Canto 6, Chapter 7
श्रीराजोवाचकस्य हेतो: परित्यक्ता आचार्येणात्मन: सुरा: । एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ ॥ १ ॥
śrī-rājovācakasya hetoḥ parityaktāācāryeṇātmanaḥ surāḥetad ācakṣva bhagavañchiṣyāṇām akramaṁ gurau
श्रीबादरायणिरुवाचइन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथ: । मरुद्भिर्वसुभी रुद्रैरादित्यैर्ऋभुभिर्नृप ॥ २ ॥ विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रित: । सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभि: ॥ ३ ॥ विद्याधराप्सरोभिश्च किन्नरै: पतगोरगै: । निषेव्यमाणो मघवान्स्तूयमानश्च भारत ॥ ४ ॥ उपगीयमानो ललितमास्थानाध्यासनाश्रित: । पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ ५ ॥ युक्तश्चान्यै: पारमेष्ठ्यैश्चामरव्यजनादिभि: । विराजमान: पौलम्या सहार्धासनया भृशम् ॥ ६ ॥ स यदा परमाचार्यं देवानामात्मनश्च ह । नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभि: ॥ ७ ॥ वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् । नोच्चचालासनादिन्द्र: पश्यन्नपि सभागतम् ॥ ८ ॥
śrī-bādarāyaṇir uvācaindras tribhuvanaiśvarya-madollaṅghita-satpathaḥmarudbhir vasubhī rudrairādityair ṛbhubhir nṛpa
ततो निर्गत्य सहसा कविराङ्गिरस: प्रभु: । आययौ स्वगृहं तूष्णीं विद्वान्श्रीमदविक्रियाम् ॥ ९ ॥
tato nirgatya sahasākavir āṅgirasaḥ prabhuḥāyayau sva-gṛhaṁ tūṣṇīṁvidvān śrī-mada-vikriyām
तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मन: । गर्हयामास सदसि स्वयमात्मानमात्मना ॥ १० ॥
tarhy eva pratibudhyendroguru-helanam ātmanaḥgarhayām āsa sadasisvayam ātmānam ātmanā
अहो बत मयासाधु कृतं वै दभ्रबुद्धिना । यन्मयैश्वर्यमत्तेन गुरु: सदसि कात्कृत: ॥ ११ ॥
aho bata mayāsādhukṛtaṁ vai dabhra-buddhināyan mayaiśvarya-mattenaguruḥ sadasi kātkṛtaḥ
को गृध्येत्पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि । ययाहमासुरं भावं नीतोऽद्य विबुधेश्वर: ॥ १२ ॥
ko gṛdhyet paṇḍito lakṣmīṁtripiṣṭapa-pater apiyayāham āsuraṁ bhāvaṁnīto ’dya vibudheśvaraḥ
य: पारमेष्ठ्यं धिषणमधितिष्ठन्न कञ्चन । प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदु: ॥ १३ ॥
yaḥ pārameṣṭhyaṁ dhiṣaṇamadhitiṣṭhan na kañcanapratyuttiṣṭhed iti brūyurdharmaṁ te na paraṁ viduḥ
तेषां कुपथदेष्टृणां पततां तमसि ह्यध: । ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव ॥ १४ ॥
teṣāṁ kupatha-deṣṭṝṇāṁpatatāṁ tamasi hy adhaḥye śraddadhyur vacas te vaimajjanty aśma-plavā iva
अथाहममराचार्यमगाधधिषणं द्विजम् । प्रसादयिष्ये निशठ: शीर्ष्णा तच्चरणं स्पृशन् ॥ १५ ॥
athāham amarācāryamagādha-dhiṣaṇaṁ dvijamprasādayiṣye niśaṭhaḥśīrṣṇā tac-caraṇaṁ spṛśan
एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् । बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया ॥ १६ ॥
evaṁ cintayatas tasyamaghono bhagavān gṛhātbṛhaspatir gato ’dṛṣṭāṁgatim adhyātma-māyayā
गुरोर्नाधिगत: संज्ञां परीक्षन् भगवान् स्वराट् । ध्यायन् धिया सुरैर्युक्त: शर्म नालभतात्मन: ॥ १७ ॥
guror nādhigataḥ saṁjñāṁparīkṣan bhagavān svarāṭdhyāyan dhiyā surair yuktaḥśarma nālabhatātmanaḥ
तच्छ्रुत्वैवासुरा: सर्व आश्रित्यौशनसं मतम् । देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिन: ॥ १८ ॥
tac chrutvaivāsurāḥ sarvaāśrityauśanasaṁ matamdevān pratyudyamaṁ cakrurdurmadā ātatāyinaḥ
तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहव: । ब्रह्माणं शरणं जग्मु: सहेन्द्रा नतकन्धरा: ॥ १९ ॥
tair visṛṣṭeṣubhis tīkṣṇairnirbhinnāṅgoru-bāhavaḥbrahmāṇaṁ śaraṇaṁ jagmuḥsahendrā nata-kandharāḥ
तांस्तथाभ्यर्दितान्वीक्ष्य भगवानात्मभूरज: । कृपया परया देव उवाच परिसान्त्वयन् ॥ २० ॥
tāṁs tathābhyarditān vīkṣyabhagavān ātmabhūr ajaḥkṛpayā parayā devauvāca parisāntvayan
श्रीब्रह्मोवाचअहो बत सुरश्रेष्ठा ह्यभद्रं व: कृतं महत् । ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत ॥ २१ ॥
śrī-brahmovācaaho bata sura-śreṣṭhāhy abhadraṁ vaḥ kṛtaṁ mahatbrahmiṣṭhaṁ brāhmaṇaṁ dāntamaiśvaryān nābhyanandata
तस्यायमनयस्यासीत् परेभ्यो व: पराभव: । प्रक्षीणेभ्य: स्ववैरिभ्य: समृद्धानां च यत्सुरा: ॥ २२ ॥
tasyāyam anayasyāsītparebhyo vaḥ parābhavaḥprakṣīṇebhyaḥ sva-vairibhyaḥsamṛddhānāṁ ca yat surāḥ
मघवन् द्विषत: पश्य प्रक्षीणान् गुर्वतिक्रमात् । सम्प्रत्युपचितान् भूय: काव्यमाराध्य भक्तित: । आददीरन्निलयनं ममापि भृगुदेवता: ॥ २३ ॥
maghavan dviṣataḥ paśyaprakṣīṇān gurv-atikramātsampraty upacitān bhūyaḥkāvyam ārādhya bhaktitaḥādadīran nilayanaṁmamāpi bhṛgu-devatāḥ
त्रिपिष्टपं किं गणयन्त्यभेद्य-मन्त्रा भृगूणामनुशिक्षितार्था: । न विप्रगोविन्दगवीश्वराणांभवन्त्यभद्राणि नरेश्वराणाम् ॥ २४ ॥
tripiṣṭapaṁ kiṁ gaṇayanty abhedya-mantrā bhṛgūṇām anuśikṣitārthāḥna vipra-govinda-gav-īśvarāṇāṁbhavanty abhadrāṇi nareśvarāṇām
तद्विश्वरूपं भजताशु विप्रंतपस्विनं त्वाष्ट्रमथात्मवन्तम् । सभाजितोऽर्थान् स विधास्यते वोयदि क्षमिष्यध्वमुतास्य कर्म ॥ २५ ॥
tad viśvarūpaṁ bhajatāśu vipraṁtapasvinaṁ tvāṣṭram athātmavantamsabhājito ’rthān sa vidhāsyate voyadi kṣamiṣyadhvam utāsya karma
श्रीशुक उवाच त एवमुदिता राजन् ब्रह्मणा विगतज्वरा: । ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ २६ ॥
śrī-śuka uvācata evam uditā rājanbrahmaṇā vigata-jvarāḥṛṣiṁ tvāṣṭram upavrajyapariṣvajyedam abruvan
श्रीदेवा ऊचु: वयं तेऽतिथय: प्राप्ता आश्रमं भद्रमस्तु ते । काम: सम्पाद्यतां तात पितृणां समयोचित: ॥ २७ ॥
śrī-devā ūcuḥvayaṁ te ’tithayaḥ prāptāāśramaṁ bhadram astu tekāmaḥ sampādyatāṁ tātapitṝṇāṁ samayocitaḥ
पुत्राणां हि परो धर्म: पितृशुश्रूषणं सताम् । अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥ २८ ॥
putrāṇāṁ hi paro dharmaḥpitṛ-śuśrūṣaṇaṁ satāmapi putravatāṁ brahmankim uta brahmacāriṇām
आचार्यो ब्रह्मणो मूर्ति: पिता मूर्ति: प्रजापते: । भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनु: ॥ २९ ॥ दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथि: स्वयम् । अग्नेरभ्यागतो मूर्ति: सर्वभूतानि चात्मन: ॥ ३० ॥
ācāryo brahmaṇo mūrtiḥpitā mūrtiḥ prajāpateḥbhrātā marutpater mūrtirmātā sākṣāt kṣites tanuḥ
तस्मात् पितृणामार्तानामार्तिं परपराभवम् । तपसापनयंस्तात सन्देशं कर्तुमर्हसि ॥ ३१ ॥
tasmāt pitṝṇām ārtānāmārtiṁ para-parābhavamtapasāpanayaṁs tātasandeśaṁ kartum arhasi
वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् । यथाञ्जसा विजेष्याम: सपत्नांस्तव तेजसा ॥ ३२ ॥
vṛṇīmahe tvopādhyāyaṁbrahmiṣṭhaṁ brāhmaṇaṁ gurumyathāñjasā vijeṣyāmaḥsapatnāṁs tava tejasā
न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्य्रभिवादनम् । छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ ३३ ॥
na garhayanti hy artheṣuyaviṣṭhāṅghry-abhivādanamchandobhyo ’nyatra na brahmanvayo jyaiṣṭhyasya kāraṇam
श्रीऋषिरुवाचअभ्यर्थित: सुरगणै: पौरहित्ये महातपा: । स विश्वरूपस्तानाह प्रसन्न: श्लक्ष्णया गिरा ॥ ३४ ॥
śrī-ṛṣir uvācaabhyarthitaḥ sura-gaṇaiḥpaurahitye mahā-tapāḥsa viśvarūpas tān āhaprasannaḥ ślakṣṇayā girā
श्रीविश्वरूप उवाच विगर्हितं धर्मशीलैर्ब्रह्मवर्चउपव्ययम् । कथं नु मद्विधो नाथा लोकेशैरभियाचितम् । प्रत्याख्यास्यति तच्छिष्य: स एव स्वार्थ उच्यते ॥ ३५ ॥
śrī-viśvarūpa uvācavigarhitaṁ dharma-śīlairbrahmavarca-upavyayamkathaṁ nu mad-vidho nāthālokeśair abhiyācitampratyākhyāsyati tac-chiṣyaḥsa eva svārtha ucyate
अकिञ्चनानां हि धनं शिलोञ्छनंतेनेह निर्वर्तितसाधुसत्क्रिय: । कथं विगर्ह्यं नु करोम्यधीश्वरा:पौरोधसं हृष्यति येन दुर्मति: ॥ ३६ ॥
akiñcanānāṁ hi dhanaṁ śiloñchanaṁteneha nirvartita-sādhu-satkriyaḥkathaṁ vigarhyaṁ nu karomy adhīśvarāḥpaurodhasaṁ hṛṣyati yena durmatiḥ
तथापि न प्रतिब्रूयां गुरुभि: प्रार्थितं कियत् । भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ ३७ ॥
tathāpi na pratibrūyāṁgurubhiḥ prārthitaṁ kiyatbhavatāṁ prārthitaṁ sarvaṁprāṇair arthaiś ca sādhaye
श्रीबादरायणिरुवाचतेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपा: । पौरहित्यं वृतश्चक्रे परमेण समाधिना ॥ ३८ ॥
śrī-bādarāyaṇir uvācatebhya evaṁ pratiśrutyaviśvarūpo mahā-tapāḥpaurahityaṁ vṛtaś cakreparameṇa samādhinā
सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया । आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभु: ॥ ३९ ॥
sura-dviṣāṁ śriyaṁ guptāmauśanasyāpi vidyayāācchidyādān mahendrāyavaiṣṇavyā vidyayā vibhuḥ
यया गुप्त: सहस्राक्षो जिग्येऽसुरचमूर्विभु: । तां प्राह स महेन्द्राय विश्वरूप उदारधी: ॥ ४० ॥
yayā guptaḥ sahasrākṣojigye ’sura-camūr vibhuḥtāṁ prāha sa mahendrāyaviśvarūpa udāra-dhīḥ