draviṇāyāsyanti giri-kānanam

Shloka 9

शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजना: । अनावृष्टय‍ा विनङ्‌क्ष्यन्ति दुर्भिक्षकरपीडिता: ॥ ९ ॥

śāka-mūlāmiṣa-kṣaudra-phala-puṣpāṣṭi-bhojanāḥanāvṛṣṭyā vinaṅkṣyantidurbhikṣa-kara-pīḍitāḥ

Shloka 10

शीतवातातपप्रावृड्‌‌हिमैरन्योन्यत: प्रजा: । क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया ॥ १० ॥

śīta-vātātapa-prāvṛḍ-himair anyonyataḥ prajāḥkṣut-tṛḍbhyāṁ vyādhibhiś caivasantapsyante ca cintayā

Shloka 11

त्रिंशद्विंशतिवर्षाणि परमायु: कलौ नृणाम् ॥ ११ ॥

triṁśad viṁśati varṣāṇiparamāyuḥ kalau nṛṇām

Shloka 12-16

क्षीयमाणेषु देहेषु देहिनां कलिदोषत: । वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥ १२ ॥ पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु । चौर्यानृतवृथाहिंसानानावृत्तिषु वै नृषु ॥ १३ ॥ शूद्रप्रायेषु वर्णेषुच्छागप्रायासु धेनुषु । गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥ १४ ॥ अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु । विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥ १५ ॥ इत्थं कलौ गतप्राये जनेषु खरधर्मिषु । धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति ॥ १६ ॥

kṣīyamāṇeṣu deheṣudehināṁ kali-doṣataḥvarṇāśramavatāṁ dharmenaṣṭe veda-pathe nṛṇām

Shloka 17

चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मन: । धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये ॥ १७ ॥

carācara-guror viṣṇorīśvarasyākhilātmanaḥdharma-trāṇāya sādhūnāṁjanma karmāpanuttaye

Shloka 18

शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मन: । भवने विष्णुयशस: कल्कि: प्रादुर्भविष्यति ॥ १८ ॥

śambhala-grāma-mukhyasyabrāhmaṇasya mahātmanaḥbhavane viṣṇuyaśasaḥkalkiḥ prādurbhaviṣyati

Shloka 19-20

अश्वमाशुगमारुह्य देवदत्तं जगत्पति: । असिनासाधुदमनमष्टैश्वर्यगुणान्वित: ॥ १९ ॥ विचरन्नाशुना क्षौण्यां हयेनाप्रतिमद्युति: । नृपलिङ्गच्छदो दस्यून्कोटिशो निहनिष्यति ॥ २० ॥

aśvam āśu-gam āruhyadevadattaṁ jagat-patiḥasināsādhu-damanamaṣṭaiśvarya-guṇānvitaḥ

Shloka 21

अथ तेषां भविष्यन्ति मनांसि विशदानि वै । वासुदेवाङ्गरागातिपुण्यगन्धानिलस्पृशाम् । पौरजानपदानां वै हतेष्वखिलदस्युषु ॥ २१ ॥

atha teṣāṁ bhaviṣyantimanāṁsi viśadāni vaivāsudevāṅga-rāgāti-puṇya-gandhānila-spṛśāmpaura-jānapadānāṁ vaihateṣv akhila-dasyuṣu

Shloka 22

तेषां प्रजाविसर्गश्च स्थविष्ठ: सम्भविष्यति । वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते ॥ २२ ॥

teṣāṁ prajā-visargaś casthaviṣṭhaḥ sambhaviṣyativāsudeve bhagavatisattva-mūrtau hṛdi sthite

Shloka 23

यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरि: । कृतं भविष्यति तदा प्रजासूतिश्च सात्त्विकी ॥ २३ ॥

yadāvatīrṇo bhagavānkalkir dharma-patir hariḥkṛtaṁ bhaviṣyati tadāprajā-sūtiś ca sāttvikī

Shloka 24

यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती । एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ २४ ॥

yadā candraś ca sūryaś catathā tiṣya-bṛhaspatīeka-rāśau sameṣyantibhaviṣyati tadā kṛtam

Shloka 25

येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवा: । ते त उद्देशत: प्रोक्ता वंशीया: सोमसूर्ययो: ॥ २५ ॥

ye ’tītā vartamānā yebhaviṣyanti ca pārthivāḥte ta uddeśataḥ proktāvaṁśīyāḥ soma-sūryayoḥ

Shloka 26

आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम् । एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥ २६ ॥

ārabhya bhavato janmayāvan nandābhiṣecanametad varṣa-sahasraṁ tuśataṁ pañcadaśottaram

Shloka 27-28

सप्तर्षीणां तु यौ पूर्वौ द‍ृश्येते उदितौ दिवि । तयोस्तु मध्ये नक्षत्रं द‍ृश्यते यत् समं निशि ॥ २७ ॥ तेनैव ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् । ते त्वदीये द्विजा: काल अधुना चाश्रिता मघा: ॥ २८ ॥

saptarṣīṇāṁ tu yau pūrvaudṛśyete uditau divitayos tu madhye nakṣatraṁdṛśyate yat samaṁ niśi

Shloka 29

विष्णोर्भगवतो भानु: कृष्णाख्योऽसौ दिवं गत: । तदाविशत् कलिर्लोकं पापे यद् रमते जन: ॥ २९ ॥

viṣṇor bhagavato bhānuḥkṛṣṇākhyo ’sau divaṁ gataḥtadāviśat kalir lokaṁpāpe yad ramate janaḥ

Shloka 30

यावत् स पादपद्माभ्यां स्पृशनास्ते रमापति: । तावत् कलिर्वै पृथिवीं पराक्रन्तुं न चाशकत् ॥ ३० ॥

yāvat sa pāda-padmābhyāṁspṛśan āste ramā-patiḥtāvat kalir vai pṛthivīṁparākrantuṁ na cāśakat

Shloka 31

यदा देवर्षय: सप्त मघासु विचरन्ति हि । तदा प्रवृत्तस्तु कलिर्द्वादशाब्दशतात्मक: ॥ ३१ ॥

yadā devarṣayaḥ saptamaghāsu vicaranti hitadā pravṛttas tu kalirdvādaśābda-śatātmakaḥ

Shloka 32

यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षय: । तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥ ३२ ॥

yadā maghābhyo yāsyantipūrvāṣāḍhāṁ maharṣayaḥtadā nandāt prabhṛty eṣakalir vṛddhiṁ gamiṣyati

Shloka 33

यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि । प्रतिपन्नं कलियुगमिति प्राहु: पुराविद: ॥ ३३ ॥

yasmin kṛṣṇo divaṁ yātastasminn eva tadāhanipratipannaṁ kali-yugamiti prāhuḥ purā-vidaḥ

Shloka 34

दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुन: कृतम् । भविष्यति तदा नृणां मन आत्मप्रकाशकम् ॥ ३४ ॥

divyābdānāṁ sahasrāntecaturthe tu punaḥ kṛtambhaviṣyati tadā nṝṇāṁmana ātma-prakāśakam

Shloka 35

इत्येष मानवो वंशो यथा सङ्ख्यायते भुवि । तथा विट्‌शूद्रविप्राणां तास्ता ज्ञेया युगे युगे ॥ ३५ ॥

ity eṣa mānavo vaṁśoyathā saṅkhyāyate bhuvitathā viṭ-śūdra-viprāṇāṁtās tā jñeyā yuge yuge

Shloka 36

एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम् । कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि ॥ ३६ ॥

eteṣāṁ nāma-liṅgānāṁpuruṣāṇāṁ mahātmanāmkathā-mātrāvaśiṣṭānāṁkīrtir eva sthitā bhuvi

Shloka 37

देवापि: शान्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशज: । कलापग्राम आसाते महायोगबलान्वितौ ॥ ३७ ॥

devāpiḥ śāntanor bhrātāmaruś cekṣvāku-vaṁśa-jaḥkalāpa-grāma āsātemahā-yoga-balānvitau

Shloka 38

ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ । वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यत: ॥ ३८ ॥

tāv ihaitya kaler antevāsudevānuśikṣitauvarṇāśrama-yutaṁ dharmaṁpūrva-vat prathayiṣyataḥ

Shloka 39

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥ ३९ ॥

kṛtaṁ tretā dvāparaṁ cakaliś ceti catur-yugamanena krama-yogenabhuvi prāṇiṣu vartate

Shloka 40

राजन्नेते मया प्रोक्ता नरदेवास्तथापरे । भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गता: ॥ ४० ॥

rājann ete mayā proktānara-devās tathāparebhūmau mamatvaṁ kṛtvāntehitvemāṁ nidhanaṁ gatāḥ

Shloka 41

कृमिविड्भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यत: ॥ ४१ ॥

kṛmi-viḍ-bhasma-saṁjñānterāja-nāmno ’pi yasya cabhūta-dhruk tat-kṛte svārthaṁkiṁ veda nirayo yataḥ

Shloka 42

कथं सेयमखण्डा भू: पूर्वैर्मे पुरुषैर्धृता । मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ॥ ४२ ॥

kathaṁ seyam akhaṇḍā bhūḥpūrvair me puruṣair dhṛtāmat-putrasya ca pautrasyamat-pūrvā vaṁśa-jasya vā

Shloka 43

तेजोऽबन्नमयं कायं गृहीत्वात्मतयाबुधा: । महीं ममतया चोभौ हित्वान्तेऽदर्शनं गता: ॥ ४३ ॥

tejo-’b-anna-mayaṁ kāyaṁgṛhītvātmatayābudhāḥmahīṁ mamatayā cobhauhitvānte ’darśanaṁ gatāḥ

Shloka 44

ये ये भूपतयो राजन् भुञ्जते भुवमोजसा । कालेन ते कृता: सर्वे कथामात्रा: कथासु च ॥ ४४ ॥

ye ye bhū-patayo rājanbhuñjate bhuvam ojasākālena te kṛtāḥ sarvekathā-mātrāḥ kathāsu ca

← PrevNext →