← Canto 12

Canto 12, Chapter 3

Shloka 1

श्री शुक उवाच :द‍ृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूरियम् । अहो मा विजिगीषन्ति मृत्यो: क्रीडनका नृपा: ॥ १ ॥

śrī-śuka uvācadṛṣṭvātmani jaye vyagrānnṛpān hasati bhūr iyamaho mā vijigīṣantimṛtyoḥ krīḍanakā nṛpāḥ

Shloka 2

काम एष नरेन्द्राणां मोघ: स्याद् विदुषामपि । येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपा: ॥ २ ॥

kāma eṣa narendrāṇāṁmoghaḥ syād viduṣām apiyena phenopame piṇḍeye ’ti-viśrambhitā nṛpāḥ

Shloka 3-4

पूर्वं निर्जित्य षड्‌वर्गं जेष्यामो राजमन्त्रिण: । तत: सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३ ॥ एवं क्रमेण जेष्याम: पृथ्वीं सागरमेखलाम् । इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥

pūrvaṁ nirjitya ṣaḍ-vargaṁjeṣyāmo rāja-mantriṇaḥtataḥ saciva-paurāpta-karīndrān asya kaṇṭakān

Shloka 5

समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥

samudrāvaraṇāṁ jitvāmāṁ viśanty abdhim ojasākiyad ātma-jayasyaitanmuktir ātma-jaye phalam

Shloka 6

यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धय: ॥ ६ ॥

yāṁ visṛjyaiva manavastat-sutāś ca kurūdvahagatā yathāgataṁ yuddhetāṁ māṁ jeṣyanty abuddhayaḥ

Shloka 7

मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रह: । जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥ ७ ॥

mat-kṛte pitṛ-putrāṇāṁbhrātṝṇāṁ cāpi vigrahaḥjāyate hy asatāṁ rājyemamatā-baddha-cetasām

Shloka 8

ममैवेयं मही कृत्स्‍ना न ते मूढेति वादिन: । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपा: ॥ ८ ॥

mamaiveyaṁ mahī kṛtsnāna te mūḍheti vādinaḥspardhamānā mitho ghnantimriyante mat-kṛte nṛpāḥ

Shloka 9-13

श्रीशुक उवाच पृथु: पुरूरवा गाधिर्नहुषो भरतोऽर्जुन: । मान्धाता सगरो राम: खट्‌वाङ्गो धुन्धुहा रघु: ॥ ९ ॥ तृणबिन्दुर्ययातिश्च शर्याति: शन्तनुर्गय: । भगीरथ: कुवलयाश्व: ककुत्स्थो नैषधो नृग: ॥ १० ॥ हिरण्यकशिपुर्वृत्रो रावणो लोकरावण: । नमुचि: शम्बरो भौमो हिरण्याक्षोऽथ तारक: ॥ ११ ॥ अन्ये च बहवो दैत्या राजानो ये महेश्वरा: । सर्वे सर्वविद: शूरा: सर्वे सर्वजितोऽजिता: ॥ १२ ॥ ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिण: । कथावशेषा: कालेन ह्यकृतार्था: कृता विभो ॥ १३ ॥

pṛthuḥ purūravā gādhirnahuṣo bharato ’rjunaḥmāndhātā sagaro rāmaḥkhaṭvāṅgo dhundhuhā raghuḥ

Shloka 14

कथा इमास्ते कथिता महीयसांविताय लोकेषु यश: परेयुषाम् । विज्ञानवैराग्यविवक्षया विभोवचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥

kathā imās te kathitā mahīyasāṁvitāya lokeṣu yaśaḥ pareyuṣāmvijñāna-vairāgya-vivakṣayā vibhovaco-vibhūtīr na tu pāramārthyam

Shloka 15

यस्तूत्तम:श्लोकगुणानुवाद:सङ्गीयतेऽभीक्ष्णममङ्गलघ्न: । तमेव नित्यं श‍ृणुयादभीक्ष्णंकृष्णेऽमलां भक्तिमभीप्समान: ॥ १५ ॥

yas tūttamaḥ-śloka-guṇānuvādaḥsaṅgīyate ’bhīkṣṇam amaṅgala-ghnaḥtam eva nityaṁ śṛṇuyād abhīkṣṇaṁkṛṣṇe ’malāṁ bhaktim abhīpsamānaḥ

Shloka 16

श्रीराजोवाचकेनोपायेन भगवन् कलेर्दोषान् कलौ जना: । विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने ॥ १६ ॥

śrī-rājovācakenopāyena bhagavankaler doṣān kalau janāḥvidhamiṣyanty upacitāṁstan me brūhi yathā mune

Shloka 17

युगानि युगधर्मांश्च मानं प्रलयकल्पयो: । कालस्येश्वररूपस्य गतिं विष्णोर्महात्मन: ॥ १७ ॥

yugāni yuga-dharmāṁś camānaṁ pralaya-kalpayoḥkālasyeśvara-rūpasyagatiṁ viṣṇor mahātmanaḥ

Shloka 18

श्रीशुक उवाच कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृत: । सत्यं दया तपो दानमिति पादा विभोर्नृप ॥ १८ ॥

śrī-śuka uvācakṛte pravartate dharmaścatuṣ-pāt taj-janair dhṛtaḥsatyaṁ dayā tapo dānamiti pādā vibhor nṛpa

Shloka 19

सन्तुष्टा: करुणा मैत्रा: शान्ता दान्तास्तितिक्षव: । आत्मारामा: समद‍ृश: प्रायश: श्रमणा जना: ॥ १९ ॥

santuṣṭāḥ karuṇā maitrāḥśāntā dāntās titikṣavaḥātmārāmāḥ sama-dṛśaḥprāyaśaḥ śramaṇā janāḥ

Shloka 20

त्रेतायां धर्मपादानां तुर्यांशो हीयते शनै: । अधर्मपादैरनृतहिंसासन्तोषविग्रहै: ॥ २० ॥

tretāyāṁ dharma-pādānāṁturyāṁśo hīyate śanaiḥadharma-pādair anṛta-hiṁṣāsantoṣa-vigrahaiḥ

Shloka 21

तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटा: । त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१ ॥

tadā kriyā-tapo-niṣṭhānāti-hiṁsrā na lampaṭāḥtrai-vargikās trayī-vṛddhāvarṇā brahmottarā nṛpa

Shloka 22

तप:सत्यदयादानेष्वर्धं ह्रस्वति द्वापरे । हिंसातुष्टय‍नृतद्वेषैर्धर्मस्याधर्मलक्षणै: ॥ २२ ॥

tapaḥ-satya-dayā-dāneṣvardhaṁ hrasvati dvāparehiṁsātuṣṭy-anṛta-dveṣairdharmasyādharma-lakṣaṇaiḥ

Shloka 23

यशस्विनो महाशीला: स्वाध्यायाध्ययने रता: । आढ्या: कुटुम्बिनो हृष्टा वर्णा: क्षत्रद्विजोत्तरा: ॥ २३ ॥

yaśasvino mahā-śīlāḥsvādhyāyādhyayane ratāḥāḍhyāḥ kuṭumbino hṛṣṭāvarṇāḥ kṣatra-dvijottarāḥ

Shloka 24

कलौ तु धर्मपादानां तुर्यांशोऽधर्महेतुभि: । एधमानै: क्षीयमाणो ह्यन्ते सोऽपि विनङ्‌क्ष्यति ॥ २४ ॥

kalau tu dharma-pādānāṁturyāṁśo ’dharma-hetubhiḥedhamānaiḥ kṣīyamāṇohy ante so ’pi vinaṅkṣyati

Shloka 25

तस्मिन् लुब्धा दुराचारा निर्दया: शुष्कवैरिण: । दुर्भगा भूरितर्षाश्च शूद्रदासोत्तरा: प्रजा: ॥ २५ ॥

tasmin lubdhā durācārānirdayāḥ śuṣka-vairiṇaḥdurbhagā bhūri-tarṣāś caśūdra-dāsottarāḥ prajāḥ

Shloka 26

सत्त्वं रजस्तम इति द‍ृश्यन्ते पुरुषे गुणा: । कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥

sattvaṁ rajas tama itidṛśyante puruṣe guṇāḥkāla-sañcoditās te vaiparivartanta ātmani

Shloka 27

प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याज्ज्ञाने तपसि यद् रुचि: ॥ २७ ॥

prabhavanti yadā sattvemano-buddhīndriyāṇi catadā kṛta-yugaṁ vidyājjñāne tapasi yad ruciḥ

Shloka 28

यदा कर्मसु काम्येषु भक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिरिति जानीहि बुद्धिमन् ॥ २८ ॥

yadā karmasu kāmyeṣubhaktir yaśasi dehināmtadā tretā rajo-vṛttiriti jānīhi buddhiman

Shloka 29

यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सर: । कर्मणां चापि काम्यानां द्वापरं तद् रजस्तम: ॥ २९ ॥

yadā lobhas tv asantoṣomāno dambho ’tha matsaraḥkarmaṇāṁ cāpi kāmyānāṁdvāparaṁ tad rajas-tamaḥ

Shloka 30

यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् । शोकमोहौ भयं दैन्यं स कलिस्तामस: स्मृत: ॥ ३० ॥

yadā māyānṛtaṁ tandrānidrā hiṁsā viṣādanamśoka-mohau bhayaṁ dainyaṁsa kalis tāmasaḥ smṛtaḥ

Shloka 31

तस्मात् क्षुद्रद‍ृशो मर्त्या: क्षुद्रभाग्या महाशना: । कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसती: ॥ ३१ ॥

tasmāt kṣudra-dṛśo martyāḥkṣudra-bhāgyā mahāśanāḥkāmino vitta-hīnāś casvairiṇyaś ca striyo ’satīḥ

Shloka 32

दस्यूत्कृष्टा जनपदा वेदा: पाषण्डदूषिता: । राजानश्च प्रजाभक्षा: शिश्न‍ोदरपरा द्विजा: ॥ ३२ ॥

dasyūtkṛṣṭā janapadāvedāḥ pāṣaṇḍa-dūṣitāḥrājānaś ca prajā-bhakṣāḥśiśnodara-parā dvijāḥ

Shloka 33

अव्रता बटवोऽशौचा भिक्षवश्च कुटुम्बिन: । तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपा: ॥ ३३ ॥

avratā baṭavo ’śaucābhikṣavaś ca kuṭumbinaḥtapasvino grāma-vāsānyāsino ’tyartha-lolupāḥ

Shloka 34

ह्रस्वकाया महाहारा भूर्यपत्या गतह्रिय: । शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसा: ॥ ३४ ॥

hrasva-kāyā mahāhārābhūry-apatyā gata-hriyaḥśaśvat kaṭuka-bhāṣiṇyaścaurya-māyoru-sāhasāḥ

Shloka 35

पणयिष्यन्ति वै क्षुद्रा: किराटा: कूटकारिण: । अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५ ॥

paṇayiṣyanti vai kṣudrāḥkirāṭāḥ kūṭa-kāriṇaḥanāpady api maṁsyantevārtāṁ sādhu jugupsitām

Shloka 36

पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् । भृत्यं विपन्नं पतय: कौलं गाश्चापयस्विनी: ॥ ३६ ॥

patiṁ tyakṣyanti nirdravyaṁbhṛtyā apy akhilottamambhṛtyaṁ vipannaṁ patayaḥkaulaṁ gāś cāpayasvinīḥ

Shloka 37

पितृभ्रातृसुहृज्ज्ञातीन् हित्वा सौरतसौहृदा: । ननान्‍द‍ृश्यालसंवादा दीना: स्त्रैणा: कलौ नरा: ॥ ३७ ॥

pitṛ-bhrātṛ-suhṛj-jñātīnhitvā saurata-sauhṛdāḥnanāndṛ-śyāla-saṁvādādīnāḥ straiṇāḥ kalau narāḥ

Shloka 38

शूद्रा: प्रतिग्रहीष्यन्ति तपोवेषोपजीविन: । धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥

śūdrāḥ pratigrahīṣyantitapo-veṣopajīvinaḥdharmaṁ vakṣyanty adharma-jñāadhiruhyottamāsanam

Shloka 39-40

नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिता: । निरन्ने भूतले राजननावृष्टिभयातुरा: ॥ ३९ ॥ वासोऽन्नपानशयनव्यवायस्न‍ानभूषणै: । हीना: पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजा: ॥ ४० ॥

nityam udvigna-manasodurbhikṣa-kara-karśitāḥniranne bhū-tale rājananāvṛṣṭi-bhayāturāḥ

Shloka 41

कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदा: । त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥

kalau kākiṇike ’py arthevigṛhya tyakta-sauhṛdāḥtyakṣyanti ca priyān prāṇānhaniṣyanti svakān api

Shloka 42

न रक्षिष्यन्ति मनुजा: स्थविरौ पितरावपि । पुत्रान् भार्यां च कुलजां क्षुद्रा: शिश्न‍ोदरंभरा: ॥ ४२ ॥

na rakṣiṣyanti manujāḥsthavirau pitarāv apiputrān bhāryāṁ ca kula-jāṁkṣudrāḥ śiśnodaraṁ-bharāḥ

Shloka 43

कलौ न राजन्जगतां परं गुरुंत्रिलोकनाथानतपादपङ्कजम् । प्रायेण मर्त्या भगवन्तमच्युतंयक्ष्यन्ति पाषण्डविभिन्नचेतस: ॥ ४३ ॥

kalau na rājan jagatāṁ paraṁ guruṁtri-loka-nāthānata-pāda-paṅkajamprāyeṇa martyā bhagavantam acyutaṁyakṣyanti pāṣaṇḍa-vibhinna-cetasaḥ

Shloka 44

यन्नामधेयं म्रियमाण आतुर:पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिंप्राप्नोति यक्ष्यन्ति न तं कलौ जना: ॥ ४४ ॥

yan-nāmadheyaṁ mriyamāṇa āturaḥpatan skhalan vā vivaśo gṛṇan pumānvimukta-karmārgala uttamāṁ gatiṁprāpnoti yakṣyanti na taṁ kalau janāḥ

Shloka 45

पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् । सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तम: ॥ ४५ ॥

puṁsāṁ kali-kṛtān doṣāndravya-deśātma-sambhavānsarvān harati citta-sthobhagavān puruṣottamaḥ

Shloka 46

श्रुत: सङ्कीर्तितो ध्यात: पूजितश्चाद‍ृतोऽपि वा । नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥

śrutaḥ saṅkīrtito dhyātaḥpūjitaś cādṛto ’pi vānṛṇāṁ dhunoti bhagavānhṛt-stho janmāyutāśubham

Shloka 47

यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् । एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥ ४७ ॥

yathā hemni sthito vahnirdurvarṇaṁ hanti dhātu-jamevam ātma-gato viṣṇuryoginām aśubhāśayam

Shloka 48

विद्यातप:प्राणनिरोधमैत्री-तीर्थाभिषेकव्रतदानजप्यै: । नात्यन्तशुद्धिं लभतेऽन्तरात्मायथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥

vidyā-tapaḥ-prāṇa-nirodha-maitrī-tīrthābhiṣeka-vrata-dāna-japyaiḥnātyanta-śuddhiṁ labhate ’ntarātmāyathā hṛdi-sthe bhagavaty anante

Shloka 49

तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् । म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ॥ ४९ ॥

tasmāt sarvātmanā rājanhṛdi-sthaṁ kuru keśavammriyamāṇo hy avahitastato yāsi parāṁ gatim

Shloka 50

म्रियमाणैरभिध्येयो भगवान् परमेश्वर: । आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रय: ॥ ५० ॥

mriyamāṇair abhidhyeyobhagavān parameśvaraḥātma-bhāvaṁ nayaty aṅgasarvātmā sarva-saṁśrayaḥ

Shloka 51

कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुण: । कीर्तनादेव कृष्णस्य मुक्तसङ्ग: परं व्रजेत् ॥ ५१ ॥

kaler doṣa-nidhe rājannasti hy eko mahān guṇaḥkīrtanād eva kṛṣṇasyamukta-saṅgaḥ paraṁ vrajet

Shloka 52

कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखै: । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ ५२ ॥

kṛte yad dhyāyato viṣṇuṁtretāyāṁ yajato makhaiḥdvāpare paricaryāyāṁkalau tad dhari-kīrtanāt

← PrevNext →