Canto 7, Chapter 11
श्रीशुक उवाच श्रुत्वेहितं साधु सभासभाजितंमहत्तमाग्रण्य उरुक्रमात्मन: । युधिष्ठिरो दैत्यपतेर्मुदान्वित:पप्रच्छ भूयस्तनयं स्वयम्भुव: ॥ १ ॥
śrī-śuka uvācaśrutvehitaṁ sādhu sabhā-sabhājitaṁmahattamāgraṇya urukramātmanaḥyudhiṣṭhiro daitya-pater mudānvitaḥpapraccha bhūyas tanayaṁ svayambhuvaḥ
श्रीयुधिष्ठिर उवाच भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् । वर्णाश्रमाचारयुतं यत्पुमान्विन्दते परम् ॥ २ ॥
śrī-yudhiṣṭhira uvācabhagavan śrotum icchāminṛṇāṁ dharmaṁ sanātanamvarṇāśramācāra-yutaṁyat pumān vindate param
भवान्प्रजापते: साक्षादात्मज: परमेष्ठिन: । सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभि: ॥ ३ ॥
bhavān prajāpateḥ sākṣādātmajaḥ parameṣṭhinaḥsutānāṁ sammato brahmaṁstapo-yoga-samādhibhiḥ
नारायणपरा विप्रा धर्मं गुह्यं परं विदु: । करुणा: साधव: शान्तास्त्वद्विधा न तथापरे ॥ ४ ॥
nārāyaṇa-parā viprādharmaṁ guhyaṁ paraṁ viduḥkaruṇāḥ sādhavaḥ śāntāstvad-vidhā na tathāpare
श्रीनारद उवाच नत्वा भगवतेऽजाय लोकानां धर्मसेतवे । वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् ॥ ५ ॥
śrī-nārada uvācanatvā bhagavate ’jāyalokānāṁ dharma-setavevakṣye sanātanaṁ dharmaṁnārāyaṇa-mukhāc chrutam
योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मत: । लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥
yo ’vatīryātmano ’ṁśenadākṣāyaṇyāṁ tu dharmataḥlokānāṁ svastaye ’dhyāstetapo badarikāśrame
धर्ममूलं हि भगवान्सर्ववेदमयो हरि: । स्मृतं च तद्विदां राजन्येन चात्मा प्रसीदति ॥ ७ ॥
dharma-mūlaṁ hi bhagavānsarva-vedamayo hariḥsmṛtaṁ ca tad-vidāṁ rājanyena cātmā prasīdati
सत्यं दया तप: शौचं तितिक्षेक्षा शमो दम: । अहिंसा ब्रह्मचर्यं च त्याग: स्वाध्याय आर्जवम् ॥ ८ ॥ सन्तोष: समदृक्सेवा ग्राम्येहोपरम: शनै: । नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ ९ ॥ अन्नाद्यादे: संविभागो भूतेभ्यश्च यथार्हत: । तेष्वात्मदेवताबुद्धि: सुतरां नृषु पाण्डव ॥ १० ॥ श्रवणं कीर्तनं चास्य स्मरणं महतां गते: । सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ ११ ॥ नृणामयं परो धर्म: सर्वेषां समुदाहृत: । त्रिंशल्लक्षणवान् राजन्सर्वात्मा येन तुष्यति ॥ १२ ॥
satyaṁ dayā tapaḥ śaucaṁtitikṣekṣā śamo damaḥahiṁsā brahmacaryaṁ catyāgaḥ svādhyāya ārjavam
संस्कारा यत्राविच्छिन्ना: स द्विजोऽजो जगाद यम् । इज्याध्ययनदानानि विहितानि द्विजन्मनाम् । जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिता: ॥ १३ ॥
saṁskārā yatrāvicchinnāḥsa dvijo ’jo jagāda yamijyādhyayana-dānānivihitāni dvijanmanāmjanma-karmāvadātānāṁkriyāś cāśrama-coditāḥ
विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रह: । राज्ञो वृत्ति: प्रजागोप्तुरविप्राद्वा करादिभि: ॥ १४ ॥
viprasyādhyayanādīniṣaḍ-anyasyāpratigrahaḥrājño vṛttiḥ prajā-gopturaviprād vā karādibhiḥ
वैश्यस्तु वार्तावृत्ति: स्यान्नित्यं ब्रह्मकुलानुग: । शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥
vaiśyas tu vārtā-vṛttiḥ syānnityaṁ brahma-kulānugaḥśūdrasya dvija-śuśrūṣāvṛttiś ca svāmino bhavet
वार्ता विचित्रा शालीनयायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥
vārtā vicitrā śālīna-yāyāvara-śiloñchanamvipra-vṛttiś caturdheyaṁśreyasī cottarottarā
जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नर: । ऋते राजन्यमापत्सु सर्वेषामपि सर्वश: ॥ १७ ॥
jaghanyo nottamāṁ vṛttimanāpadi bhajen naraḥṛte rājanyam āpatsusarveṣām api sarvaśaḥ
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ १८ ॥ ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् । मृतं तु नित्ययाच्ञा स्यात्प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥ सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् । वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् । सर्ववेदमयो विप्र: सर्वदेवमयो नृप: ॥ २० ॥
ṛtāmṛtābhyāṁ jīvetamṛtena pramṛtena vāsatyānṛtābhyām api vāna śva-vṛttyā kadācana
शमो दमस्तप: शौचं सन्तोष: क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१ ॥
śamo damas tapaḥ śaucaṁsantoṣaḥ kṣāntir ārjavamjñānaṁ dayācyutātmatvaṁsatyaṁ ca brahma-lakṣaṇam
शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजय: क्षमा । ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ २२ ॥
śauryaṁ vīryaṁ dhṛtis tejastyāgaś cātmajayaḥ kṣamābrahmaṇyatā prasādaś casatyaṁ ca kṣatra-lakṣaṇam
देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् । आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २३ ॥
deva-gurv-acyute bhaktistri-varga-paripoṣaṇamāstikyam udyamo nityaṁnaipuṇyaṁ vaiśya-lakṣaṇam
शूद्रस्य सन्नति: शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् ॥ २४ ॥
śūdrasya sannatiḥ śaucaṁsevā svāminy amāyayāamantra-yajño hy asteyaṁsatyaṁ go-vipra-rakṣaṇam
स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता । तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ २५ ॥
strīṇāṁ ca pati-devānāṁtac-chuśrūṣānukūlatātad-bandhuṣv anuvṛttiś canityaṁ tad-vrata-dhāraṇam
सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनै: । स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २६ ॥ कामैरुच्चावचै: साध्वी प्रश्रयेण दमेन च । वाक्यै: सत्यै: प्रियै: प्रेम्णा काले काले भजेत्पतिम् ॥ २७ ॥
sammārjanopalepābhyāṁgṛha-maṇḍana-vartanaiḥsvayaṁ ca maṇḍitā nityaṁparimṛṣṭa-paricchadā
सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् । अप्रमत्ता शुचि: स्निग्धा पतिं त्वपतितं भजेत् ॥ २८ ॥
santuṣṭālolupā dakṣādharma-jñā priya-satya-vākapramattā śuciḥ snigdhāpatiṁ tv apatitaṁ bhajet
या पतिं हरिभावेन भजेत् श्रीरिव तत्परा । हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ २९ ॥
yā patiṁ hari-bhāvenabhajet śrīr iva tat-parāhary-ātmanā harer lokepatyā śrīr iva modate
वृत्ति: सङ्करजातीनां तत्तत्कुलकृता भवेत् । अचौराणामपापानामन्त्यजान्तेवसायिनाम् ॥ ३० ॥
vṛttiḥ saṅkara-jātīnāṁtat-tat-kula-kṛtā bhavetacaurāṇām apāpānāmantyajāntevasāyinām
प्राय: स्वभावविहितो नृणां धर्मो युगे युगे । वेददृग्भि: स्मृतो राजन्प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥
prāyaḥ sva-bhāva-vihitonṛṇāṁ dharmo yuge yugeveda-dṛgbhiḥ smṛto rājanpretya ceha ca śarma-kṛt
वृत्त्या स्वभावकृतया वर्तमान: स्वकर्मकृत् । हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३२ ॥
vṛttyā sva-bhāva-kṛtayāvartamānaḥ sva-karma-kṛthitvā sva-bhāva-jaṁ karmaśanair nirguṇatām iyāt
उप्यमानं मुहु: क्षेत्रं स्वयं निर्वीर्यतामियात् । न कल्पते पुन: सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥ एवं कामाशयं चित्तं कामानामतिसेवया । विरज्येत यथा राजन्नग्निवत् कामबिन्दुभि: ॥ ३४ ॥
upyamānaṁ muhuḥ kṣetraṁsvayaṁ nirvīryatām iyātna kalpate punaḥ sūtyaiuptaṁ bījaṁ ca naśyati
यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥ ३५ ॥
yasya yal lakṣaṇaṁ proktaṁpuṁso varṇābhivyañjakamyad anyatrāpi dṛśyetatat tenaiva vinirdiśet