← Canto 12

Canto 12, Chapter 9

Shloka 1

सूत उवाच संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता । नारायणो नरसख: प्रीत आह भृगूद्वहम् ॥ १ ॥

sūta uvācasaṁstuto bhagavān itthaṁmārkaṇḍeyena dhīmatānārāyaṇo nara-sakhaḥprīta āha bhṛgūdvaham

Shloka 2

श्रीभगवानुवाचभो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना । मयि भक्त्यानपायिन्या तप:स्वाध्यायसंयमै: ॥ २ ॥

śrī-bhagavān uvācabho bho brahmarṣi-varyo ’sisiddha ātma-samādhināmayi bhaktyānapāyinyātapaḥ-svādhyāya-saṁyamaiḥ

Shloka 3

वयं ते परितुष्टा: स्म त्वद् बृहद्‌व्रतचर्यया । वरं प्रतीच्छ भद्रं ते वरदोऽस्मि त्वदीप्सितम् ॥ ३ ॥

vayaṁ te parituṣṭāḥ smatvad-bṛhad-vrata-caryayāvaraṁ pratīccha bhadraṁ tevara-do ’smi tvad-īpsitam

Shloka 4

श्रीऋषिरुवाचजितं ते देवदेवेश प्रपन्नार्तिहराच्युत । वरेणैतावतालं नो यद् भवान् समद‍ृश्यत ॥ ४ ॥

śrī-ṛṣir uvācajitaṁ te deva-deveśaprapannārti-harācyutavareṇaitāvatālaṁ noyad bhavān samadṛśyata

Shloka 5

गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम् । मनसा योगपक्वेन स भवान् मेऽक्षिगोचर: ॥ ५ ॥

gṛhītvājādayo yasyaśrīmat-pādābja-darśanammanasā yoga-pakvenasa bhavān me ’kṣi-gocaraḥ

Shloka 6

अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे । द्रक्ष्ये मायां यया लोक: सपालो वेद सद्भ‍िदाम् ॥ ६ ॥

athāpy ambuja-patrākṣapuṇya-śloka-śikhāmaṇedrakṣye māyāṁ yayā lokaḥsa-pālo veda sad-bhidām

Shloka 7

सूत उवाच इतीडितोऽर्चित: काममृषिणा भगवान् मुने । तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वर: ॥ ७ ॥

sūta uvācaitīḍito ’rcitaḥ kāmamṛṣiṇā bhagavān munetatheti sa smayan prāgādbadary-āśramam īśvaraḥ

Shloka 8-9

तमेव चिन्तयन्नर्थमृषि: स्वाश्रम एव स: । वसन्नग्‍न्यर्कसोमाम्बुभूवायुवियदात्मसु ॥ ८ ॥ ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् । क्‍वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुत: ॥ ९ ॥

tam eva cintayann arthamṛṣiḥ svāśrama eva saḥvasann agny-arka-somāmbu-bhū-vāyu-viyad-ātmasu

Shloka 10

तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुने: । उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥

tasyaikadā bhṛgu-śreṣṭhapuṣpabhadrā-taṭe muneḥupāsīnasya sandhyāyāṁbrahman vāyur abhūn mahān

Shloka 11

तं चण्डशब्दं समुदीरयन्तंबलाहका अन्वभवन् कराला: । अक्षस्थविष्ठा मुमुचुस्तडिद्भ‍ि:स्वनन्त उच्चैरभिवर्षधारा: ॥ ११ ॥

taṁ caṇḍa-śabdaṁ samudīrayantaṁbalāhakā anv abhavan karālāḥakṣa-sthaviṣṭhā mumucus taḍidbhiḥsvananta uccair abhi varṣa-dhārāḥ

Shloka 12

ततो व्यद‍ृश्यन्त चतु:समुद्रा:समन्तत: क्ष्मातलमाग्रसन्त: । समीरवेगोर्मिभिरुग्रनक्र-महाभयावर्तगभीरघोषा: ॥ १२ ॥

tato vyadṛśyanta catuḥ samudrāḥsamantataḥ kṣmā-talam āgrasantaḥsamīra-vegormibhir ugra-nakra-mahā-bhayāvarta-gabhīra-ghoṣāḥ

Shloka 13

अन्तर्बहिश्चाद्भ‍िरतिद्युभि: खरै:शतह्रदाभिरुपतापितं जगत् । चतुर्विधं वीक्ष्य सहात्मना मुनि-र्जलाप्लुतां क्ष्मां विमना: समत्रसत् ॥ १३ ॥

antar bahiś cādbhir ati-dyubhiḥ kharaiḥśatahradābhir upatāpitaṁ jagatcatur-vidhaṁ vīkṣya sahātmanā munirjalāplutāṁ kṣmāṁ vimanāḥ samatrasat

Shloka 14

तस्यैवमुद्वीक्षत ऊर्मिभीषण:प्रभञ्जनाघूर्णितवार्महार्णव: । आपूर्यमाणो वरषद्भ‍िरम्बुदै:क्ष्मामप्यधाद् द्वीपवर्षाद्रिभि: समम् ॥ १४ ॥

tasyaivam udvīkṣata ūrmi-bhīṣaṇaḥprabhañjanāghūrṇita-vār mahārṇavaḥāpūryamāṇo varaṣadbhir ambudaiḥkṣmām apyadhād dvīpa-varṣādribhiḥ samam

Shloka 15

सक्ष्मान्तरिक्षं सदिवं सभागणंत्रैलोक्यमासीत् सह दिग्भिराप्लुतम् । स एक एवोर्वरितो महामुनि-र्बभ्राम विक्षिप्य जटा जडान्धवत् ॥ १५ ॥

sa-kṣmāntarikṣaṁ sa-divaṁ sa-bhā-gaṇaṁtrai-lokyam āsīt saha digbhir āplutamsa eka evorvarito mahā-munirbabhrāma vikṣipya jaṭā jaḍāndha-vat

Shloka 16

क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलै-रुपद्रुतो वीचिनभस्वता हत: । तमस्यपारे पतितो भ्रमन् दिशोन वेद खं गां च परिश्रमेषित: ॥ १६ ॥

kṣut-tṛṭ-parīto makarais timiṅgilairupadruto vīci-nabhasvatāhataḥtamasy apāre patito bhraman diśona veda khaṁ gāṁ ca pariśrameṣitaḥ

Shloka 17-18

क्‍वचिन्मग्नो महावर्ते तरलैस्ताडित: क्‍वचित् । यादोभिर्भक्ष्यते क्‍वापि स्वयमन्योन्यघातिभि: ॥ १७ ॥ क्‍वचिच्छोकं क्‍वचिन्मोहं क्‍वचिद्दु:खं सुखं भयम् । क्‍वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुतार्दित: ॥ १८ ॥

kracin magno mahāvartetaralais tāḍitaḥ kvacityādobhir bhakṣyate kvāpisvayam anyonya-ghātibhiḥ

Shloka 19

अयुतायुतवर्षाणां सहस्राणि शतानि च । व्यतीयुर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मन: ॥ १९ ॥

ayutāyuta-varṣāṇāṁsahasrāṇi śatāni cavyatīyur bhramatas tasminviṣṇu-māyāvṛtātmanaḥ

Shloka 20

स कदाचिद् भ्रमंस्तस्मिन् पृथिव्या: ककुदि द्विज: । न्याग्रोधपोतं दद‍ृशे फलपल्ल‍वशोभितम् ॥ २० ॥

sa kadācid bhramaṁs tasminpṛthivyāḥ kakudi dvijaḥnyāgrodha-potaṁ dadṛśephala-pallava-śobhitam

Shloka 21

प्रागुत्तरस्यां शाखायां तस्यापि दद‍ृशे शिशुम् । शयानं पर्णपुटके ग्रसन्तं प्रभया तम: ॥ २१ ॥

prāg-uttarasyāṁ śākhāyāṁtasyāpi dadṛśe śiśumśayānaṁ parṇa-puṭakegrasantaṁ prabhayā tamaḥ

Shloka 22-25

महामरकतश्यामं श्रीमद्वदनपङ्कजम् । कम्बुग्रीवं महोरस्कं सुनसं सुन्दरभ्रुवम् ॥ २२ ॥ श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् । विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥ २३ ॥ पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् । श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४ ॥ चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् । मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मित: ॥ २५ ॥

mahā-marakata-śyāmaṁśrīmad-vadana-paṅkajamkambu-grīvaṁ mahoraskaṁsu-nasaṁ sundara-bhruvam

Shloka 26

तद्दर्शनाद् वीतपरिश्रमो मुदाप्रोत्फुल्ल‍हृत्पद्मविलोचनाम्बुज: । प्रहृष्टरोमाद्भ‍ुतभावशङ्कित:प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥

tad-darśanād vīta-pariśramo mudāprotphulla-hṛt-padma-vilocanāmbujaḥprahṛṣṭa-romādbhuta-bhāva-śaṅkitaḥpraṣṭuṁ puras taṁ prasasāra bālakam

Shloka 27

तावच्छिशोर्वै श्वसितेन भार्गव:सोऽन्त: शरीरं मशको यथाविशत् । तत्राप्यदो न्यस्तमचष्ट कृत्‍स्‍नशोयथा पुरामुह्यदतीव विस्मित: ॥ २७ ॥

tāvac chiśor vai śvasitena bhārgavaḥso ’ntaḥ śarīraṁ maśako yathāviśattatrāpy ado nyastam acaṣṭa kṛtsnaśoyathā purāmuhyad atīva vismitaḥ

Shloka 28-29

खं रोदसी भागणानद्रिसागरान्द्वीपान् सवर्षान् ककुभ: सुरासुरान् । वनानि देशान् सरित: पुराकरान्खेटान् व्रजानाश्रमवर्णवृत्तय: ॥ २८ ॥ महान्ति भूतान्यथ भौतिकान्यसौकालं च नानायुगकल्पकल्पनम् । यत् किञ्चिदन्यद् व्यवहारकारणंददर्श विश्वं सदिवावभासितम् ॥ २९ ॥

khaṁ rodasī bhā-gaṇān adri-sāgarāndvīpān sa-varṣān kakubhaḥ surāsurānvanāni deśān saritaḥ purākarānkheṭān vrajān āśrama-varṇa-vṛttayaḥ

Shloka 30

हिमालयं पुष्पवहां च तां नदींनिजाश्रमं यत्र ऋषी अपश्यत । विश्वं विपश्यञ्छ्वसिताच्छिशोर्वैबहिर्निरस्तो न्यपतल्ल‍याब्धौ ॥ ३० ॥

himālayaṁ puṣpavahāṁ ca tāṁ nadīṁnijāśramaṁ yatra ṛṣī apaśyataviśvaṁ vipaśyañ chvasitāc chiśor vaibahir nirasto nyapatal layābdhau

Shloka 31-32

तस्मिन् पृथिव्या: ककुदि प्ररूढंवटं च तत्पर्णपुटे शयानम् । तोकं च तत्प्रेमसुधास्मितेननिरीक्षितोऽपाङ्गनिरीक्षणेन ॥ ३१ ॥ अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि । अभ्ययादतिसङ्‌‌‌क्लिष्ट: परिष्वक्तुमधोक्षजम् ॥ ३२ ॥

tasmin pṛthivyāḥ kakudi prarūḍhaṁvaṭaṁ ca tat-parṇa-puṭe śayānamtokaṁ ca tat-prema-sudhā-smitenanirīkṣito ’pāṅga-nirīkṣaṇena

Shloka 33

तावत् स भगवान् साक्षाद् योगाधीशो गुहाशय: । अन्तर्दध ऋषे: सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥

tāvat sa bhagavān sākṣādyogādhīśo guhā-śayaḥantardadha ṛṣeḥ sadyoyathehānīśa-nirmitā

Shloka 34

तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लव: । तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववत्स्थित: ॥ ३४ ॥

tam anv atha vaṭo brahmansalilaṁ loka-samplavaḥtirodhāyi kṣaṇād asyasvāśrame pūrva-vat sthitaḥ

← PrevNext →