Canto 6, Chapter 15
श्रीशुक उवाच ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् । शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभि: ॥ १ ॥
śrī-śuka uvācaūcatur mṛtakopāntepatitaṁ mṛtakopamamśokābhibhūtaṁ rājānaṁbodhayantau sad-uktibhiḥ
कोऽयं स्यात्तव राजेन्द्र भवान् यमनुशोचति । त्वं चास्य कतम: सृष्टौ पुरेदानीमत: परम् ॥ २ ॥
ko ’yaṁ syāt tava rājendrabhavān yam anuśocatitvaṁ cāsya katamaḥ sṛṣṭaupuredānīm ataḥ param
यथा प्रयान्ति संयान्ति स्रोतोवेगेन बालुका: । संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिन: ॥ ३ ॥
yathā prayānti saṁyāntisroto-vegena bālukāḥsaṁyujyante viyujyantetathā kālena dehinaḥ
यथा धानासु वै धाना भवन्ति न भवन्ति च । एवं भूतानि भूतेषु चोदितानीशमायया ॥ ४ ॥
yathā dhānāsu vai dhānābhavanti na bhavanti caevaṁ bhūtāni bhūteṣucoditānīśa-māyayā
वयं च त्वं च ये चेमे तुल्यकालाश्चराचरा: । जन्ममृत्योर्यथा पश्चात् प्राङ्नैवमधुनापि भो: ॥ ५ ॥
vayaṁ ca tvaṁ ca ye cemetulya-kālāś carācarāḥjanma-mṛtyor yathā paścātprāṅ naivam adhunāpi bhoḥ
भूतैर्भूतानि भूतेश: सृजत्यवति हन्ति च । आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् ॥ ६ ॥
bhūtair bhūtāni bhūteśaḥsṛjaty avati hanti caātma-sṛṣṭair asvatantrairanapekṣo ’pi bālavat
देहेन देहिनो राजन् देहाद्देहोऽभिजायते । बीजादेव यथा बीजं देह्यर्थ इव शाश्वत: ॥ ७ ॥
dehena dehino rājandehād deho ’bhijāyatebījād eva yathā bījaṁdehy artha iva śāśvataḥ
देहदेहिविभागोऽयमविवेककृत: पुरा । जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पित: ॥ ८ ॥
deha-dehi-vibhāgo ’yamaviveka-kṛtaḥ purājāti-vyakti-vibhāgo ’yaṁyathā vastuni kalpitaḥ
श्रीशुक उवाच एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभि: । विमृज्य पाणिना वक्त्रमाधिम्लानमभाषत ॥ ९ ॥
śrī-śuka uvācaevam āśvāsito rājācitraketur dvijoktibhiḥvimṛjya pāṇinā vaktramādhi-mlānam abhāṣata
श्रीराजोवाचकौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् । अवधूतेन वेषेण गूढाविह समागतौ ॥ १० ॥
śrī-rājovācakau yuvāṁ jñāna-sampannaumahiṣṭhau ca mahīyasāmavadhūtena veṣeṇagūḍhāv iha samāgatau
चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रिया: । मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिन: ॥ ११ ॥
caranti hy avanau kāmaṁbrāhmaṇā bhagavat-priyāḥmādṛśāṁ grāmya-buddhīnāṁbodhāyonmatta-liṅginaḥ
कुमारो नारद ऋभुरङ्गिरा देवलोऽसित: । अपान्तरतमा व्यासो मार्कण्डेयोऽथ गौतम: ॥ १२ ॥ वसिष्ठो भगवान् राम: कपिलो बादरायणि: । दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथारुणि: ॥ १३ ॥ रोमशश्च्यवनो दत्त आसुरि: सपतञ्जलि: । ऋषिर्वेदशिरा धौम्यो मुनि: पञ्चशिखस्तथा ॥ १४ ॥ हिरण्यनाभ: कौशल्य: श्रुतदेव ऋतध्वज: । एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतव: ॥ १५ ॥
kumāro nārada ṛbhuraṅgirā devalo ’sitaḥapāntaratamā vyāsomārkaṇḍeyo ’tha gautamaḥ
तस्माद्युवां ग्राम्यपशोर्मम मूढधिय: प्रभू । अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६ ॥
tasmād yuvāṁ grāmya-paśormama mūḍha-dhiyaḥ prabhūandhe tamasi magnasyajñāna-dīpa udīryatām
श्रीअङ्गिरा उवाच अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप । एष ब्रह्मसुत: साक्षान्नारदो भगवानृषि: ॥ १७ ॥
śrī-aṅgirā uvācaahaṁ te putra-kāmasyaputrado ’smy aṅgirā nṛpaeṣa brahma-sutaḥ sākṣānnārado bhagavān ṛṣiḥ
इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे । अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८ ॥ अनुग्रहाय भवत: प्राप्तावावामिह प्रभो । ब्रह्मण्यो भगवद्भक्तो नावासादितुमर्हसि ॥ १९ ॥
itthaṁ tvāṁ putra-śokenamagnaṁ tamasi dustareatad-arham anusmṛtyamahāpuruṣa-gocaram
तदैव ते परं ज्ञानं ददामि गृहमागत: । ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददाम्यहम् ॥ २० ॥
tadaiva te paraṁ jñānaṁdadāmi gṛham āgataḥjñātvānyābhiniveśaṁ teputram eva dadāmy aham
अधुना पुत्रिणां तापो भवतैवानुभूयते । एवं दारा गृहा रायो विविधैश्वर्यसम्पद: ॥ २१ ॥ शब्दादयश्च विषयाश्चला राज्यविभूतय: । मही राज्यं बलं कोषो भृत्यामात्यसुहृज्जना: ॥ २२ ॥ सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदा: । गन्धर्वनगरप्रख्या: स्वप्नमायामनोरथा: ॥ २३ ॥
adhunā putriṇāṁ tāpobhavataivānubhūyateevaṁ dārā gṛhā rāyovividhaiśvarya-sampadaḥ
दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवा: । कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन् ॥ २४ ॥
dṛśyamānā vinārthenana dṛśyante manobhavāḥkarmabhir dhyāyato nānā-karmāṇi manaso ’bhavan
अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मक: । देहिनो विविधक्लेशसन्तापकृदुदाहृत: ॥ २५ ॥
ayaṁ hi dehino dehodravya-jñāna-kriyātmakaḥdehino vividha-kleśa-santāpa-kṛd udāhṛtaḥ
तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मन: । द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६ ॥
tasmāt svasthena manasāvimṛśya gatim ātmanaḥdvaite dhruvārtha-viśrambhaṁtyajopaśamam āviśa
श्रीनारद उवाच एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम । यां धारयन् सप्तरात्राद् द्रष्टा सङ्कर्षणं विभुम् ॥ २७ ॥
śrī-nārada uvācaetāṁ mantropaniṣadaṁpratīccha prayato mamayāṁ dhārayan sapta-rātrāddraṣṭā saṅkarṣaṇaṁ vibhum
यत्पादमूलमुपसृत्य नरेन्द्र पूर्वेशर्वादयो भ्रममिमं द्वितयं विसृज्य । सद्यस्तदीयमतुलानधिकं महित्वंप्रापुर्भवानपि परं न चिरादुपैति ॥ २८ ॥
yat-pāda-mūlam upasṛtya narendra pūrveśarvādayo bhramam imaṁ dvitayaṁ visṛjyasadyas tadīyam atulānadhikaṁ mahitvaṁprāpur bhavān api paraṁ na cirād upaiti