Canto 12, Chapter 6
सूत उवाच एतन्निशम्य मुनिनाभिहितं परीक्षिद्व्यासात्मजेन निखिलात्मदृशा समेन । तत्पादमूलमुपसृत्य नतेन मूर्ध्नाबद्धाञ्जलिस्तमिदमाह स विष्णुरात: ॥ १ ॥
sūta uvācaetan niśamya muninābhihitaṁ parīkṣidvyāsātmajena nikhilātma-dṛśā samenatat-pāda-mūlam upasṛtya natena mūrdhnābaddhāñjalis tam idam āha sa viṣṇurātaḥ
राजोवाचसिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना । श्रावितो यच्च मे साक्षादनादिनिधनो हरि: ॥ २ ॥
rājovācasiddho ’smy anugṛhīto ’smibhavatā karuṇātmanāśrāvito yac ca me sākṣādanādi-nidhano hariḥ
नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् । अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रह: ॥ ३ ॥
nāty-adbhutam ahaṁ manyemahatām acyutātmanāmajñeṣu tāpa-tapteṣubhūteṣu yad anugrahaḥ
पुराणसंहितामेतामश्रौष्म भवतो वयम् । यस्यां खलूत्तम:श्लोको भगवाननुवर्ण्यते ॥ ४ ॥
purāṇa-saṁhitām etāmaśrauṣma bhavato vayamyasyāṁ khalūttamaḥ-ślokobhagavān anuvarṇyate
भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम् । प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया ॥ ५ ॥
bhagavaṁs takṣakādibhyomṛtyubhyo na bibhemy ahampraviṣṭo brahma nirvāṇamabhayaṁ darśitaṁ tvayā
अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्यधोक्षजे । मुक्तकामाशयं चेत: प्रवेश्य विसृजाम्यसून् ॥ ६ ॥
anujānīhi māṁ brahmanvācaṁ yacchāmy adhokṣajemukta-kāmāśayaṁ cetaḥpraveśya visṛjāmy asūn
अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया । भवता दर्शितं क्षेमं परं भगवत: पदम् ॥ ७ ॥
ajñānaṁ ca nirastaṁ mejñāna-vijñāna-niṣṭhayābhavatā darśitaṁ kṣemaṁparaṁ bhagavataḥ padam
सूत उवाच इत्युक्तस्तमनुज्ञाप्य भगवान् बादरायणि: । जगाम भिक्षुभि: साकं नरदेवेन पूजित: ॥ ८ ॥
sūta uvācaity uktas tam anujñāpyabhagavān bādarāyaṇiḥjagāma bhikṣubhiḥ sākaṁnara-devena pūjitaḥ
परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना । समाधाय परं दध्यावस्पन्दासुर्यथा तरु: ॥ ९ ॥ प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुख: । ब्रह्मभूतो महायोगी नि:सङ्गश्छिन्नसंशय: ॥ १० ॥
parīkṣid api rājarṣirātmany ātmānam ātmanāsamādhāya paraṁ dadhyāvaspandāsur yathā taruḥ
तक्षक: प्रहितो विप्रा: क्रुद्धेन द्विजसूनुना । हन्तुकामो नृपं गच्छन् ददर्श पथि कश्यपम् ॥ ११ ॥
takṣakaḥ prahito viprāḥkruddhena dvija-sūnunāhantu-kāmo nṛpaṁ gacchandadarśa pathi kaśyapam
तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् । द्विजरूपप्रतिच्छन्न: कामरूपोऽदशन्नृपम् ॥ १२ ॥
taṁ tarpayitvā draviṇairnivartya viṣa-hāriṇamdvija-rūpa-praticchannaḥkāma-rūpo ’daśan nṛpam
ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना । बभूव भस्मसात् सद्य: पश्यतां सर्वदेहिनाम् ॥ १३ ॥
brahma-bhūtasya rājarṣerdeho ’hi-garalāgninābabhūva bhasmasāt sadyaḥpaśyatāṁ sarva-dehinām
हाहाकारो महानासीद् भुवि खे दिक्षु सर्वत: । विस्मिता ह्यभवन् सर्वे देवासुरनरादय: ॥ १४ ॥
hāhā-kāro mahān āsīdbhuvi khe dikṣu sarvataḥvismitā hy abhavan sarvedevāsura-narādayaḥ
देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगु: । ववृषु: पुष्पवर्षाणि विबुधा: साधुवादिन: ॥ १५ ॥
deva-dundubhayo nedurgandharvāpsaraso jaguḥvavṛṣuḥ puṣpa-varṣāṇivibudhāḥ sādhu-vādinaḥ
जन्मेजय: स्वपितरं श्रुत्वा तक्षकभक्षितम् । यथा जुहाव सङ्क्रुद्धो नागान् सत्रे सह द्विजै: ॥ १६ ॥
janmejayaḥ sva-pitaraṁśrutvā takṣaka-bhakṣitamyathājuhāva saṅkruddhonāgān satre saha dvijaiḥ
सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान् । दृष्ट्वेन्द्रं भयसंविग्नस्तक्षक: शरणं ययौ ॥ १७ ॥
sarpa-satre samiddhāgnaudahyamānān mahoragāndṛṣṭvendraṁ bhaya-saṁvignastakṣakaḥ śaraṇaṁ yayau
अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान् । उवाच तक्षक: कस्मान्न दह्येतोरगाधम: ॥ १८ ॥
apaśyaṁs takṣakaṁ tatrarājā pārīkṣito dvijānuvāca takṣakaḥ kasmānna dahyetoragādhamaḥ
तं गोपायति राजेन्द्र शक्र: शरणमागतम् । तेन संस्तम्भित: सर्पस्तस्मान्नाग्नौ पतत्यसौ ॥ १९ ॥
taṁ gopāyati rājendraśakraḥ śaraṇam āgatamtena saṁstambhitaḥ sarpastasmān nāgnau pataty asau
पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधी: । सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥ २० ॥
pārīkṣita iti śrutvāprāhartvija udāra-dhīḥsahendras takṣako viprānāgnau kim iti pātyate
तच्छ्रुत्वाजुहुवुर्विप्रा: सहेन्द्रं तक्षकं मखे । तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥ २१ ॥
tac chrutvājuhuvur viprāḥsahendraṁ takṣakaṁ makhetakṣakāśu patasvehasahendreṇa marutvatā
इति ब्रह्मोदिताक्षेपै: स्थानादिन्द्र: प्रचालित: । बभूव सम्भ्रान्तमति: सविमान: सतक्षक: ॥ २२ ॥
iti brahmoditākṣepaiḥsthānād indraḥ pracālitaḥbabhūva sambhrānta-matiḥsa-vimānaḥ sa-takṣakaḥ
तं पतन्तं विमानेन सहतक्षकमम्बरात् । विलोक्याङ्गिरस: प्राह राजानं तं बृहस्पति: ॥ २३ ॥
taṁ patantaṁ vimānenasaha-takṣakam ambarātvilokyāṅgirasaḥ prāharājānaṁ taṁ bṛhaspatiḥ
नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् । अनेन पीतममृतमथ वा अजरामर: ॥ २४ ॥
naiṣa tvayā manuṣyendravadham arhati sarpa-rāṭanena pītam amṛtamatha vā ajarāmaraḥ
जीवितं मरणं जन्तोर्गति: स्वेनैव कर्मणा । राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदु:खयो: ॥ २५ ॥
jīvitaṁ maraṇaṁ jantorgatiḥ svenaiva karmaṇārājaṁs tato ’nyo nāsty asyapradātā sukha-duḥkhayoḥ
सर्पचौराग्निविद्युद्भ्य: क्षुत्तृड्व्याध्यादिभिर्नृप । पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् ॥ २६ ॥
sarpa-caurāgni-vidyudbhyaḥkṣut-tṛd-vyādhy-ādibhir nṛpapañcatvam ṛcchate janturbhuṅkta ārabdha-karma tat
तस्मात् सत्रमिदं राजन् संस्थीयेताभिचारिकम् । सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते ॥ २७ ॥
tasmāt satram idaṁ rājansaṁsthīyetābhicārikamsarpā anāgaso dagdhājanair diṣṭaṁ hi bhujyate
सूत उवाच इत्युक्त: स तथेत्याह महर्षेर्मानयन् वच: । सर्पसत्रादुपरत: पूजयामास वाक्पतिम् ॥ २८ ॥
sūta uvācaity uktaḥ sa tathety āhamaharṣer mānayan vacaḥsarpa-satrād uparataḥpūjayām āsa vāk-patim
सैषा विष्णोर्महामायाबाध्ययालक्षणा यया । मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभि: ॥ २९ ॥
saiṣā viṣṇor mahā-māyā-bādhyayālakṣaṇā yayāmuhyanty asyaivātma-bhūtābhūteṣu guṇa-vṛttibhiḥ
न यत्र दम्भीत्यभया विराजितामायात्मवादेऽसकृदात्मवादिभि: । न यद्विवादो विविधस्तदाश्रयोमनश्च सङ्कल्पविकल्पवृत्ति यत् ॥ ३० ॥ न यत्र सृज्यं सृजतोभयो: परंश्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम् । तदेतदुत्सादितबाध्यबाधकंनिषिध्य चोर्मीन् विरमेत तन्मुनि: ॥ ३१ ॥
na yatra dambhīty abhayā virājitāmāyātma-vāde ’sakṛd ātma-vādibhiḥna yad vivādo vividhas tad-āśrayomanaś ca saṅkalpa-vikalpa-vṛtti yat
परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षव: । विसृज्य दौरात्म्यमनन्यसौहृदाहृदोपगुह्यावसितं समाहितै: ॥ ३२ ॥
paraṁ padaṁ vaiṣṇavam āmananti tadyan neti netīty atad-utsisṛkṣavaḥvisṛjya daurātmyam ananya-sauhṛdāhṛdopaguhyāvasitaṁ samāhitaiḥ
त एतदधिगच्छन्ति विष्णोर्यत् परमं पदम् । अहं ममेति दौर्जन्यं न येषां देहगेहजम् ॥ ३३ ॥
ta etad adhigacchantiviṣṇor yat paramaṁ padamahaṁ mameti daurjanyaṁna yeṣāṁ deha-geha-jam
अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ३४ ॥
ativādāṁs titikṣetanāvamanyeta kañcanana cemaṁ deham āśrityavairaṁ kurvīta kenacit
नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे । यत्पादाम्बुरुहध्यानात् संहितामध्यगामिमाम् ॥ ३५ ॥
namo bhagavate tasmaikṛṣṇāyākuṇṭha-medhaseyat-pādāmburuha-dhyānātsaṁhitām adhyagām imām
श्रीशौनक उवाच पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभि: । वेदाश्च कथिता व्यस्ता एतत् सौम्याभिधेहि न: ॥ ३६ ॥
śrī-śaunaka uvācapailādibhir vyāsa-śiṣyairvedācāryair mahātmabhiḥvedāś ca kathitā vyastāetat saumyābhidhehi naḥ
सूत उवाच समाहितात्मनो ब्रह्मन् ब्रह्मण: परमेष्ठिन: । हृद्याकाशादभून्नादो वृत्तिरोधाद् विभाव्यते ॥ ३७ ॥
sūta uvācasamāhitātmano brahmanbrahmaṇaḥ parameṣṭhinaḥhṛdy ākāśād abhūn nādovṛtti-rodhād vibhāvyate
यदुपासनया ब्रह्मन् योगिनो मलमात्मन: । द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ॥ ३८ ॥
yad-upāsanayā brahmanyogino malam ātmanaḥdravya-kriyā-kārakākhyaṁdhūtvā yānty apunar-bhavam
ततोऽभूत्त्रिवृदोंकारो योऽव्यक्तप्रभव: स्वराट् । यत्तल्लिङ्गं भगवतो ब्रह्मण: परमात्मन: ॥ ३९ ॥
tato ’bhūt tri-vṛd oṁkāroyo ’vyakta-prabhavaḥ sva-rāṭyat tal liṅgaṁ bhagavatobrahmaṇaḥ paramātmanaḥ
शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् । येन वाग् व्यज्यते यस्य व्यक्तिराकाश आत्मन: ॥ ४० ॥ स्वधाम्नो ब्राह्मण: साक्षाद् वाचक: परमात्मन: । स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ॥ ४१ ॥
śṛṇoti ya imaṁ sphoṭaṁsupta-śrotre ca śūnya-dṛkyena vāg vyajyate yasyavyaktir ākāśa ātmanaḥ
तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह । धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तय: ॥ ४२ ॥
tasya hy āsaṁs trayo varṇāa-kārādyā bhṛgūdvahadhāryante yais trayo bhāvāguṇa-nāmārtha-vṛttayaḥ
ततोऽक्षरसमाम्नायमसृजद् भगवानज: । अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥ ४३ ॥
tato ’kṣara-samāmnāyamasṛjad bhagavān ajaḥantasthoṣma-svara-sparśa-hrasva-dīrghādi-lakṣaṇam
तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभु: । सव्याहृतिकान् सोंकारांश्चातुर्होत्रविवक्षया ॥ ४४ ॥
tenāsau caturo vedāṁścaturbhir vadanair vibhuḥsa-vyāhṛtikān soṁkārāṁścātur-hotra-vivakṣayā
पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन् ब्रह्मकोविदान् । ते तु धर्मोपदेष्टार: स्वपुत्रेभ्य: समादिशन् ॥ ४५ ॥
putrān adhyāpayat tāṁs tubrahmarṣīn brahma-kovidānte tu dharmopadeṣṭāraḥsva-putrebhyaḥ samādiśan
ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतै: । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभि: ॥ ४६ ॥
te paramparayā prāptāstat-tac-chiṣyair dhṛta-vrataiḥcatur-yugeṣv atha vyastādvāparādau maharṣibhiḥ
क्षीणायुष: क्षीणसत्त्वान् दुर्मेधान् वीक्ष्य कालत: । वेदान्ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिता: ॥ ४७ ॥
kṣīṇāyuṣaḥ kṣīṇa-sattvāndurmedhān vīkṣya kālataḥvedān brahmarṣayo vyasyanhṛdi-sthācyuta-coditāḥ
अस्मिन्नप्यन्तरे ब्रह्मन् भगवान्लोकभावन: । ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥ ४८ ॥ पराशरात् सत्यवत्यामंशांशकलया विभु: । अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥ ४९ ॥
asminn apy antare brahmanbhagavān loka-bhāvanaḥbrahmeśādyair loka-pālairyācito dharma-guptaye
ऋगथर्वयजु:साम्नां राशीरुद्धृत्य वर्गश: । चतस्र: संहिताश्चक्रे मन्त्रैर्मणिगणा इव ॥ ५० ॥
ṛg-atharva-yajuḥ-sāmnāṁrāśīr uddhṛtya vargaśaḥcatasraḥ saṁhitāś cakremantrair maṇi-gaṇā iva
तासां स चतुर: शिष्यानुपाहूय महामति: । एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभु: ॥ ५१ ॥
tāsāṁ sa caturaḥ śiṣyānupāhūya mahā-matiḥekaikāṁ saṁhitāṁ brahmannekaikasmai dadau vibhuḥ
पैलाय संहितामाद्यां बह्वृचाख्यां उवाच ह । वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥ ५२ ॥ साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् । अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥ ५३ ॥
pailāya saṁhitām ādyāṁbahvṛcākhyāṁ uvāca havaiśampāyana-saṁjñāyanigadākhyaṁ yajur-gaṇam
पैल: स्वसंहितामूचे इन्द्रप्रमितये मुनि: । बाष्कलाय च सोऽप्याह शिष्येभ्य: संहितां स्वकाम् ॥ ५४ ॥ चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव । पराशरायाग्निमित्र इन्द्रप्रमितिरात्मवान् ॥ ५५ ॥ अध्यापयत् संहितां स्वां माण्डूकेयमृषिं कविम् । तस्य शिष्यो देवमित्र: सौभर्यादिभ्य ऊचिवान् ॥ ५६ ॥
pailaḥ sva-saṁhitām ūceindrapramitaye muniḥbāṣkalāya ca so ’py āhaśiṣyebhyaḥ saṁhitāṁ svakām
शाकल्यस्तत्सुत: स्वां तु पञ्चधा व्यस्य संहिताम् । वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥ ५७ ॥
śākalyas tat-sutaḥ svāṁ tupañcadhā vyasya saṁhitāmvātsya-mudgala-śālīya-gokhalya-śiśireṣv adhāt
जातूकर्ण्यश्च तच्छिष्य: सनिरुक्तां स्वसंहिताम् । बलाकपैलजाबालविरजेभ्यो ददौ मुनि: ॥ ५८ ॥
jātūkarṇyaś ca tac-chiṣyaḥsa-niruktāṁ sva-saṁhitāmbalāka-paila-jābāla-virajebhyo dadau muniḥ
बाष्कलि: प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् । चक्रे वालायनिर्भज्य: काशारश्चैव तां दधु: ॥ ५९ ॥
bāṣkaliḥ prati-śākhābhyovālakhilyākhya-saṁhitāmcakre vālāyanir bhajyaḥkāśāraś caiva tāṁ dadhuḥ
बह्वृचा: संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृता: । श्रुत्वैतच्छन्दसां व्यासं सर्वपापै: प्रमुच्यते ॥ ६० ॥
bahvṛcāḥ saṁhitā hy etāebhir brahmarṣibhir dhṛtāḥśrutvaitac-chandasāṁ vyāsaṁsarva-pāpaiḥ pramucyate
वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांह: क्षपणं स्वगुरोर्व्रतम् ॥ ६१ ॥
vaiśampāyana-śiṣyā vaicarakādhvaryavo ’bhavanyac cerur brahma-hatyāṁhaḥkṣapaṇaṁ sva-guror vratam
याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन् कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥ ६२ ॥
yājñavalkyaś ca tac-chiṣyaāhāho bhagavan kiyatcaritenālpa-sārāṇāṁcariṣye ’haṁ su-duścaram
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ ६३ ॥
ity ukto gurur apy āhakupito yāhy alaṁ tvayāviprāvamantrā śiṣyeṇamad-adhītaṁ tyajāśv iti
देवरातसुत: सोऽपि छर्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् ॥ ६४ ॥ यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददु: । तैत्तिरीया इति यजु:शाखा आसन् सुपेशला: ॥ ६५ ॥
devarāta-sutaḥ so ’picharditvā yajuṣāṁ gaṇamtato gato ’tha munayodadṛśus tān yajur-gaṇān
याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६६ ॥
yājñavalkyas tato brahmaṁśchandāṁsy adhi gaveṣayanguror avidyamānānisūpatasthe ’rkam īśvaram
श्रीयाज्ञवल्क्य उवाच ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादान विसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ६७ ॥
śrī-yājñavalkya uvācaoṁ namo bhagavate ādityāyākhila-jagatām ātma-svarūpeṇa kāla-svarūpeṇa catur-vidha-bhūta-nikāyānāṁ brahmādi-stamba-paryantānām antar-hṛdayeṣu bahir api cākāśa ivopādhināvyavadhīyamāno bhavān eka eva kṣaṇa-lava-nimeṣāvayavopacita-saṁvatsara-gaṇenāpām ādāna- visargābhyām imāṁ loka-yātrām anuvahati.
यदु ह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहर अहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिन बीजावभर्जन भगवत: समभिधीमहि तपन मण्डलम् ॥ ६८ ॥
yad u ha vāva vibudharṣabha savitar adas tapaty anusavanam ahar ahar āmnāya-vidhinopatiṣṭhamānānām akhila-durita-vṛjina- bījāvabharjana bhagavataḥ samabhidhīmahi tapana maṇḍalam.
य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइन्द्रियासु गणाननात्मन: स्वयमात्मान्तर्यामी प्रचोदयति ॥ ६९ ॥
ya iha vāva sthira-cara-nikarāṇāṁ nija-niketanānāṁ mana-indriyāsu-gaṇān anātmanaḥ svayam ātmāntar-yāmī pracodayati.
य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रह गिलितं मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने प्रवर्तयति ॥ ७० ॥
ya evemaṁ lokam ati-karāla-vadanāndhakāra-saṁjñājagara-graha-gilitaṁ mṛtakam iva vicetanam avalokyānukampayā parama-kāruṇika īkṣayaivotthāpyāhar ahar anusavanaṁ śreyasi sva-dharmākhyātmāva-sthane pravartayati.
अवनिपतिरिवासाधूनां भयमुदीरयन्नटति परित आशापालैस्तत्र तत्र कमलकोशाञ्जलिभिरुपहृतार्हण: ॥ ७१ ॥
avani-patir ivāsādhūnāṁ bhayam udīrayann aṭati parita āśā-pālais tatra tatra kamala-kośāñjalibhir upahṛtārhaṇaḥ.
अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिरभिवन्दितमहमयातयामयजुष्काम उपसरामीति ॥ ७२ ॥
atha ha bhagavaṁs tava caraṇa-nalina-yugalaṁ tri-bhuvana-gurubhir abhivanditam aham ayāta-yāma-yajuṣ-kāma upasarāmīti.
सूत उवाच एवं स्तुत: स भगवान् वाजिरूपधरो रवि: । यजूंष्ययातयामानि मुनयेऽदात् प्रसादित: ॥ ७३ ॥
sūta uvācaevaṁ stutaḥ sa bhagavānvāji-rūpa-dharo raviḥyajūṁṣy ayāta-yāmānimunaye ’dāt prasāditaḥ
यजुर्भिरकरोच्छाखा दशपञ्च शतैर्विभु: । जगृहुर्वाजसन्यस्ता: काण्वमाध्यन्दिनादय: ॥ ७४ ॥
yajurbhir akaroc chākhādaśa pañca śatair vibhuḥjagṛhur vājasanyas tāḥkāṇva-mādhyandinādayaḥ
जैमिने: सामगस्यासीत् सुमन्तुस्तनयो मुनि: । सुत्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ॥ ७५ ॥
jaimineḥ sama-gasyāsītsumantus tanayo muniḥsutvāṁs tu tat-sutas tābhyāmekaikāṁ prāha saṁhitām
सुकर्मा चापि तच्छिष्य: सामवेदतरोर्महान् । सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज ॥ ७६ ॥ हिरण्यनाभ: कौशल्य: पौष्यञ्जिश्च सुकर्मण: । शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तम: ॥ ७७ ॥
sukarmā cāpi tac-chiṣyaḥsāma-veda-taror mahānsahasra-saṁhitā-bhedaṁcakre sāmnāṁ tato dvija
उदीच्या: सामगा: शिष्या आसन् पञ्चशतानि वै । पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान् प्रचक्षते ॥ ७८ ॥
udīcyāḥ sāma-gāḥ śiṣyāāsan pañca-śatāni vaipauṣyañjy-āvantyayoś cāpitāṁś ca prācyān pracakṣate
लौगाक्षिर्माङ्गलि: कुल्य: कुशीद: कुक्षिरेव च । पौष्यञ्जिशिष्या जगृहु: संहितास्ते शतं शतम् ॥ ७९ ॥
laugākṣir māṅgaliḥ kulyaḥkuśīdaḥ kukṣir eva capauṣyañji-śiṣyā jagṛhuḥsaṁhitās te śataṁ śatam
कृतो हिरण्यनाभस्य चतुर्विंशतिसंहिता: । शिष्य ऊचे स्वशिष्येभ्य: शेषा आवन्त्य आत्मवान् ॥ ८० ॥
kṛto hiraṇyanābhasyacatur-viṁśati saṁhitāḥśiṣya ūce sva-śiṣyebhyaḥśeṣā āvantya ātmavān