← Canto 7

Canto 7, Chapter 14

Shloka 1

श्रीयुधिष्ठिर उवाच गृहस्थ एतां पदवीं विधिना येन चाञ्जसा । यायाद्देवऋषे ब्रूहि माद‍ृशो गृहमूढधी: ॥ १ ॥

śrī-yudhiṣṭhira uvācagṛhastha etāṁ padavīṁvidhinā yena cāñjasāyāyād deva-ṛṣe brūhimādṛśo gṛha-mūḍha-dhīḥ

Shloka 2

श्रीनारद उवाच गृहेष्ववस्थितो राजन्क्रिया: कुर्वन्यथोचिता: । वासुदेवार्पणं साक्षादुपासीत महामुनीन् ॥ २ ॥

śrī-nārada uvācagṛheṣv avasthito rājankriyāḥ kurvan yathocitāḥvāsudevārpaṇaṁ sākṣādupāsīta mahā-munīn

Shloka 3-4

श‍ृण्वन्भगवतोऽभीक्ष्णमवतारकथामृतम् । श्रद्दधानो यथाकालमुपशान्तजनावृत: ॥ ३ ॥ सत्सङ्गाच्छनकै: सङ्गमात्मजायात्मजादिषु । विमुञ्चेन्मुच्यमानेषु स्वयं स्वप्नवदुत्थित: ॥ ४ ॥

śṛṇvan bhagavato ’bhīkṣṇamavatāra-kathāmṛtamśraddadhāno yathā-kālamupaśānta-janāvṛtaḥ

Shloka 5

यावदर्थमुपासीनो देहे गेहे च पण्डित: । विरक्तो रक्तवत्तत्र नृलोके नरतां न्यसेत् ॥ ५ ॥

yāvad-artham upāsīnodehe gehe ca paṇḍitaḥvirakto raktavat tatranṛ-loke naratāṁ nyaset

Shloka 6

ज्ञातय: पितरौ पुत्रा भ्रातर: सुहृदोऽपरे । यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्मम: ॥ ६ ॥

jñātayaḥ pitarau putrābhrātaraḥ suhṛdo ’pareyad vadanti yad icchanticānumodeta nirmamaḥ

Shloka 7

दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम् । तत्सर्वमुपयुञ्जान एतत्कुर्यात्स्वतो बुध: ॥ ७ ॥

divyaṁ bhaumaṁ cāntarīkṣaṁvittam acyuta-nirmitamtat sarvam upayuñjānaetat kuryāt svato budhaḥ

Shloka 8

यावद् भ्र्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ८ ॥

yāvad bhriyeta jaṭharaṁtāvat svatvaṁ hi dehināmadhikaṁ yo ’bhimanyetasa steno daṇḍam arhati

Shloka 9

मृगोष्ट्रखरमर्काखुसरीसृप्खगमक्षिका: । आत्मन: पुत्रवत् पश्येत्तैरेषामन्तरं कियत् ॥ ९ ॥

mṛgoṣṭra-khara-markākhu-sarīsṛp khaga-makṣikāḥātmanaḥ putravat paśyettair eṣām antaraṁ kiyat

Shloka 10

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि । यथादेशं यथाकालं यावद्दैवोपपादितम् ॥ १० ॥

tri-vargaṁ nātikṛcchreṇabhajeta gṛha-medhy apiyathā-deśaṁ yathā-kālaṁyāvad-daivopapāditam

Shloka 11

आश्वाघान्तेऽवसायिभ्य: कामान्संविभजेद्यथा । अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यत: ॥ ११ ॥

āśvāghānte ’vasāyibhyaḥkāmān saṁvibhajed yathāapy ekām ātmano dārāṁnṛṇāṁ svatva-graho yataḥ

Shloka 12

जह्याद् यदर्थे स्वान्प्राणान्हन्याद्वा पितरं गुरुम् । तस्यां स्वत्वं स्‍त्रियां जह्याद्यस्तेन ह्यजितो जित: ॥ १२ ॥

jahyād yad-arthe svān prāṇānhanyād vā pitaraṁ gurumtasyāṁ svatvaṁ striyāṁ jahyādyas tena hy ajito jitaḥ

Shloka 13

कृमिविड्भस्मनिष्ठान्तं क्‍वेदं तुच्छं कलेवरम् । क्व‍ तदीयरतिर्भार्या क्व‍ायमात्मा नभश्छदि: ॥ १३ ॥

kṛmi-viḍ-bhasma-niṣṭhāntaṁkvedaṁ tucchaṁ kalevaramkva tadīya-ratir bhāryākvāyam ātmā nabhaś-chadiḥ

Shloka 14

सिद्धैर्यज्ञावशिष्टार्थै: कल्पयेद् वृत्तिमात्मन: । शेषे स्वत्वं त्यजन्प्राज्ञ: पदवीं महतामियात् ॥ १४ ॥

siddhair yajñāvaśiṣṭārthaiḥkalpayed vṛttim ātmanaḥśeṣe svatvaṁ tyajan prājñaḥpadavīṁ mahatām iyāt

Shloka 15

देवानृषीन् नृभूतानि पितृनात्मानमन्वहम् । स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ १५ ॥

devān ṛṣīn nṛ-bhūtānipitṝn ātmānam anvahamsva-vṛttyāgata-vittenayajeta puruṣaṁ pṛthak

Shloka 16

यर्ह्यात्मनोऽधिकाराद्या: सर्वा: स्युर्यज्ञसम्पद: । वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १६ ॥

yarhy ātmano ’dhikārādyāḥsarvāḥ syur yajña-sampadaḥvaitānikena vidhināagni-hotrādinā yajet

Shloka 17

न ह्यग्निमुखतोऽयं वै भगवान्सर्वयज्ञभुक् । इज्येत हविषा राजन्यथा विप्रमुखे हुतै: ॥ १७ ॥

na hy agni-mukhato ’yaṁ vaibhagavān sarva-yajña-bhukijyeta haviṣā rājanyathā vipra-mukhe hutaiḥ

Shloka 18

तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हत: । तैस्तै: कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥ १८ ॥

tasmād brāhmaṇa-deveṣumartyādiṣu yathārhataḥtais taiḥ kāmair yajasvainaṁkṣetra-jñaṁ brāhmaṇān anu

Shloka 19

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विज: । श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥ १९ ॥

kuryād apara-pakṣīyaṁmāsi prauṣṭha-pade dvijaḥśrāddhaṁ pitror yathā-vittaṁtad-bandhūnāṁ ca vittavān

Shloka 20-23

अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये । चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २० ॥ तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥ माघे च सितसप्तम्यां मघाराकासमागमे । राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ २२ ॥ द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तरा: । तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगूयुक् ॥ २३ ॥

ayane viṣuve kuryādvyatīpāte dina-kṣayecandrādityoparāge cadvādaśyāṁ śravaṇeṣu ca

Shloka 24

त एते श्रेयस: काला नृणां श्रेयोविवर्धना: । कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुष: ॥ २४ ॥

ta ete śreyasaḥ kālānṝṇāṁ śreyo-vivardhanāḥkuryāt sarvātmanaiteṣuśreyo ’moghaṁ tad-āyuṣaḥ

Shloka 25

एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम् । पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् ॥ २५ ॥

eṣu snānaṁ japo homovrataṁ deva-dvijārcanampitṛ-deva-nṛ-bhūtebhyoyad dattaṁ tad dhy anaśvaram

Shloka 26

संस्कारकालो जायाया अपत्यस्यात्मनस्तथा । प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६ ॥

saṁskāra-kālo jāyāyāapatyasyātmanas tathāpreta-saṁsthā mṛtāhaś cakarmaṇy abhyudaye nṛpa

Shloka 27-28

अथ देशान्प्रवक्ष्यामि धर्मादिश्रेयआवहान् । स वै पुण्यतमो देश: सत्पात्रं यत्र लभ्यते ॥ २७ ॥ बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् । यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८ ॥

atha deśān pravakṣyāmidharmādi-śreya-āvahānsa vai puṇyatamo deśaḥsat-pātraṁ yatra labhyate

Shloka 29

यत्र यत्र हरेरर्चा स देश: श्रेयसां पदम् । यत्र गङ्गादयो नद्य: पुराणेषु च विश्रुता: ॥ २९ ॥

yatra yatra harer arcāsa deśaḥ śreyasāṁ padamyatra gaṅgādayo nadyaḥpurāṇeṣu ca viśrutāḥ

Shloka 30-33

सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत । कुरुक्षेत्रं गयशिर: प्रयाग: पुलहाश्रम: ॥ ३० ॥ नैमिषं फाल्गुनं सेतु: प्रभासोऽथ कुशस्थली । वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१ ॥ नारायणाश्रमो नन्दा सीतारामाश्रमादय: । सर्वे कुलाचला राजन्महेन्द्रमलयादय: ॥ ३२ ॥ एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये । एतान्देशान्निषेवेत श्रेयस्कामो ह्यभीक्ष्णश: । धर्मो ह्यत्रेहित: पुंसां सहस्राधिफलोदय: ॥ ३३ ॥

sarāṁsi puṣkarādīnikṣetrāṇy arhāśritāny utakurukṣetraṁ gaya-śiraḥprayāgaḥ pulahāśramaḥ

Shloka 34

पात्रं त्वत्र निरुक्तं वै कविभि: पात्रवित्तमै: । हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४ ॥

pātraṁ tv atra niruktaṁ vaikavibhiḥ pātra-vittamaiḥharir evaika urvīśayan-mayaṁ vai carācaram

Shloka 35

देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु । राजन्यदग्रपूजायां मत: पात्रतयाच्युत: ॥ ३५ ॥

devarṣy-arhatsu vai satsutatra brahmātmajādiṣurājan yad agra-pūjāyāṁmataḥ pātratayācyutaḥ

Shloka 36

जीवराशिभिराकीर्ण अण्डकोशाङ्‌घ्रिपो महान् । तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३६ ॥

jīva-rāśibhir ākīrṇaaṇḍa-kośāṅghripo mahāntan-mūlatvād acyutejyāsarva-jīvātma-tarpaṇam

Shloka 37

पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवता: । शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७ ॥

purāṇy anena sṛṣṭāninṛ-tiryag-ṛṣi-devatāḥśete jīvena rūpeṇapureṣu puruṣo hy asau

Shloka 38

तेष्वेव भगवान् राजंस्तारतम्येन वर्तते । तस्मात्पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८ ॥

teṣv eva bhagavān rājaṁstāratamyena vartatetasmāt pātraṁ hi puruṣoyāvān ātmā yatheyate

Shloka 39

द‍ृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप । त्रेतादिषु हरेरर्चा क्रियायै कविभि: कृता ॥ ३९ ॥

dṛṣṭvā teṣāṁ mitho nṛṇāmavajñānātmatāṁ nṛpatretādiṣu harer arcākriyāyai kavibhiḥ kṛtā

Shloka 40

ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया । उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ ४० ॥

tato ’rcāyāṁ hariṁ kecitsaṁśraddhāya saparyayāupāsata upāstāpinārthadā puruṣa-dviṣām

Shloka 41

पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदु: । तपसा विद्यया तुष्टय‍ा धत्ते वेदं हरेस्तनुम् ॥ ४१ ॥

puruṣeṣv api rājendrasupātraṁ brāhmaṇaṁ viduḥtapasā vidyayā tuṣṭyādhatte vedaṁ hares tanum

Shloka 42

नन्वस्य ब्राह्मणा राजन्कृष्णस्य जगदात्मन: । पुनन्त: पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥

nanv asya brāhmaṇā rājankṛṣṇasya jagad-ātmanaḥpunantaḥ pāda-rajasātri-lokīṁ daivataṁ mahat

← PrevNext →