← Canto 12

Canto 12, Chapter 7

Shloka 1

सूत उवाच अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत् स्वकाम् । संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ १ ॥

sūta uvācaatharva-vit sumantuś caśiṣyam adhyāpayat svakāmsaṁhitāṁ so ’pi pathyāyavedadarśāya coktavān

Shloka 2

शौक्लायनिर्ब्रह्मबलिर्मोदोष: पिप्पलायनि: । वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श‍ृणु । कुमुद: शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ॥ २ ॥

śauklāyanir brahmabalirmodoṣaḥ pippalāyaniḥvedadarśasya śiṣyās tepathya-śiṣyān atho śṛṇukumudaḥ śunako brahmanjājaliś cāpy atharva-vit

Shloka 3

बभ्रु: शिष्योऽथाङ्गिरस: सैन्धवायन एव च । अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ॥ ३ ॥

babhruḥ śiṣyo ’thāṅgirasaḥsaindhavāyana eva caadhīyetāṁ saṁhite dvesāvarṇādyās tathāpare

Shloka 4

नक्षत्रकल्प: शान्तिश्च कश्यपाङ्गिरसादय: । एते आथर्वणाचार्या: श‍ृणु पौराणिकान् मुने ॥ ४ ॥

nakṣatrakalpaḥ śāntiś cakaśyapāṅgirasādayaḥete ātharvaṇācāryāḥśṛṇu paurāṇikān mune

Shloka 5

त्रय्यारुणि: कश्यपश्च सावर्णिरकृतव्रण: । वैशम्पायनहारीतौ षड् वै पौराणिका इमे ॥ ५ ॥

trayyāruṇiḥ kaśyapaś casāvarṇir akṛtavraṇaḥvaiśampāyana-hārītauṣaḍ vai paurāṇikā ime

Shloka 6

अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात् । एकैकामहमेतेषां शिष्य: सर्वा: समध्यगाम् ॥ ६ ॥

adhīyanta vyāsa-śiṣyātsaṁhitāṁ mat-pitur mukhātekaikām aham eteṣāṁśiṣyaḥ sarvāḥ samadhyagām

Shloka 7

कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रण: । अधीमहि व्यासशिष्याच्चत्वारो मूलसंहिता: ॥ ७ ॥

kaśyapo ’haṁ ca sāvarṇīrāma-śiṣyo ’kṛtavraṇaḥadhīmahi vyāsa-śiṣyāccatvāro mūla-saṁhitāḥ

Shloka 8

पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम् । श‍ृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारत: ॥ ८ ॥

purāṇa-lakṣaṇaṁ brahmanbrahmarṣibhir nirūpitamśṛṇuṣva buddhim āśrityaveda-śāstrānusārataḥ

Shloka 9-10

सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुरपाश्रय: ॥ ९ ॥ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदु: । केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ १० ॥

sargo ’syātha visargaś cavṛtti-rakṣāntarāṇi cavaṁśo vaṁśānucaritaṁsaṁsthā hetur apāśrayaḥ

Shloka 11

अव्याकृतगुणक्षोभान्महतत्रिस्त्रवृतोऽहम: । भूतसूक्ष्मेन्द्रियार्थानां सम्भव: सर्ग उच्यते ॥ ११ ॥

avyākṛta-guṇa-kṣobhānmahatas tri-vṛto ’hamaḥbhūta-sūkṣmendriyārthānāṁsambhavaḥ sarga ucyate

Shloka 12

पुरुषानुगृहीतानामेतेषां वासनामय: । विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥ १२ ॥

puruṣānugṛhītānāmeteṣāṁ vāsanā-mayaḥvisargo ’yaṁ samāhārobījād bījaṁ carācaram

Shloka 13

वृत्तिर्भूतानि भूतानां चराणामचराणि च । कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ॥ १३ ॥

vṛttir bhūtāni bhūtānāṁcarāṇām acarāṇi cakṛtā svena nṛṇāṁ tatrakāmāc codanayāpi vā

Shloka 14

रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे । तिर्यङ्‌मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विष: ॥ १४ ॥

rakṣācyutāvatārehāviśvasyānu yuge yugetiryaṅ-martyarṣi-deveṣuhanyante yais trayī-dviṣaḥ

Shloka 15

मन्वन्तरं मनुर्देवा मनुपुत्रा: सुरेश्वरा: । ऋषयोऽशांवताराश्च हरे: षड्‌विधमुच्यते ॥ १५ ॥

manvantaraṁ manur devāmanu-putrāḥ sureśvarāḥṛṣayo ’ṁśāvatārāś cahareḥ ṣaḍ-vidham ucyate

Shloka 16

राज्ञां ब्रह्मप्रसूतानां वंश त्रैकालिकोऽन्वय: । वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ १६ ॥

rājñāṁ brahma-prasūtānāṁvaṁśas trai-kāliko ’nvayaḥvaṁśānucaritaṁ teṣāṁvṛttaṁ vaṁśa-dharās ca ye

Shloka 17

नैमित्तिक: प्राकृतिको नित्य आत्यन्तिको लय: । संस्थेति कविभि: प्रोक्तश्चतुर्धास्य स्वभावत: ॥ १७ ॥

naimittikaḥ prākṛtikonitya ātyantiko layaḥsaṁstheti kavibhiḥ proktaścaturdhāsya svabhāvataḥ

Shloka 18

हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारक: । यं चानुशायिनं प्राहुरव्याकृतमुतापरे ॥ १८ ॥

hetur jīvo ’sya sargāderavidyā-karma-kārakaḥyaṁ cānuśāyinaṁ prāhuravyākṛtam utāpare

Shloka 19

व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु । मायामयेषु तद् ब्रह्म जीववृत्तिष्वपाश्रय: ॥ १९ ॥

vyatirekānvayo yasyajāgrat-svapna-suṣuptiṣumāyā-mayeṣu tad brahmajīva-vṛttiṣv apāśrayaḥ

Shloka 20

पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु । बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥ २० ॥

padārtheṣu yathā dravyaṁsan-mātraṁ rūpa-nāmasubījādi-pañcatāntāsuhy avasthāsu yutāyutam

Shloka 21

विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् । योगेन वा तदात्मानं वेदेहाया निवर्तते ॥ २१ ॥

virameta yadā cittaṁhitvā vṛtti-trayaṁ svayamyogena vā tadātmānaṁvedehāyā nivartate

Shloka 22

एवंलक्षणलक्ष्याणि पुराणानि पुराविद: । मुनयोऽष्टादश प्राहु: क्षुल्लकानि महान्ति च ॥ २२ ॥

evaṁ lakṣaṇa-lakṣyāṇipurāṇāni purā-vidaḥmunayo ’ṣṭādaśa prāhuḥkṣullakāni mahānti ca

Shloka 23-24

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं । नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥ भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् । वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥

brāhmaṁ pādmaṁ vaiṣṇavaṁ caśaivaṁ laiṅgaṁ sa-gāruḍaṁnāradīyaṁ bhāgavatamāgneyaṁ skānda-saṁjñitam

Shloka 25

ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुने: । शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥ २५ ॥

brahmann idaṁ samākhyātaṁśākhā-praṇayanaṁ muneḥśiṣya-śiṣya-praśiṣyāṇāṁbrahma-tejo-vivardhanam

← PrevNext →