← Canto 12

Canto 12, Chapter 8

Shloka 1

श्रीशौनक उवाच सूत जीव चिरं साधो वद नो वदतां वर । तमस्यपारे भ्रमतां नृणां त्वं पारदर्शन: ॥ १ ॥

śrī-śaunaka uvācasūta jīva ciraṁ sādhovada no vadatāṁ varatamasy apāre bhramatāṁnṝṇāṁ tvaṁ pāra-darśanaḥ

Shloka 2-5

आहुश्चिरायुषमृषिं मृकण्डतनयं जना: । य: कल्पान्ते ह्युर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥ स वा अस्मत्कुलोत्पन्न: कल्पेऽस्मिन् भार्गवर्षभ: । नैवाधुनापि भूतानां सम्प्लव: कोऽपि जायते ॥ ३ ॥ एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल । वटपत्रपुटे तोकं शयानं त्वेकमद्भ‍ुतम् ॥ ४ ॥ एष न: संशयो भूयान् सूत कौतूहलं यत: । तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मत: ॥ ५ ॥

āhuś cirāyuṣam ṛṣiṁmṛkaṇḍu-tanayaṁ janāḥyaḥ kalpānte hy urvaritoyena grastam idaṁ jagat

Shloka 6

सूत उवाच प्रश्न‍स्त्वया महर्षेऽयं कृतो लोकभ्रमापह: । नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥

sūta uvācapraśnas tvayā maharṣe ’yaṁkṛto loka-bhramāpahaḥnārāyaṇa-kathā yatragītā kali-malāpahā

Shloka 7-11

प्राप्तद्विजातिसंस्कारो मार्कण्डेय: पितु: क्रमात् । छन्दांस्यधीत्य धर्मेण तप:स्वाध्यायसंयुत: ॥ ७ ॥ बृहद्‌व्रतधर: शान्तो जटिलो वल्कलाम्बर: । बिभ्रत् कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥ कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये । अग्‍न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९ ॥ सायं प्रात: स गुरवे भैक्ष्यमाहृत्य वाग्यत: । बुभुजे गुर्वनुज्ञात: सकृन्नो चेदुपोषित: ॥ १० ॥ एवं तप:स्वाध्यायपरो वर्षाणामयुतायुतम् । आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११ ॥

prāpta-dvijāti-saṁskāromārkaṇḍeyaḥ pituḥ kramātchandāṁsy adhītya dharmeṇatapaḥ-svādhyāya-saṁyutaḥ

Shloka 12

ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च येऽपरे । नृदेवपितृभूतानि तेनासन्नतिविस्मिता: ॥ १२ ॥

brahmā bhṛgur bhavo dakṣobrahma-putrāś ca ye ’parenṛ-deva-pitṛ-bhūtānitenāsann ati-vismitāḥ

Shloka 13

इत्थं बृहद्‌व्रतधरस्तप:स्वाध्यायसंयमै: । दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३ ॥

itthaṁ bṛhad-vrata-dharastapaḥ-svādhyāya-saṁyamaiḥdadhyāv adhokṣajaṁ yogīdhvasta-kleśāntarātmanā

Shloka 14

तस्यैवं युञ्जतश्चित्तं महायोगेन योगिन: । व्यतीयाय महान् कालो मन्वन्तरषडात्मक: ॥ १४ ॥

tasyaivaṁ yuñjataś cittaṁmahā-yogena yoginaḥvyatīyāya mahān kālomanvantara-ṣaḍ-ātmakaḥ

Shloka 15

एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे । तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम् ॥ १५ ॥

etat purandaro jñātvāsaptame ’smin kilāntaretapo-viśaṅkito brahmannārebhe tad-vighātanam

Shloka 16

गन्धर्वाप्सरस: कामं वसन्तमलयानिलौ । मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६ ॥

gandharvāpsarasaḥ kāmaṁvasanta-malayānilaumunaye preṣayām āsarajas-toka-madau tathā

Shloka 17

ते वै तदाश्रमं जग्मुर्हिमाद्रे: पार्श्व उत्तरे । पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥

te vai tad-āśramaṁ jagmurhimādreḥ pārśva uttarepuṣpabhadrā nadī yatracitrākhyā ca śilā vibho

Shloka 18-20

तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् । पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥ मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् । मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥ वायु: प्रविष्ट आदाय हिमनिर्झरशीकरान् । सुमनोभि: परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २० ॥

tad-āśrama-padaṁ puṇyaṁpuṇya-druma-latāñcitampuṇya-dvija-kulākīrṇaṁpuṇyāmala-jalāśayam

Shloka 21

उद्यच्चन्द्रनिशावक्त्र: प्रवालस्तबकालिभि: । गोपद्रुमलताजालैस्तत्रासीत् कुसुमाकर: ॥ २१ ॥

udyac-candra-niśā-vaktraḥpravāla-stabakālibhiḥgopa-druma-latā-jālaistatrāsīt kusumākaraḥ

Shloka 22

अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकै: । अद‍ृश्यतात्तचापेषु: स्व:स्त्रीयूथपति: स्मर: ॥ २२ ॥

anvīyamāno gandharvairgīta-vāditra-yūthakaiḥadṛśyatātta-cāpeṣuḥsvaḥ-strī-yūtha-patiḥ smaraḥ

Shloka 23

हुत्वाग्निं समुपासीनं दद‍ृशु: शक्रकिङ्करा: । मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥

hutvāgniṁ samupāsīnaṁdadṛśuḥ śakra-kiṅkarāḥmīlitākṣaṁ durādharṣaṁmūrtimantam ivānalam

Shloka 24

ननृतुस्तस्य पुरत: स्त्रियोऽथो गायका जगु: । मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥

nanṛtus tasya purataḥstriyo ’tho gāyakā jaguḥmṛdaṅga-vīṇā-paṇavairvādyaṁ cakrur mano-ramam

Shloka 25

सन्दधेऽस्त्रं स्वधनुषि काम: पञ्चमुखं तदा । मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥

sandadhe ’straṁ sva-dhanuṣikāmaḥ pañca-mukhaṁ tadāmadhur mano rajas-tokaindra-bhṛtyā vyakampayan

Shloka 26-27

क्रीडन्त्या: पुञ्जिकस्थल्या: कन्दुकै: स्तनगौरवात् । भृशमुद्विग्नमध्याया: केशविस्रंसितस्रज: ॥ २६ ॥ इतस्ततोभ्रमद्‌‌दृष्टेश्चलन्त्या अनुकन्दुकम् । वायुर्जहार तद्वास: सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥

krīḍantyāḥ puñjikasthalyāḥkandukaiḥ stana-gauravātbhṛśam udvigna-madhyāyāḥkeśa-visraṁsita-srajaḥ

Shloka 28

विससर्ज तदा बाणं मत्वा तं स्वजितं स्मर: । सर्वं तत्राभवन्मोघमनीशस्य यथोद्यम: ॥ २८ ॥

visasarja tadā bāṇaṁmatvā taṁ sva-jitaṁ smaraḥsarvaṁ tatrābhavan moghamanīśasya yathodyamaḥ

Shloka 29

त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने । दह्यमाना निववृतु: प्रबोध्याहिमिवार्भका: ॥ २९ ॥

ta ittham apakurvantomunes tat-tejasā munedahyamānā nivavṛtuḥprabodhyāhim ivārbhakāḥ

Shloka 30

इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनि: । यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३० ॥

itīndrānucarair brahmandharṣito ’pi mahā-muniḥyan nāgād ahamo bhāvaṁna tac citraṁ mahatsu hi

Shloka 31

द‍ृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् । श्रुत्वानुभावं ब्रह्मर्षेर्विस्मयं समगात् परम् ॥ ३१ ॥

dṛṣṭvā nistejasaṁ kāmaṁsa-gaṇaṁ bhagavān svarāṭśrutvānubhāvaṁ brahmarṣervismayaṁ samagāt param

Shloka 32

तस्यैवं युञ्जतश्चित्तं तप:स्वाध्यायसंयमै: । अनुग्रहायाविरासीन्नरनारायणो हरि: ॥ ३२ ॥

tasyaivaṁ yuñjataś cittaṁtapaḥ-svādhyāya-saṁyamaiḥanugrahāyāvirāsīnnara-nārāyaṇo hariḥ

Shloka 33-34

तौ शुक्लकृष्णौ नवकञ्जलोचनौचतुर्भुजौ रौरववल्कलाम्बरौ । पवित्रपाणी उपवीतकं त्रिवृत्कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३ ॥ पद्माक्षमालामुत जन्तुमार्जनंवेदं च साक्षात्तप एव रूपिणौ । तपत्तडिद्वर्णपिशङ्गरोचिषाप्रांशू दधानौ विबुधर्षभार्चितौ ॥ ३४ ॥

tau śukla-kṛṣṇau nava-kañja-locanaucatur-bhujau raurava-valkalāmbaraupavitra-pāṇī upavītakaṁ tri-vṛtkamaṇḍaluṁ daṇḍam ṛjuṁ ca vaiṇavam

Shloka 35

ते वै भगवतो रूपे नरनारायणावृषी । द‍ृष्ट्वोत्थायादरेणोच्चैर्ननामाङ्गेन दण्डवत् ॥ ३५ ॥

te vai bhagavato rūpenara-nārāyaṇāv ṛṣīdṛṣṭvotthāyādareṇoccairnanāmāṅgena daṇḍa-vat

Shloka 36

स तत्सन्दर्शनानन्दनिर्वृतात्मेन्द्रियाशय: । हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६ ॥

sa tat-sandarśanānanda-nirvṛtātmendriyāśayaḥhṛṣṭa-romāśru-pūrṇākṣona sehe tāv udīkṣitum

Shloka 37

उत्थाय प्राञ्जलि: प्रह्व औत्सुक्यादाश्लिषन्निव । नमो नम इतीशानौ बभाशे गद्गदाक्षरम् ॥ ३७ ॥

utthāya prāñjaliḥ prahvaautsukyād āśliṣann ivanamo nama itīśānaubabhāṣe gadgadākṣaram

Shloka 38

तयोरासनमादाय पादयोरवनिज्य च । अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८ ॥

tayor āsanam ādāyapādayor avanijya caarhaṇenānulepenadhūpa-mālyair apūjayat

Shloka 39

सुखमासनमासीनौ प्रसादाभिमुखौ मुनी । पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९ ॥

sukham āsanam āsīnauprasādābhimukhau munīpunar ānamya pādābhyāṁgariṣṭhāv idam abravīt

Shloka 40

श्रीमार्कण्डेय उवाच किं वर्णये तव विभो यदुदीरितोऽसु:संस्पन्दते तमनु वाङ्‌मनइन्द्रियाणि । स्पन्दन्ति वै तनुभृतामजशर्वयोश्चस्वस्याप्यथापि भजतामसि भावबन्धु: ॥ ४० ॥

śrī-mārkaṇḍeya uvācakiṁ varṇaye tava vibho yad-udīrito ’suḥsaṁspandate tam anu vāṅ-mana-indriyāṇispandanti vai tanu-bhṛtām aja-śarvayoś casvasyāpy athāpi bhajatām asi bhāva-bandhuḥ

Shloka 41

मूर्ती इमे भगवतो भगवंस्त्रिलोक्या:क्षेमाय तापविरमाय च मृत्युजित्यै । नाना बिभर्ष्यवितुमन्यतनूर्यथेदंसृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभि: ॥ ४१ ॥

mūrtī ime bhagavato bhagavaṁs tri-lokyāḥkṣemāya tāpa-viramāya ca mṛtyu-jityainānā bibharṣy avitum anya-tanūr yathedaṁsṛṣṭvā punar grasasi sarvam ivorṇanābhiḥ

Shloka 42

तस्यावितु: स्थिरचरेशितुरङ्‍‍घ्रिमूलंयत्स्थं न कर्मगुणकालरज: स्पृशन्ति । यद् वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णंध्यायन्ति वेदहृदया मुनयस्तदाप्‍त्यै ॥ ४२ ॥

tasyāvituḥ sthira-careśitur aṅghri-mūlaṁyat-sthaṁ na karma-guṇa-kāla-rajaḥ spṛśantiyad vai stuvanti ninamanti yajanty abhīkṣṇaṁdhyāyanti veda-hṛdayā munayas tad-āptyai

Shloka 43

नान्यं तवाङ्‌घ्र्युपनयादपवर्गमूर्ते:क्षेमं जनस्य परितोभिय ईश विद्म: । ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्य:कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३ ॥

nānyaṁ tavāṅghry-upanayād apavarga-mūrteḥkṣemaṁ janasya parito-bhiya īśa vidmaḥbrahmā bibhety alam ato dvi-parārdha-dhiṣṇyaḥkālasya te kim uta tat-kṛta-bhautikānām

Shloka 44

तद् वै भजाम्यृतधियस्तव पादमूलंहित्वेदमात्मच्छदि चात्मगुरो: परस्य । देहाद्यपार्थमसदन्त्यमभिज्ञमात्रंविन्देत ते तर्हि सर्वमनीषितार्थम् ॥ ४४ ॥

tad vai bhajāmy ṛta-dhiyas tava pāda-mūlaṁhitvedam ātma-cchadi cātma-guroḥ parasyadehādy apārtham asad antyam abhijña-mātraṁvindeta te tarhi sarva-manīṣitārtham

Shloka 45

सत्त्वं रजस्तम इतीश तवात्मबन्धोमायामया: स्थितिलयोदयहेतवोऽस्य । लीला धृता यदपि सत्त्वमयी प्रशान्त्यैनान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५ ॥

sattvaṁ rajas tama itīśa tavātma-bandhomāyā-mayāḥ sthiti-layodaya-hetavo ’syalīlā dhṛtā yad api sattva-mayī praśāntyainānye nṛṇāṁ vyasana-moha-bhiyaś ca yābhyām

Shloka 46

तस्मात्तवेह भगवन्नथ तावकानांशुक्लां तनुं स्वदयितां कुशला भजन्ति । यत् सात्वता: पुरुषरूपमुशन्ति सत्त्वंलोको यतोऽभयमुतात्मसुखं न चान्यत् ॥ ४६ ॥

tasmāt taveha bhagavann atha tāvakānāṁśuklāṁ tanuṁ sva-dayitāṁ kuśalā bhajantiyat sātvatāḥ puruṣa-rūpam uśanti sattvaṁloko yato ’bhayam utātma-sukhaṁ na cānyat

Shloka 47

तस्मै नमो भगवते पुरुषाय भूम्नेविश्वाय विश्वगुरवे परदैवताय । नारायणाय ऋषये च नरोत्तमायहंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥

tasmai namo bhagavate puruṣāya bhūmneviśvāya viśva-gurave para-daivatāyanārāyaṇāya ṛṣaye ca narottamāyahaṁsāya saṁyata-gire nigameśvarāya

Shloka 48

यं वै न वेद वितथाक्षपथैर्भ्रमद्धी:सन्तं स्वकेष्वसुषु हृद्यपि द‍ृक्पथेषु । तन्माययावृतमति: स उ एव साक्षा-दाद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥ ४८ ॥

yaṁ vai na veda vitathākṣa-pathair bhramad-dhīḥsantaṁ svakeṣv asuṣu hṛdy api dṛk-patheṣutan-māyayāvṛta-matiḥ sa u eva sākṣādādyas tavākhila-guror upasādya vedam

Shloka 49

यद्दर्शनं निगम आत्मरह:प्रकाशंमुह्यन्ति यत्र कवयोऽजपरा यतन्त: । तं सर्ववादविषयप्रतिरूपशीलंवन्दे महापुरुषमात्मनिगूढबोधम् ॥ ४९ ॥

yad-darśanaṁ nigama ātma-rahaḥ-prakāśaṁmuhyanti yatra kavayo ’ja-parā yatantaḥtaṁ sarva-vāda-viṣaya-pratirūpa-śīlaṁvande mahā-puruṣam ātma-nigūḍha-bodham

← PrevNext →