← Canto 7

Canto 7, Chapter 12

Shloka 1

श्रीनारद उवाच ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् । आचरन्दासवन्नीचो गुरौ सुद‍ृढसौहृद: ॥ १ ॥

śrī-nārada uvācabrahmacārī gurukulevasan dānto guror hitamācaran dāsavan nīcogurau sudṛḍha-sauhṛdaḥ

Shloka 2

सायं प्रातरुपासीत गुर्वग्‍न्यर्कसुरोत्तमान् । सन्ध्ये उभे च यतवाग्जपन्ब्रह्म समाहित: ॥ २ ॥

sāyaṁ prātar upāsītagurv-agny-arka-surottamānsandhye ubhe ca yata-vāgjapan brahma samāhitaḥ

Shloka 3

छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रित: । उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥

chandāṁsy adhīyīta gurorāhūtaś cet suyantritaḥupakrame ’vasāne cacaraṇau śirasā namet

Shloka 4

मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥ ४ ॥

mekhalājina-vāsāṁsijaṭā-daṇḍa-kamaṇḍalūnbibhṛyād upavītaṁ cadarbha-pāṇir yathoditam

Shloka 5

सायं प्रातश्चरेद्भ‍ैक्ष्यं गुरवे तन्निवेदयेत् । भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्‍वचित् ॥ ५ ॥

sāyaṁ prātaś cared bhaikṣyaṁgurave tan nivedayetbhuñjīta yady anujñātono ced upavaset kvacit

Shloka 6

सुशीलो मितभुग्दक्ष: श्रद्दधानो जितेन्द्रिय: । यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥

suśīlo mita-bhug dakṣaḥśraddadhāno jitendriyaḥyāvad-arthaṁ vyavaharetstrīṣu strī-nirjiteṣu ca

Shloka 7

वर्जयेत्प्रमदागाथामगृहस्थो बृहद्‌व्रत: । इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मन: ॥ ७ ॥

varjayet pramadā-gāthāmagṛhastho bṛhad-vrataḥindriyāṇi pramāthīniharanty api yater manaḥ

Shloka 8

केशप्रसाधनोन्मर्दस्‍नपनाभ्यञ्जनादिकम् । गुरुस्त्रीभिर्युवतिभि: कारयेन्नात्मनो युवा ॥ ८ ॥

keśa-prasādhanonmarda-snapanābhyañjanādikamguru-strībhir yuvatibhiḥkārayen nātmano yuvā

Shloka 9

नन्वग्नि: प्रमदा नाम घृतकुम्भसम: पुमान् । सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥ ९ ॥

nanv agniḥ pramadā nāmaghṛta-kumbha-samaḥ pumānsutām api raho jahyādanyadā yāvad-artha-kṛt

Shloka 10

कल्पयित्वात्मना यावदाभासमिदमीश्वर: । द्वैतं तावन्न विरमेत्ततो ह्यस्य विपर्यय: ॥ १० ॥

kalpayitvātmanā yāvadābhāsam idam īśvaraḥdvaitaṁ tāvan na viramettato hy asya viparyayaḥ

Shloka 11

एतत्सर्वं गृहस्थस्य समाम्नातं यतेरपि । गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिन: ॥ ११ ॥

etat sarvaṁ gṛhasthasyasamāmnātaṁ yater apiguru-vṛttir vikalpenagṛhasthasyartu-gāminaḥ

Shloka 12

अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु । स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्‌व्रता: ॥ १२ ॥

añjanābhyañjanonmarda-stry-avalekhāmiṣaṁ madhusrag-gandha-lepālaṅkārāṁstyajeyur ye bṛhad-vratāḥ

Shloka 13-14

उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च । त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ १३ ॥ दत्त्वा वरमनुज्ञातो गुरो: कामं यदीश्वर: । गृहं वनं वा प्रविशेत्प्रव्रजेत्तत्र वा वसेत् ॥ १४ ॥

uṣitvaivaṁ gurukuledvijo ’dhītyāvabudhya catrayīṁ sāṅgopaniṣadaṁyāvad-arthaṁ yathā-balam

Shloka 15

अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । भूतै: स्वधामभि: पश्येदप्रविष्टं प्रविष्टवत् ॥ १५ ॥

agnau gurāv ātmani casarva-bhūteṣv adhokṣajambhūtaiḥ sva-dhāmabhiḥ paśyedapraviṣṭaṁ praviṣṭavat

Shloka 16

एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही । चरन्विदितविज्ञान: परं ब्रह्माधिगच्छति ॥ १६ ॥

evaṁ vidho brahmacārīvānaprastho yatir gṛhīcaran vidita-vijñānaḥparaṁ brahmādhigacchati

Shloka 17

वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान् । यानास्थाय मुनिर्गच्छेद‍ृषिलोकमुहाञ्जसा ॥ १७ ॥

vānaprasthasya vakṣyāminiyamān muni-sammatānyān āsthāya munir gacchedṛṣi-lokam uhāñjasā

Shloka 18

न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालत: । अग्निपक्व‍मथामं वा अर्कपक्व‍मुताहरेत् ॥ १८ ॥

na kṛṣṭa-pacyam aśnīyādakṛṣṭaṁ cāpy akālataḥagni-pakvam athāmaṁ vāarka-pakvam utāharet

Shloka 19

वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान् । लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥ १९ ॥

vanyaiś caru-puroḍāśānnirvapet kāla-coditānlabdhe nave nave ’nnādyepurāṇaṁ ca parityajet

Shloka 20

अग्‍न्यर्थमेव शरणमुटजं वाद्रिकन्दरम् । श्रयेत हिमवाय्वग्निवर्षार्कातपषाट्‌स्वयम् ॥ २० ॥

agny-artham eva śaraṇamuṭajaṁ vādri-kandaramśrayeta hima-vāyv-agni-varṣārkātapa-ṣāṭ svayam

Shloka 21

केशरोमनखश्मश्रुमलानि जटिलो दधत् । कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान् ॥ २१ ॥

keśa-roma-nakha-śmaśru-malāni jaṭilo dadhatkamaṇḍalv-ajine daṇḍa-valkalāgni-paricchadān

Shloka 22

चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनि: । द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रत: ॥ २२ ॥

cared vane dvādaśābdānaṣṭau vā caturo muniḥdvāv ekaṁ vā yathā buddhirna vipadyeta kṛcchrataḥ

Shloka 23

यदाकल्प: स्वक्रियायां व्याधिभिर्जरयाथवा । आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥

yadākalpaḥ sva-kriyāyāṁvyādhibhir jarayāthavāānvīkṣikyāṁ vā vidyāyāṁkuryād anaśanādikam

Shloka 24

आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् । कारणेषु न्यसेत् सम्यक्सङ्घातं तु यथार्हत: ॥ २४ ॥

ātmany agnīn samāropyasannyasyāhaṁ mamātmatāmkāraṇeṣu nyaset samyaksaṅghātaṁ tu yathārhataḥ

Shloka 25

खे खानि वायौ निश्वासांस्तेज:सूष्माणमात्मवान् । अप्स्वसृक्‍श्लेष्मपूयानि क्षितौ शेषं यथोद्भ‍वम् ॥ २५ ॥

khe khāni vāyau niśvāsāṁstejaḥsūṣmāṇam ātmavānapsv asṛk-śleṣma-pūyānikṣitau śeṣaṁ yathodbhavam

Shloka 26-28

वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि । पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥ मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् । दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥ रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् । अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८ ॥

vācam agnau savaktavyāmindre śilpaṁ karāv apipadāni gatyā vayasiratyopasthaṁ prajāpatau

Shloka 29-30

मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यै: कवौ परे । कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया । सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥ अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् । कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥ ३० ॥

mano manorathaiś candrebuddhiṁ bodhyaiḥ kavau parekarmāṇy adhyātmanā rudreyad-aham mamatā-kriyā

Shloka 31

इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम् । ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानल: ॥ ३१ ॥

ity akṣaratayātmānaṁcin-mātram avaśeṣitamjñātvādvayo ’tha virameddagdha-yonir ivānalaḥ

← PrevNext →