Canto 6, Chapter 6
श्रीशुक उवाच तत: प्राचेतसोऽसिक्न्यामनुनीत: स्वयम्भुवा । षष्टिं सञ्जनयामास दुहितृ: पितृवत्सला: ॥ १ ॥
śrī-śuka uvācatataḥ prācetaso ’siknyāmanunītaḥ svayambhuvāṣaṣṭiṁ sañjanayām āsaduhitṝḥ pitṛ-vatsalāḥ
दश धर्माय कायादाद्द्विषट्त्रिणव चेन्दवे । भूताङ्गिर:कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापरा: ॥ २ ॥
daśa dharmāya kāyādāddvi-ṣaṭ tri-ṇava cendavebhūtāṅgiraḥ-kṛśāśvebhyodve dve tārkṣyāya cāparāḥ
नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु । यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रय: ॥ ३ ॥
nāmadheyāny amūṣāṁ tvaṁsāpatyānāṁ ca me śṛṇuyāsāṁ prasūti-prasavairlokā āpūritās trayaḥ
भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती । वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्य: सुताञ्शृणु ॥ ४ ॥
bhānur lambā kakud yāmirviśvā sādhyā marutvatīvasur muhūrtā saṅkalpādharma-patnyaḥ sutāñ śṛṇu
भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप । विद्योत आसील्लम्बायास्ततश्च स्तनयित्नव: ॥ ५ ॥
bhānos tu deva-ṛṣabhaindrasenas tato nṛpavidyota āsīl lambāyāstataś ca stanayitnavaḥ
ककुद: सङ्कटस्तस्य कीकटस्तनयो यत: । भुवो दुर्गाणि यामेय: स्वर्गो नन्दिस्ततोऽभवत् ॥ ६ ॥
kakudaḥ saṅkaṭas tasyakīkaṭas tanayo yataḥbhuvo durgāṇi yāmeyaḥsvargo nandis tato ’bhavat
विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते । साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुत: ॥ ७ ॥
viśve-devās tu viśvāyāaprajāṁs tān pracakṣatesādhyo-gaṇaś ca sādhyāyāarthasiddhis tu tat-sutaḥ
मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतु: । जयन्तो वासुदेवांश उपेन्द्र इति यं विदु: ॥ ८ ॥
marutvāṁś ca jayantaś camarutvatyā babhūvatuḥjayanto vāsudevāṁśaupendra iti yaṁ viduḥ
मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे । ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ ९ ॥
mauhūrtikā deva-gaṇāmuhūrtāyāś ca jajñireye vai phalaṁ prayacchantibhūtānāṁ sva-sva-kālajam
सङ्कल्पायास्तु सङ्कल्प: काम: सङ्कल्पज: स्मृत: । वसवोऽष्टौ वसो: पुत्रास्तेषां नामानि मे शृणु ॥ १० ॥ द्रोण: प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसु: । द्रोणस्याभिमते: पत्न्या हर्षशोकभयादय: ॥ ११ ॥
saṅkalpāyās tu saṅkalpaḥkāmaḥ saṅkalpajaḥ smṛtaḥvasavo ’ṣṭau vasoḥ putrāsteṣāṁ nāmāni me śṛṇu
प्राणस्योर्जस्वती भार्या सह आयु: पुरोजव: । ध्रुवस्य भार्या धरणिरसूत विविधा: पुर: ॥ १२ ॥
prāṇasyorjasvatī bhāryāsaha āyuḥ purojavaḥdhruvasya bhāryā dharaṇirasūta vividhāḥ puraḥ
अर्कस्य वासना भार्या पुत्रास्तर्षादय: स्मृता: । अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादय: ॥ १३ ॥
arkasya vāsanā bhāryāputrās tarṣādayaḥ smṛtāḥagner bhāryā vasor dhārāputrā draviṇakādayaḥ
स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्तत: । दोषस्य शर्वरीपुत्र: शिशुमारो हरे: कला ॥ १४ ॥
skandaś ca kṛttikā-putroye viśākhādayas tataḥdoṣasya śarvarī-putraḥśiśumāro hareḥ kalā
वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपति: । ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनो: सुता: ॥ १५ ॥
vāstor āṅgirasī-putroviśvakarmākṛtī-patiḥtato manuś cākṣuṣo ’bhūdviśve sādhyā manoḥ sutāḥ
विभावसोरसूतोषा व्युष्टं रोचिषमातपम् । पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६ ॥
vibhāvasor asūtoṣāvyuṣṭaṁ rociṣam ātapampañcayāmo ’tha bhūtāniyena jāgrati karmasu
सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिश: । रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपि: ॥ १७ ॥ अजैकपादहिर्ब्रध्नो बहुरूपो महानिति । रुद्रस्य पार्षदाश्चान्ये घोरा: प्रेतविनायका: ॥ १८ ॥
sarūpāsūta bhūtasyabhāryā rudrāṁś ca koṭiśaḥraivato ’jo bhavo bhīmovāma ugro vṛṣākapiḥ
प्रजापतेरङ्गिरस: स्वधा पत्नी पितृनथ । अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥
prajāpater aṅgirasaḥsvadhā patnī pitṝn athaatharvāṅgirasaṁ vedaṁputratve cākarot satī
कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् । धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ २० ॥
kṛśāśvo ’rciṣi bhāryāyāṁdhūmaketum ajījanatdhiṣaṇāyāṁ vedaśirodevalaṁ vayunaṁ manum
तार्क्ष्यस्य विनता कद्रू: पतङ्गी यामिनीति च । पतङ्गयसूत पतगान्यामिनी शलभानथ ॥ २१ ॥ सुपर्णासूत गरुडं साक्षाद् यज्ञेशवाहनम् । सूर्यसूतमनूरुं च कद्रूर्नागाननेकश: ॥ २२ ॥
tārkṣyasya vinatā kadrūḥpataṅgī yāminīti capataṅgy asūta patagānyāminī śalabhān atha
कृत्तिकादीनि नक्षत्राणीन्दो: पत्न्यस्तु भारत । दक्षशापात् सोऽनपत्यस्तासु यक्ष्मग्रहार्दित: ॥ २३ ॥
kṛttikādīni nakṣatrāṇ-īndoḥ patnyas tu bhāratadakṣa-śāpāt so ’napatyastāsu yakṣma-grahārditaḥ
पुन: प्रसाद्य तं सोम: कला लेभे क्षये दिता: । शृणु नामानि लोकानां मातृणां शङ्कराणि च ॥ २४ ॥ अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् । अदितिर्दितिर्दनु: काष्ठा अरिष्टा सुरसा इला ॥ २५ ॥ मुनि: क्रोधवशा ताम्रा सुरभि: सरमा तिमि: । तिमेर्यादोगणा आसन् श्वापदा: सरमासुता: ॥ २६ ॥
punaḥ prasādya taṁ somaḥkalā lebhe kṣaye ditāḥśṛṇu nāmāni lokānāṁmātṝṇāṁ śaṅkarāṇi ca
सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप । ताम्राया: श्येनगृध्राद्या मुनेरप्सरसां गणा: ॥ २७ ॥
surabher mahiṣā gāvoye cānye dviśaphā nṛpatāmrāyāḥ śyena-gṛdhrādyāmuner apsarasāṁ gaṇāḥ
दन्दशूकादय: सर्पा राजन् क्रोधवशात्मजा: । इलाया भूरुहा: सर्वे यातुधानाश्च सौरसा: ॥ २८ ॥
dandaśūkādayaḥ sarpārājan krodhavaśātmajāḥilāyā bhūruhāḥ sarveyātudhānāś ca saurasāḥ
अरिष्टायास्तु गन्धर्वा: काष्ठाया द्विशफेतरा: । सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ् शृणु ॥ २९ ॥ द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसु: । अयोमुख: शङ्कुशिरा: स्वर्भानु: कपिलोऽरुण: ॥ ३० ॥ पुलोमा वृषपर्वा च एकचक्रोऽनुतापन: । धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जय: ॥ ३१ ॥
ariṣṭāyās tu gandharvāḥkāṣṭhāyā dviśaphetarāḥsutā danor eka-ṣaṣṭisteṣāṁ prādhānikāñ śṛṇu
स्वर्भानो: सुप्रभां कन्यामुवाह नमुचि: किल । वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२ ॥
svarbhānoḥ suprabhāṁ kanyāmuvāha namuciḥ kilavṛṣaparvaṇas tu śarmiṣṭhāṁyayātir nāhuṣo balī
वैश्वानरसुता याश्च चतस्रश्चारुदर्शना: । उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३ ॥ उपदानवीं हिरण्याक्ष: क्रतुर्हयशिरां नृप । पुलोमां कालकां च द्वे वैश्वानरसुते तु क: ॥ ३४ ॥ उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदित: । पौलोमा: कालकेयाश्च दानवा युद्धशालिन: ॥ ३५ ॥ तयो: षष्टिसहस्राणि यज्ञघ्नांस्ते पितु: पिता । जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्कर: ॥ ३६ ॥
vaiśvānara-sutā yāś cacatasraś cāru-darśanāḥupadānavī hayaśirāpulomā kālakā tathā
विप्रचित्ति: सिंहिकायां शतं चैकमजीजनत् । राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागता: ॥ ३७ ॥
vipracittiḥ siṁhikāyāṁśataṁ caikam ajījanatrāhu-jyeṣṭhaṁ ketu-śataṁgrahatvaṁ ya upāgatāḥ
अथात: श्रूयतां वंशो योऽदितेरनुपूर्वश: । यत्र नारायणो देव: स्वांशेनावातरद्विभु: ॥ ३८ ॥ विवस्वानर्यमा पूषा त्वष्टाथ सविता भग: । धाता विधाता वरुणो मित्र: शत्रु उरुक्रम: ॥ ३९ ॥
athātaḥ śrūyatāṁ vaṁśoyo ’diter anupūrvaśaḥyatra nārāyaṇo devaḥsvāṁśenāvātarad vibhuḥ
विवस्वत: श्राद्धदेवं संज्ञासूयत वै मनुम् । मिथुनं च महाभागा यमं देवं यमीं तथा । सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ ४० ॥
vivasvataḥ śrāddhadevaṁsaṁjñāsūyata vai manummithunaṁ ca mahā-bhāgāyamaṁ devaṁ yamīṁ tathāsaiva bhūtvātha vaḍavānāsatyau suṣuve bhuvi
छाया शनैश्चरं लेभे सावर्णिं च मनुं तत: । कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१ ॥
chāyā śanaiścaraṁ lebhesāvarṇiṁ ca manuṁ tataḥkanyāṁ ca tapatīṁ yā vaivavre saṁvaraṇaṁ patim
अर्यम्णो मातृका पत्नी तयोश्चर्षणय: सुता: । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ ४२ ॥
aryamṇo mātṛkā patnītayoś carṣaṇayaḥ sutāḥyatra vai mānuṣī jātirbrahmaṇā copakalpitā
पूषानपत्य: पिष्टादो भग्नदन्तोऽभवत्पुरा । योऽसौ दक्षाय कुपितं जहास विवृतद्विज: ॥ ४३ ॥
pūṣānapatyaḥ piṣṭādobhagna-danto ’bhavat purāyo ’sau dakṣāya kupitaṁjahāsa vivṛta-dvijaḥ
त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका । सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४ ॥
tvaṣṭur daityātmajā bhāryāracanā nāma kanyakāsanniveśas tayor jajñeviśvarūpaś ca vīryavān
तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि । विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ ४५ ॥
taṁ vavrire sura-gaṇāsvasrīyaṁ dviṣatām apivimatena parityaktāguruṇāṅgirasena yat